संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य ४०१ ते ४५० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य ४०१ ते ४५० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ४०१ ते ४५० Translation - भाषांतर ‘ पंचत्वमद्य य द्येष प्राप्तः सौमित्रिरात्मवान् किं नु मे सीतया कार्यं ? परित्यक्ष्याम्यसूनहम्. ॥४०१॥शक्या लोकेषु रा मा मे सीता तुल्या विचिन्वता न लक्ष्मणसमो भ्राता सचिवः सांपरायिकः. ॥४०२॥ किं नु वक्ष्यामि म म तां कौसल्यां मातरं ? बत ! किं कैकेयीं किं सुमित्रां पुत्रदर्शनलालसाम् ? ॥४०३॥ साधुर्गुणाढ्यः श्री मान् यः पातितो हंत ! मत्कृते धिङ् मां दुष्कृतकर्माणमनार्यं दुःखभाजनम्. ॥४०४॥अस्यामेव ध रा यां स्वं देहं त्यक्ष्याम्यहं बत ! तत्तु मिथ्या प्रलपितं मां प्रधक्ष्यत्यसंशयः. ॥४०५॥यल्लंकायां नो म यायं कृतो राजा बिभीषणः अस्मिन्मुहूर्ते सुग्रीव ! प्रतियातुमितोऽर्हसि. ॥४०६॥पुरस्कृत्यात्म ज ममुं ससैन्यस्तर सागरम् शोकेन सत्त्वहीनं त्वां रावणोऽभिभविष्यति. ॥४०७॥यत्तुं शक्यं व य स्येन सुहृदा वा परं मम कृतं सुग्रीव ! तत्सर्वं भवताधर्ममीरुणा. ॥४०८॥यत्कार्यं वान रा ! मित्रैर्भवद्भिर्हनुमन्मुखैः तत्कृतं तेन तुष्यामि स्वस्ति वोऽस्तु यशस्विनः. ॥४०९॥ अनुज्ञातास्ते म या ये समुत्तीर्याब्धिमागताह भो ऋक्षा ! वानराः ! सर्वे यथेष्टं गंतुमर्हथ. ’ ॥४१०॥यैः श्रुतं तस्य ज गतीभर्तुस्तत्परिदेवितम् रुरुदुस्ते भृशं दीना ऋक्षाश्च कपयः समम्. ॥४११॥स्थापयित्वा प्र य त्नेन सर्वाः सेना बिभीषणः आजगाम गदापाणिस्त्वरितं यत्र राघवः. ॥४१२॥तमंजनाभं ज विनं दृष्ट्वा सर्वे वनौकसःदिश प्रदुद्रुवुर्भीता मत्वा रावणिमागतम्. ॥४१३॥हेतुं तेषां भ य स्याथ ज्ञात्वा राजा बिभीषणम् जांबवंतमुवा‘चैतान् पर्यवस्थापय द्रुतम्. ॥४१४॥जांबवान्वान रा न्सर्वान्पलायनपरान्स्वयम् सांत्वयामास संत्रस्तान्सन्निवर्त्य महाजवः. ॥४१५॥बिभीषणः स म क्लेशो दृष्ट्वा तौ रामलक्ष्मणौ, ‘ हा हे’त्युक्त्वा स शोकार्तो रुरोद विललाप च. ॥४१६॥‘ जिह्मेन हंत श्री मंतौ वंचितावृजुविक्रमौ जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः. ॥४१७॥कृतः सकामोऽ रा तिर्नो मेघनादेन रावणः ’ विलपंतं परिष्वज्य तमुवाच हरीश्वरः. ॥४१८॥भविष्यति स म ग्रस्ते कामो धैर्यं सखे ! कुरु त्यक्त्वा मोहं निहंतारौ रावणं रामलक्ष्मणौ. ’ ॥३१९॥अथ वाल्यनु ज स्तत्र सुषेणं श्वशुरं तदा अब्रवी‘द्रच्छ किंष्किंधां गृहीत्वा रामलक्ष्मणौ. ॥४२०॥दशास्यस्यात्य य महं कृत्वा पुत्रादिभिः सह मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम्. ॥४२१॥सुषेणो वान रा धीशमब्रवी‘त्क्षीरसागरे चंद्रद्रोणौ गिरिश्रेष्ठौ वर्तते वानरेश्वर ! ॥४२२॥तत्रौषध्यौ ते म हत्यौ विद्येते नामनी तयोः संजीवकरणित्येव विशल्यकरणीति च. ॥४२३॥ओषधी तेद्य ज वनाः संपातिपनसादयः यांत्वानयितुमाश्वेको हनूमान्वा महाजवः. ॥४२४॥हताः सुराः सं य ति ये दैत्यैस्तान् धिषणः स्वयम् याभ्यामुत्थापयामास निर्मिताभ्यां स्वयंभुवा. ’ ॥४२५॥तस्मिन्काले द्वि ज श्रेष्ठो महता पक्षवायुना कंपयन्सार्णवां क्षोणीमाजगाम भुजंगभुक्. ॥४२६॥दुद्रुवुस्तेऽह य स्त्रस्ताः पक्षिराजे समागते जाता व्राता वानराणां मुदिता रुदिताकुलाः. ॥४२७॥जयाशिषा न रा धीशौ प्रतिपूज्य खगेश्वरः विममर्श च पाणिभ्यां मुखे चंद्रसमप्रभे. ॥४२८॥स्पृष्टास्तेन स म स्तास्ते तयोः संरुरुहुर्व्रणाः सुवर्णे च तनू स्निग्धे प्रभ्वोराशु बभूवतुः. ॥४२९॥धृतिश्च शक्तिः श्री स्तस्य सानुजस्य प्रभोस्तदा द्विगुणाभूत्स्मृतिर्बुद्धिर्लीलया मानुषाकृतेः. ॥४३०॥सस्वजे च सु रा धीशप्रतिमौ तावुभौ मुदा रामस्तमब्रवी‘दावां व्यसने रक्षितौ त्वया. ॥४३१॥यथा तातं प्रे म सिंधुं यथाजं च पितामहम् तथा भवंतमासाद्य हृदयं मे प्रसीदति. ॥४३२॥को भवान् विर ज स्के त्वं वसानो वसने शुभे दिव्यस्त्रगंगरागश्च दिव्याभरणभूषितः. ’ ॥४३३॥विनतातन य स्तेऽहं सखा प्राणो बहिश्चरः नाम्ना गरुड इत्युक्त्वा पृष्ट्वा सोऽगाद्याथागतम् ॥४३४॥प्रहृष्टा वान रा दृष्ट्वा नीरजौ रामलक्ष्मणौ सिंहनादं तदा नेदुर्लांगूलं दुधुवुश्च ते. ॥४३५॥ततः प्लवंग म वरा द्रुमानुत्पाट्य कोटिशः लंकाद्वाराण्युपाजग्मुर्युद्धकामा महाबलाः. ॥४३६॥राजराजानु ज स्तेपां ज्ञात्वा हर्षस्य कारणम् संशयस्थं बलं मेने धूम्राक्षं प्राहिणोदथ. ॥४३७॥कृतः कीशक्ष य स्तेन धूम्राक्षेण रणाजिरे गिरेः शिखरमादाय स हतो वायुसूनुना. ॥४३८॥ वज्रदंष्ट्रं च ज न्यार्थं प्रेषयामास रावणः अंगदस्तस्य चिच्छेद शिरस्तदसिना रणे. ॥४३९॥अकंपनं ज यस्यार्थे निर्गतं रावणाज्ञया हनूमानवधीद्युद्धे तरुणा तरुणार्करुक्. ॥४४०॥प्रहस्तोऽथ सु रा नीकपराभवविचक्षणः रावणप्रहितो युद्धे नीलेन शिलया हतः. ॥४४१॥अथ श्रुत्वा प्र म थितं प्रहस्तं वाहिनीपतिम् निर्ययौ स्वयमेवोग्रः कूरकर्मा दशाननः. ॥४४२॥हंतुं सुकंठः श्री दस्य भ्रातरं भीमविक्रमम् गृहीत्वाद्रेर्महाशृंगमभिदुद्राव वेगवान्. ॥४४३॥सायकैर्यातु रा जस्तच्चूर्णीकृत्य महाबलः शरेणैकेन सुग्रीवं पातयामास भूतले. ॥४४४॥शैलान्गृहीत्वा म हतो गवाक्षगवयर्षभाः प्रदुद्रुवुस्तेऽपि शरैस्तेन विद्ध्वा निपातिताः. ॥४४५॥ यथा वातेन ज लदा भग्नास्तेन वलीमुखाः.जग्मुः शरण्यं शरणं रामं कामं भयाकुलाः, ॥४४६॥ कोदंडमादा य परं हंतुं गंतुं समुद्यतम् प्रांजलिर्लक्ष्मणो राममब्रवीदग्रतः स्थितः, ॥४४७॥‘ पर्याप्तोऽह प रा भूतौ रावणस्य दुरात्मनः आर्य ! कार्यमिदं कर्तुमनुजानीहि मां प्रभो ! ’ ॥४४८॥तं सोऽब्रवी‘त्स म र्थोऽसि गच्छ यत्नपरो भवआत्मानं रक्ष सौमित्रे ! रावणो हि महाबलः ’ ॥४४९॥परिष्वज्याग्र ज मथो नत्वा सौमित्रिराहवम् ययौ ददर्श दिक्तुंडं छादयंतं शरैररीन्. ॥४५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP