संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य ३५१ ते ४०० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य ३५१ ते ४०० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ३५१ ते ४०० Translation - भाषांतर चक्षुःपथं म म प्राप्य न जीवन्प्रतियास्यसि यद्याविशसि लोकांस्त्रीन् खगीभूतो निशाचर ! ॥३५१॥ जघन्यजं त्वां श्री दस्य हितं वाक्यं ब्रवीम्यहम् सुदृष्टा क्रियतां लंका क्रियतां चौर्ध्वदेहिकम्. ’ ॥३५२॥ इत्थमुक्तः स रा मेण तारेयोऽक्लिष्टकर्मणा जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट्. ॥३५३॥ददर्शासीन म व्यग्रं रावणं सचिवैः सह तस्थौ तस्याविदूरेण निपत्याग्निसमप्रभः. ॥३५४॥ततो भर्तुस्त्रि ज गतां श्रावयामास तद्वचः, ‘ दूतोऽहं कोसलेंद्रस्य रामस्याक्लिष्टकर्मणः. ॥३५५॥अंगदस्तन यस्तस्य वालिनश्चेत्त्वया श्रुतःआह त्वां राघवो रामः कौसल्यानंदवर्धनः. ॥३५६॥निष्पत्य त्वं सु रा राते ! युत्ध्वस्व, पुरुषो भव, हंतास्मि त्वां सहामात्यं सपुत्रज्ञातिबांधवम्. ॥३५७॥त्रयो लोकाः सु म नसो भविष्यंति हते त्वयि बिभीषणस्य चैश्वर्यं भविष्यति महात्मनः. ॥३५८॥उद्धरिप्यामि ज गतीसुराणां त्वाद्यकंटकम् हरेरिभ इव स्थातुं न त्वं मम पुरः क्षमः. ॥३५९॥देवदानव य क्षाणां गंधर्वोरगपक्षिणाम् शत्रुमन्मूलयिष्यामि त्वामहं लीलया रणे. ॥३६०॥उक्तं सत्यं नि ज वचः करिष्यामि दशानन ! न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि.’ ॥३६१॥तारायास्तन य स्येत्थं श्रुत्वा स परुषं वचः रुष्टः शशास सचिवानसकृत्द्गृह्यतामिति. ॥३६२॥ जगृहुर्युव रा जानं चत्वारो रजनीचराः ग्राहयामास तारेयो बलं दर्शयितुं तदा. ॥३६३॥ स तान् विहंग म समान् भुजसक्तान्महाबलः समादायोत्पपाताशु प्रासादं शैलसन्निभम्. ॥३६४॥यदोत्पपात श्री मान्त्स प्रबलः पक्षिराडिव तस्योत्पतनवेगात्ते निर्धूताः पतिता मृताः. ॥३६५॥ तस्य पादभ रा क्रांतः प्रासादः स महानपि पफाल शतधा वज्रप्रहाराद्धिमवानिव. ॥३६६॥प्लवंगमानां म ध्ये स रामपार्श्वमुपागतः भंक्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः. ॥३६७॥ ततः प्रवृत्तं ज न्यं तद्दारुणं कपिरक्षसाम् कबंधा उत्थिता यत्र दुस्तराः शोणिता पगाः. ॥३६८॥तारायास्तन य स्तत्र रात्रियुद्धे भयंकरे तमिंद्रजितमत्युग्रं चकार विरथं बली. ॥३६९॥महामायः स रा त्रौ तावदृश्यो रामलक्ष्मणौ बबंध शरबंधेन कूटयोधी निशाचरः. ॥३७०॥बद्धौ भुजंग म वरैर्विद्यया शरतां गतैः निष्पंदौ पतितौ वीरौ मूर्च्छितौ रामलक्ष्मणौ. ॥३७१॥ स्रातौ स्वक्षत ज स्रुत्या भूयस्या समराजिरे तौ रामलक्ष्मणौ दृष्टौ पुष्पिताविव किंशुकौ. ॥३७२॥तावुवाच वि य द्वर्ती रावणिर्माम सुरेश्वरः द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम्. ॥३७३॥ यमलोकं रा ज पुत्रौ नयामीति वदन् शरैः निर्बिभेद पुनस्तीक्ष्णैः प्रजहर्ष ननाद च. ॥३७४॥तयोर्जगन्ना य कयोः शरीरेंऽगुलमंतरम् न ह्यविद्धं बभूवोग्रैः फणिभिर्बाणतां गतैः. ॥३७५॥दृष्ट्वा खरश रा क्रांतौ जगत्यां जगतां पती बिभीषणश्च सुग्रीवः संतापं परमं गतौ. ॥३७६॥ कपयो हनु म न्मुख्या व्याकुलौ परिवार्य तौ तस्थुर्द्या च भुवं चापि वीक्षमाणा वनौकसः. ॥३७७॥सलक्ष्मणं तं श्री रामं परिवार्य स्थितान् कपीन् यूथपानिषुभिर्घोरैरताडयदरिंदमः. ॥३७८॥एवं सर्वान् प रा भूय हर्षयन् सर्वराक्षसान् प्रहृष्टो रावणिर्लंकां प्रविवेश महायशाः. ॥३७९॥बिभीषणोऽथ म तिमानब्रवीद्वानरेश्वरम्, ‘ पर्यवस्थापयात्मानमनाथं मां च संकटे. ॥३८०॥त्वं वैक्लव्यं त्य ज क्षिप्रं न मृतौ रामलक्ष्मणौ,पश्येमौ न जहाति श्रीरग्रेऽपीयं न हास्यति. ॥३८१॥तस्मादाश्वास य स्वांतं बलं च प्लवगाधिप ! यावत्सैन्यानि सर्वाणि पुनः संस्थापयाम्यहम्. ’ ॥३८२॥एवमाश्वास्य रा जानं राक्षसेंद्रो बिभीषणः विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः. ॥३८३॥इंद्रजित्सुस म र्थस्तत्प्रियं पित्रे न्यवेदयत् उत्पपातासनाद्धृष्टः स पुत्रं परिषस्वजे. ॥३८४॥बिभीषणाग्र ज न्मा ता राक्षसीरब्रवीस्वयम्,‘ हताविंद्रजिताख्यात वैदेह्या रामलक्ष्मणौ. ॥३८५॥तां पुष्पकं प्र य त्नेन समारोप्यायतेक्षणाम् दर्शयध्वं हतौ मर्त्यौ युद्धे दाशरथी इति. ॥३८६॥यदाश्रयाद्रा ज पुत्री गर्वान्मां नोपतिष्ठते सोऽस्या भर्ता सह भ्रात्रा निहतो रणमूर्धनि. ॥३८७॥दृष्ट्वा रामक्ष र मियं निरपेक्षाद्य मैथिली मामुपस्थास्यतेऽगत्या सर्वाभरणभूषिता. ’ ॥३८८॥तथेत्युक्त्वाशु रा क्षस्यः सीतामारोप्य पुष्पकम् निन्युस्त्रिजटया सार्धं सापश्यद्रामलक्ष्मणौ. ॥३८९॥तौ मृतावेव म त्वा सा विललाप पतिव्रता, ‘ पुत्रिण्यविधवेत्यूचूर्ये मां तेऽनृतवादिनः ॥३९०॥विहाय दीनां श्री मान्मां करुणोऽयं कथं गतः ? हा कौसल्ये ! हा सुमित्रे ! हा कैकेयि ! सुतौ मृतौ ! ॥३९१॥लक्षणानि ध रा देवैर्यान्युक्तानि शुभान्यलम् तान्यद्य निहते रामे वितथान्येव सर्वशः. ’ ॥३९२॥तथा रामस्य म हिषीं कृपणां बहुविह्वलाम् परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत्, ॥३९३॥ ‘ मा विषादं व्र ज शुभे ! भर्तायं तव जीवति मूर्च्छितः सानुजो रामो मुखयोः श्रीः शुभानयोः. ॥३९४॥हते पत्यावा य ताक्षि ! योधानां वदनान्यलम् विवर्णानि भवंत्येषां न तथा, न मृताविमौ. ॥३९५॥ इदं हि राज रा जस्य विमानं पुष्पकं महत् दिव्यं त्वां धारयेनैव यद्येतौ गतजीवितौ. ॥३९६॥विस्रब्धा भव म द्वाक्यैरनुमानैः सुखोदयैः अहतौ पश्य काकुत्स्थौ स्नेहादेवद्ब्रवीमि ते. ’ ॥३९७॥एवमुक्ता त्रि ज टया सीता सुरसुतोपमा कृतांजलिरुवाचेमामेवमस्त्विति सा सती. ॥३९८॥सद्विवर्त्य वि य द्यानं सीता त्रिजटया सह अशोकवनिकां भूयो राक्षसीभिः प्रवेशिता. ॥३९९॥ततः स वीरोऽ ज कुलप्रदीपः प्रत्यबुध्यत, भ्रातरं दीनवदनं पर्यदेवयदातुरः, ॥४००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP