संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य ८०१ ते ८५० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य ८०१ ते ८५० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ८०१ ते ८५० Translation - भाषांतर रावणे व्यसृ ज द्रामः शरवर्षाणि संततम् रामेऽपि रावणो, वीरावुभौ शस्त्रास्त्रपारगौ. ॥८०१॥ अस्त्रप्रयोगं य त्तौ तौ चक्रतुर्युद्धपंडितौ खंदितौ यौ न कुत्रापि समरे जयमंडितौ. ॥८०२॥लक्ष्मणोऽथ ध्व ज च्छेदं शिरश्छेदं च सारथेः ततश्चक्रे धनुश्छेदं सायकैर्जयदायकैः. ॥८०३॥बिभीषणो ह य श्रेष्ठान् भ्रातुर्ज्येष्ठस्य संगरे जघानाप्लुत्य गदया न दयास्त्यतिपापिनि. ॥८०४॥ततः खरत रा माशु क्रोधादशनिसन्निभाम् बिभीषणाय चिक्षेण शक्तिं शक्तिमतां वरः. ॥८०५॥अप्राप्तामेव म ध्ये तां लक्ष्मणस्त्रिभिराशुगैः चिच्छेद खेदयन्युद्धे दशकंठस्य मानसम्. ॥८०६॥अन्यां च शक्र श्री हर्ता शक्तिं जग्राह दारुणाम्त्रातुं बिभीषणं तस्थावग्रतस्तस्य लक्ष्मणः. ॥८०७॥तमुवाच श रा सारैश्छादयंतं स रावणः, बिभीषणो मोक्षितश्चेत्त्वयीयं विनिपात्यते. ’ ॥८०८॥इत्युक्त्वा शक्ति म त्युग्रां चिक्षेप मयनिर्मिताम्मोघा भवेति रामोक्ता तद्वक्षसि ममज्ज सा. ॥८०९॥पपात मोहं ज नयन् रामेऽपि भुवि लक्ष्मणः. न विषादस्य कालोऽयमिति संचिंत्य राघवः ॥८१०॥कौसल्यातन य श्चक्रे तुमुलं युद्धमोजसा विचकर्ष ततः शक्तिं तां विकृष्य बभंज च. ॥८११॥तदा खराः श रा स्तस्य शक्तिं निष्कर्षतोऽरिणा बलीयसा दशास्येन गात्रे रामस्य पातिताः. ॥८१२॥अचिंतयित्वा म र्मघ्नांस्तानिषूनरिणेरितान्समाश्लिष्यानुजं रामः सुग्रीवादींस्तदाब्रवीत्. ॥८१३॥‘ परिवार्यैव न न्येऽमुं तिष्ठध्वं वानरोत्तमाः यावद्धन्म्यहितं, कालः प्राप्तोऽयं मे चिरेप्सितः. ॥८१४॥जाओतऽक्षिविष य श्चायं नैव जीवितुमर्हति विनतातनयेनेव दृष्टो दुष्टो भुजंगमः. ॥८१५॥करिष्यामि त्रि ज गति ख्यातं कर्माद्य यत्सुराःनराश्च कथयिष्यंति यावद्भूश्चंद्रभास्करौ. ’ ॥८१६॥एवमुक्त्वा सा य कौघैराजघान दशाननम् स साध्बसात्प्रदुद्राव यथा वातहतोंऽबुदः. ॥८१७॥दशग्रीवं प रा भूय केसरीव महागजम् ददर्श करुणासिंधुर्लक्ष्मणं मूर्च्छितं भुवि. ॥८१८॥ततः सुषेण म गदंकादं रघुवरोऽब्रवीत्, ‘ लक्ष्मणोऽयं यदि मृतः, प्राणैः किं मे प्रयोजनम् ? ’ ॥८१९॥तदा सुषेणः श्री मंतं तं हनूमंतमब्रवीत् ‘ गच्छ तात ! द्रुतं त्वं ता ओषधीः पुनरानय. ’ ॥८२०॥गत्वा शृंगं ध रा भृत्तो गृहीत्वा पुनरागतः. सुषेणस्तं प्रशस्याथ गृहीत्वा तां महौषधिम् ॥८२१॥संक्षोदयित्वा म तिमांस्तद्रसं सोऽमृतोपमम् लक्ष्मणाय ददौ नस्तो न स्तो यस्मान्मृतिव्यथे. ॥८२२॥विशल्यो विरु ज स्तूर्णमुदतिष्ठत्स लक्ष्मणः तमालिंग्याभवद्रामो बाष्पपर्याकुलेक्षणः. ॥८२३॥प्रहृष्टा हर य स्तं ते पूजयामासुरुत्थितम् रामरावणयोर्युद्धं प्रवृत्तं पुनरद्भुतम्. ॥८२४॥भूमौ स्थितस्य रा मस्य रथस्थस्य च रक्षसः न समं युद्धमित्याहुर्देवगंधर्वकिंनराः. ॥८२५॥तच्छ्रुत्वा शत म न्युः स्वं सखायं सूतमब्रवीत्, ‘ मातले ! गच्छ रामं त्वं मद्रथे स्थापयाश्वि’ति. ॥८२६॥शक्राज्ञया प्रां ज लिना प्रार्थितस्तेन राघवः आरुह्य स्यंदनं दिव्यं युयुधे सह रक्षसा. ॥८२७॥गांधर्वमथ य द्दैवमस्त्रं राक्षमद्भुतम् प्रत्युक्तमरिणा रामः प्रत्यस्त्रेण जघान तत्. ॥८२८॥स चकार ध्व ज च्छेदं मर्दयित्वा प्रभुः शरैः ऐन्द्रानपि जघानाश्वान् विद्ध्वा मर्मसु मातलिम्. ॥८२९॥त्रिदशा ऋष य स्त्रस्ता दृष्ट्वार्तं रघुनंदनम्व्यथिता वानरेंद्राश्च बभूवुः सबिभीषणाः. ॥८३०॥तदा क्रूरत रा जाता उत्पाता बहवो रणे जगाम सुमहाक्रोधं रामस्तामरसेक्षणः. ॥८३१॥तस्मिन्क्रुद्धे स म र्थे भूः प्राकंपत सपर्वता सर्वभूतानि वित्रेसुः क्षुभितः सरितां पतिः. ॥८३२॥शूलं गृहीत्वा श्री दत्य भ्राता परमदारुणम् हतोऽसीति ब्रुवन् रामं प्रतिचिक्षेप कोपतः. ॥८३३॥दग्ध्वात्मनः श रा न् घोरानापतंतं महाप्रभम् रामो वासवशक्त्या तं शूलं चिच्छेद भीमया. ॥८३४॥शरैस्तुरंग म श्रेष्ठांस्तस्य विद्ध्वा रघूत्तमः निर्बिभेदोरसि क्रूरं ललाटेऽपीषुभिस्त्रिभिः. ॥८३५॥रामोऽपि प्रति ज ग्राह शरानुग्रस्य रक्षसःदृष्टः शोणितदिग्धांगः स फुल्ल इव किंशुख. ॥८३६॥ कौसल्यातन य स्तस्य च्छित्वा शस्त्राण्युवाच तम, ‘ शून्याश्रमात्वया चौरचर्यया राक्षसाधम ! ॥८३७॥भार्या मम प रा मृष्टा तस्मात्त्वं नासि वीर्यवान् अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम्. ॥८३८॥गर्वमद्य स म स्तं ते संहर्तुं शिरसा सह स्थितोऽस्मि पुरतस्तिष्ठ त्वं पाप ! पुरुषो भव. ’ ॥८३९॥एवमुक्त्वा भ्रा ज मानैस्ताडयामास तं शरैः कपयश्चाश्मभिर्जघ्नुः स तदा व्याकुलोऽभवत्. ॥८४०॥सारथिः सुप्रि य स्तस्य तदवस्थं निरीक्ष्य तम् शनैर्युद्धादसंभ्रांत शतांगं सोऽपवाहयत् ॥८४१॥स मोहमुक्तो ज नितक्रोधो धिक्कृत्य सारथिम्उवाच परुषं प्राज्यं कालनष्टमतिर्हि यत्. ॥८४२॥सूतस्तमाह, ‘ य द्राजन् ! कश्मलं त्वयि संगरे दृष्टं मया न तत्पूर्वं तेन त्वमपवाहितः. ॥८४३॥दद्वक्ष्यस्यद्य रा जन् ! मां तत्करिष्याम्यसंशयम् नाहं भीतो नोपजप्तः स्नेहेनैतत्कृतं मया. ’ ॥८४४॥श्रुत्वेति वाक्यं म धुरं प्रसन्नहृदयोऽभवत् ददौ तस्मै शुभं ह्येकं हस्ताभरणमात्मनः. ॥८४५॥ सूतो रवं तं श्री दस्य भ्रातुर्वचनगौरवात् निनाय रघुवीरस्य पुरतः प्रेरयन्हरीन्. ॥८४६॥दशाननप रा भूतिचिंतया व्यग्रमानसम् उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः. ॥८४७॥ ‘ भो रामभद्र, म त्प्रोक्तं शृणु गुह्यं सनातनम् येन सर्वानरीन्वत्स ! विजेष्यसि रणाजिरे. ’ ॥८४८॥स एवमुक्त्वा ज यदमादित्यहृदयं ददौ जप्त्वा विजेष्यस्यद्य त्वं रावणं शक्रशात्रवम्. ॥८४९॥उपदिश्येति य शसानुपमोऽथ जगाम सः रामोऽपि जप्त्वा स्तोत्रं तत्परं हर्षमवाप्तवान्. ॥८५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP