संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य १५१ ते २०० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य १५१ ते २०० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य १५१ ते २०० Translation - भाषांतर सलक्ष्मणः प्रां ज लिस्तं सुग्रीवः पुनरब्रवीत्, ‘ प्रहर्तुं त्वयि विश्वस्ते मयि वा लक्ष्मणेऽपि वा. ॥१५१॥ दशाननेना य मिह प्रभो ! संदिष्ट आगतः जिह्मधी राक्षसो वध्यः सचिवैः सह सर्वथा. ’ ॥१५२॥तमुवाचार्त ज नहृत्तोषदो रघुनंदनः,‘ दुष्टोऽदुष्टोऽपि वास्त्वेष न मे कर्तुं क्षमोऽहितम्. ॥१५३॥ विशाचासुर य क्षा ये पृथिव्यां ये च राक्षसाः अंगुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर ! ॥१५४॥श्रूयते हि पु रा व्याधः शत्रुः शरणमागतः कपोतेनार्चितस्तात ! स्वैश्च मांसैर्निमंत्रितः. ॥१५५॥कंडुगीताः सु म हिता गाथाः शृणु कपीश्वर ! ’ इत्युक्त्वा ताः स्वयं रामो जगौ सर्वसतां मताः. ॥१५६॥‘ प्राणैः सहैव श्री स्त्याज्या रक्षता सुकृतं यशः न प्रांजलिः शत्रुरपि त्रस्तः शरणमागतः. ॥१५७॥महती हि प रा भूतिस्त्यजतः शरणागतम् तस्मादहं करिष्यामि कंडोर्वचनमुत्तमम्. ॥१५८॥रघोर्वंशेऽत्र म हति प्रभवो बहवोऽभवन् ते सर्वे हि महात्मानः शरणागतपालकाः. ॥१५९॥जगत्सु त्रिष्व ज सुतः ख्यातो दशरथः प्रभुः तत्पुत्रोऽहं कथं त्यक्तुं शक्नुयां शरणागतम् ! ॥१६०॥सकृत्प्रपन्ना य सखे तवास्मीति च याचते अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम. ॥१६१॥आनयैन त्व रा वान्सन् दत्तमस्य मयाऽभयम् बिभीषणो वा सुग्रीव ! यदि वा रावणोऽस्त्वयम्. ’ ॥१६२॥स्तुत्वा प्लवंग म पतिः श्रीरामं जगतां पतिम् आनयामास गगनात्समाहूय बिभीषणम्. ॥१६३॥जहार यद्र ज स्ता दृगहल्याया महद्रजः निपपात तयोर्मूर्ध्नो पादयोः स बिभीषणः. ॥१६४॥उवाच सद य श्रेष्ठ ! रावणेनावमानितः तस्यानुजोऽहं त्वामद्य शरण्यं शरणागतः. ॥१६५॥ त्यक्ता लंका रा ज धानी मित्राणि च धनानि च भवद्गतं हि मे राज्यं जीवितं च सुखानि च. ’ ॥१६६॥राघवो विन य ज्ञं तं सांत्वयित्वाब्रवीत्स्वयम्, ‘ आख्याहि मम तत्वेन राक्षसानां बलाबलम्. ’ ॥१६७॥सोऽब्रवीदिति, ‘ रा जेंद्र ! वरदानात्स्वयंभुवः अवध्यः सर्वभूनां रावणो लोकरावणः. ॥१६८॥कुंभकर्णो म म ज्येष्ठः शक्रप्रतिबलो युधि मणिभद्रस्य जेतास्य प्रहस्तो वाहिनीपतिः. ॥१६९॥ज्येष्ठः सुतोऽस्य श्री मान्त्स मेघनादाभिधः प्रभो ! जातो नाम्नेंद्रजिज्जित्वा युधींद्रं सुमहाबलः. ॥१७०॥तथा महोद रा ख्यश्च महापार्स्व्होऽप्यकंपनः तस्योपसेनापतयो लोकपालसमा युधि. ॥१७१॥सर्ववीरोत्त म ! स्वामिन् ! लंकायां कामरूपिणः दशकोटिसहस्त्राणि रक्षसां संति मुख्यशः. ॥१७२॥ ये लोकपाला ज न्ये ते भग्नाः सर्वे सुरैः सह. ’ बिभीषणवचः श्रुत्वा स्वयं रघुवरोऽब्रवीत्, ॥१७३॥‘ हत्वा रक्षोना य कं तं सप्रहस्तानुजात्मजम् राजानं त्वां करिष्यामि सत्यमेतच्छ्टणोतु मे. ॥१७४॥ अथोऽब्रवीत्स, ‘ राजेंद्र ! राक्षसानां वधे पुरः प्रधर्षणेऽहं साहाय्यं करिष्यामि यथाबलम्. ’ ॥१७५॥ इति ब्रुवाणं म धुरं परिष्वज्य बिभीषणम् रामः प्रीतोऽनुजं प्रह, ‘ समुद्राज्जलमानय. ॥१७६॥ तेन त्वमाशु ज लधेर्जलेनेमं बिभीशणम अभिषिंचाद्य राजानं रक्षसां वीरमानद ! ’ ॥१७७॥एवमुक्तः प्र य तधीरभ्यषिंचद्बिभीषणम् मध्ये वानरमुख्यानां राजानं राजशासनात्. ॥१७८॥सद्यःप्रसादं ज गतां भर्तुर्दृष्ट्वा प्लवंगमाः प्रचुक्रुशुर्महात्मानं ‘ साधु साध्वि ’ ति चाब्रुवन्. ॥१७९॥अथाब्रवी‘त्तो य राशिं तराम कथमित्यमुम् ’ बिभीषणं वायुसूनुः सुग्रीवश्च महामतिम्. ॥१८०॥प्रत्युवाच, स रा जायं राघवस्तेजसां निधिः सागरं पूर्वजकृतं शरण्म गंतुमर्हति. ॥१८१॥सगरेणाय म ब्धिर्हि खानितः सागरस्ततः कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः. ’ ॥१८२॥बिभीषणोक्तं श्री भर्तुः सागरस्योपवेशनम् प्रकृत्त्या धर्मशीलस्य तद्रामस्याप्यरोचत ॥१८३॥कुशास्तीर्णेऽम्बु रा शेः स श्रीरामो विमले तटे संविवेश तदा साक्षाद्वेद्यामिव हुताहनः. ॥१८४॥ततो निविष्टां म हतीं ध्वजिनीं पतिपालिताम् अभ्येत्य दृष्ट्वा शार्दूलः प्रतिगम्य दशाननम् ॥१८५॥कथयामस ‘ ज लधेः प्रतीरे रामलक्ष्मणौ सीतायाः पदमायातौ, तत्सैन्यं सागरोपमम्. ॥१८६॥दानं वा सम ! य त्नेन भेदो वाऽत्र प्रयुज्यताम्बलं निविष्टं खं व्याप्य सर्वतो दशयोजनम्. ’ ॥१८७॥शुकं नाम त्व्म रा युक्तं ततः संदिश्य राक्षसम् प्राहिणोत्सामभेदार्थं सुग्रीवं प्रति रावणः. ॥१८८॥शुको विहंग म तनुर्व्योम्नि स्थित्वा कपीश्वरम् उवाच, ‘ त्वं मम भ्राता महाराजकुलोद्भवः ॥१८९॥रामस्य भार्यां ज यतां वरोऽहमहरं यदि किं तत्र तव सुग्रीव ! किष्किंधां प्रति गम्यताम्. ’ ॥१९०॥ त्यजतो मां प्रि य सखं नास्त्यर्थस्तव कश्चनअनर्थः प्रत्युत, प्राप्तुं लंकाऽशक्या नृवानरैः. ’ ॥१९१॥तं खमुत्प्लुत्य ज गृहुर्वानराः पीडितः शुकः उवाच ‘ दूतान्न घ्नंति राम ! तत्साधु वार्यताम्. ’ ॥१९२॥ ‘ दूतः प्राणात्य य मयं नार्हतीति ’ प्रभोर्वचःश्रुत्वा तं मुमुचुः कीशाः श्रीशाज्ञावशवर्तिनः. ॥१९३॥ गगनस्थः स रा जानं शुकः सुग्रीवमब्रवीत् ‘ किं मया लघु वक्तव्यो रावणो लोकरावणः. ’ ॥१९४॥ वानरेंद्रस्त म वद ‘ न्नानुकंप्योऽसि मे सखा रामस्यारिस्त्वमस्माकं वध्यो वालीव बालिश ! ॥१९५॥त्राता न स त्वां श्री कंठो रामात् पाप ! न मुच्यसे एतत्प्रत्युत्तरं दत्तं निवेदय दशाननम्. ’ ॥१९६॥तदांगदस्तं रा जानमब्रवी‘देष राक्षसः दूतश्चारोऽपि तुलितं सर्वं सैन्यमनेन नः. ॥१९७॥ लंकां रक्षोध म स्यास्य गमनं मे न रोचते, गृह्यतां पुनरत्रायं बध्यतां वानरेश्वर ! ’ ॥१९८॥राजाज्ञया तं ज गृहुर्विलपंतमनाथवत् ! तत्प्रार्थितोऽब्रवीद्रामो ‘ मुच्यतां दूत आगतः. ’ ॥१९९॥कुशेषु रामो य तवाक् प्रतिशिश्ये पयोनिधेः वरमिच्छन्निशास्तिस्र उपधाय भुजं प्रभुः ॥२००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP