संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य १ ते ५० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य १ ते ५० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य १ ते ५० Translation - भाषांतर हनूमदुक्तं श्री रामः श्रुत्वातीव प्रहर्षितः उवाच वाक्यं यद्योग्यं सुप्रियश्रवणोत्तरम्. ॥१॥‘ कृतं कार्यं प रा शक्यं धीमतानिलसूनुना न ह्यन्यं परिपश्यामि यस्तरेत्तं महोदधिम्. ॥२॥लंकां हि को ना म विशेत्प्रविष्टश्चापि निष्क्रमेत् ? भृत्यकार्यं हनुमता सुग्रीवस्य महत्कृतम्. ॥३॥श्रेष्ठं यशोऽस्य ज गति नियोगादधिकं कृतम् न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः. ॥४॥अहं रघ्वन्व य श्चायं लक्ष्मणश्च महाबलः वैदेह्या दर्शनेनाद्य धर्मतोऽनेन रक्षिताः. ॥५॥प्रियाख्यातुर्व रा र्हस्य वायुसूनोर्महात्मनः मनः खिन्नं ममाकर्तुः कर्मणः सदृशं प्रियम्. ॥६॥मया त्विदानीं म नसा विचार्यैव पुनःपुनःसर्वस्वभूतोऽयं दत्तः परिष्वंगोऽस्य मारुतेः. ’ ॥७॥इत्युक्त्वा प्रीति ज नितप्रभूतपुलकः प्रभुः कृतकार्यं हनूमंतं तं रामः परिषस्वजे. ॥८॥पप्रच्छ तं प्रि य तमाप्राप्त्युपायं प्रभूत्तमः,‘ वीर ! सा कीदृशी ? लंका दुर्जया या सुरासुरैः. ॥९॥सुदुष्पारस्य ज लधेः कथं नाम महामते ! हरयो दक्षिणं पारं गमिष्यंत्यंजनात्मज ! ’ ॥१०॥इत्युक्त्वा तामा य ताक्षीं सीतां मत्वातिदुर्लभाम् शोकसंभ्रांतहृदयः पुनर्ध्यानमुपागमत्. ॥११॥उवाच वान रा धीशस्तं रामं शोकविह्वलम्, ‘ किं त्वया तप्यते वीर ! यथान्यः प्राकृतस्तथा ? ॥१२॥मैवं भूः पर म ज्ञाता त्वं हि राम ! महाबलः त्यज संतापमखिलं कृतघ्न इव सौहृदम्. ॥१३॥लब्धा प्रवृत्तिः श्री मत्या ज्ञातश्च निलयो रिपोः संतापस्याद्य ते स्थानं नैव पश्यामि राघव ! ॥१४॥लंघयित्वा न रा धीश ! पयोधिं लीलया वयम् आरोक्ष्यामः पुरीं लंकां हनिष्यामश्च ते रिपुम्. ॥१५॥इमे शूराः स म र्थाश्च सर्वथा हरियूथपाः त्वत्प्रियार्थकृतोत्साहाः प्रवेष्टुमपि पावकम्. ॥१६॥सेतुं निबध्य ज लधौ लंकां हरिबलं गतम् रावणो निहतः प्राप्ता जानकीत्युपधारय. ॥१७॥इमे हि हर य स्तत्र लंकायां कामरूपिणः तानरीन्विधमिष्यंति शिलापादपवृष्टिभिः. ’ ॥१८॥इत्येवं कपि रा जस्य श्रुत्वा वचनमर्थवत् प्रतिजग्राह काकुत्स्यो हनूमंतमथाब्रवीत्, ॥१९॥सर्वथापि स म र्थोऽस्मि सागरस्यास्य लंघने तपसा सेतुनास्त्रेण पयसः शोषणेन वा. ॥२०॥कति दुर्गाण्यां ज नेय ! द्वाराणि द्विषतः पुरः लंकाया गुप्तिकर्मापि ब्रूहि संख्यां बलस्य च. ’ ॥२१॥तं वायुतन य स्तज्ञः कथयामास राघवम्, ‘ दृढानि राम ! चत्वारि द्वाराण्यस्या महाबल ! ॥२२॥परिखाः सह ज ग्राह मीनैर्व्याप्ता भयंकराः द्वारेषु तासां चत्वारः संक्रमाः परमायताः. ॥२३॥प्राकारः स्वच्छ य शसां राशे ! तस्याः पुरो महान् सौवर्णो रत्नखचितो यंत्रैर्गुरुभिराचितः. ॥२४॥पूर्वद्वारि दु रा धर्षा अयुतं भीमराक्षसाः नियुतं दक्षिणद्वारि चतुरंगबलान्विताः. ॥२५॥दश लक्षाणि म नुजश्रेष्ठ ! राम ! निशाचराः पश्चिमद्वारमाश्रित्य तिष्ठंति प्रियसाहसाः. ॥२६॥तथैव राम श्री मंस्ते न्यर्बुदं सुमदोद्धताः रात्रिंचरा महाकाया उत्तरद्वारमाश्रिताः. ॥२७॥महोत्साहाः प रा नीकध्वंसदक्षा महाबलाः स्वामिकार्यपरा नित्यं सन्नद्धा युद्धलालसाः. ॥२८॥लंकायां मध्य म स्कंधे चतुरंगबलान्विताः सपादकोटिः प्रबलास्तिष्टंति रजनीचराः. ॥२९॥ते संक्रमा रा ज सिंह ! ध्वस्ता दग्धा च सा पुरी प्राकारश्च मया भग्नः परिस्वाश्चावपूरिताः. ॥३०॥कपीनाज्ञाप य क्षिप्रमंगदादीन्महाबलान् बलैकदेशः क्षपितो मयैव रघुनंदन ! ॥३१॥सर्वसैन्येन रा जेंद्र ! त्वम चेद्नंतुमना असि मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय. ’ ॥३२॥श्रुत्वा वचन म र्थाढ्यं मरुत्सूनो रघूत्तमः सुग्रीवमब्रवी‘द्राजन् ! मुहूर्ते विजये शुभे ॥३३॥हत्वा दशास्यं ज नकक्षितिपालसुतां सतीम् कर्तुं प्रहृष्टां मां चाद्य प्रयाणमभिरोचय. ॥३४॥ताराबलं ज य करं ममाद्य प्लवगेश्वर ! श्रुत्वाभियानं मे सीता स्पृहामेष्यति जीविते. ’ ॥३५॥एवमाकर्ण्यं ज गतां भर्तुर्वाक्यं यशस्करम् हरीनाज्ञापयामास प्रस्थानाय हरीश्वरः. ॥३६॥ सेनापतिर्न य पटुः कृतो नीलः पुरःसरः ऋषभो दक्षिणे पार्श्वे स्ववामे गंधमादनः. ॥३७॥सेनायाः प्रचु रा याश्च पश्चाद्भागेऽथ जांबवान् अधिरुह्य हनूमंतं श्रीरामो लक्ष्मर्णोऽगदम् ॥३८॥सेनार्णवस्य म ध्ये तु सुग्रीवो वानरेश्वरः रागह्वाभ्यां सह श्रीमान् बभौ सूर्य इवोदितः. ॥३९॥ततः प्रयाते श्री रामे हरिः शतबलिः स्वयम् भ्रमन् ररक्ष दशभिः कोटिभिर्हरिवाहिनीम्. ॥४०॥असंख्यं वान रा नीकं गर्जमानं रणोत्सुकम् विलंघ्य सह्यं संप्राप्तं तीरं लवणवारिधेः. ॥४१॥सेनां प्लवंग म पतिस्तत्र वेलावनेषु ताम्आज्ञया रामचंद्रस्य स्थापयामास निर्भयाम्. ॥४२॥दुस्तरं तं तु ज लधिं विलोक्य रघुनंदनः सीतां स्मृत्वा वियोगार्तो विलापमकरोद्भृशम्. ॥४३॥‘ अनाथेव प्रि य तमा सनाथाप्यद्य लक्ष्मण ! स्वभावतन्वी सा नूनं शोकेनानशनेन च. ॥४४॥भूयस्तनुत रा सीता देशकालविपयर्यात् रक्षो हत्वा हरिष्यामि कदा तस्या मनोब्यथाम् ? ॥४५॥ दुःखं दूरेति म म नो वत्स ! दुःखं हृतेति न एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते. ॥४६॥ कदा नु सा रा ज सुता देवकन्यापमा मम सोत्कंठा कंठमालंब्य मोक्ष्यत्यानंदजं जलम् ? ’ ॥४७॥एवं भृशं प्रि य तमां स्मृत्वा शोचंतमग्रजम् आश्वासयामास धीरः सौमित्रिर्विविधोक्तिभिः. ॥४८॥ ‘ रावणो वात ज निना दृष्ट्वा कर्म तथा कृतम् पप्रच्छ राक्षसान्कार्यं हिया किंचिदवाड्मुखः. ॥४९॥आगमिष्यति य त्नेन राम ! उल्लंघ्य सागरम् एकेन तत्कृतं कर्म बहवः कपयः किमु ? ॥५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP