TransLiteral Foundation

युद्धकाण्डम् - काव्य २०१ ते २५०

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य २०१ ते २५०
न ददौ वारि रा शिः स यदा दर्शनमुद्धतः
प्रभुर्मुमोच विशिखान् विविशुस्तेंऽबुधेर्जले. ॥२०१॥
व्याकुलोऽभूत्स म हता तेजसा सागरः प्रभोः
मामेत्युक्त्वा समुत्पत्य सौमित्रिर्धृतवान् धनुः. ॥२०२॥
उवाच रामो ‘ ज लधेः शोषितस्येषुतेजसा
परं तीरं गमिष्यंति पद्भिरेव प्लवंगमाः. ’ ॥२०३॥
इत्युक्त्वा प्रल य ब्रध्नप्रभः प्रभुवरः पुन्हः
ब्रह्मणोऽस्त्रेण संयोज्य शरं धनुषि संदधे. ॥२०४॥
चापे विकृष्टे ज लधिः प्रक्षुब्धः प्रलये तथा
पर्वतप्रतिमोग्रोर्मिर्व्यतिचक्राम योजनम्. ॥२०५॥
सर्वः प्राप्तभ य स्तेन ब्रह्मास्त्रेणाभवद्भृशम्
सकंपा गिरयः कृत्स्ना, निष्प्रभोऽभूद्दिवाकरः. ॥२०६॥
सिंधुमध्याद्व रा कारो नानारत्नैर्विभूषितः
उदयाद्रेरिव रविः सागरः स्वयमुत्थितः. ॥२०७॥
स उपागम्य म धुरमुवाचामंत्र्य राघवम्
‘ स्वभावे तात तिष्ठंति भूतान्यहमपि प्रभो ! ॥२०८॥
राजेंद्र ! राम ! श्री मंस्त्वं कुरु सेतुं मयि प्रभो ?
ग्राहा न प्रहरिष्यंति जलस्तंभो न मे मतः. ॥२०९॥
मत्स्वभावो न रा धीश ! यदगाधोऽहमप्लवः
गाधत्वं तु विकारो मे, क्षमस्व कुरु मद्वचः. ’ ॥२१०॥
तमब्रवीद्रा म भद्रः, ‘ शृणु मे वरुणालय !
अमोघोऽयं महाबाणः कस्मिन् देशे निपात्यताम्. ’ ॥२११॥
प्रभुं प्रोवाच ज लधिः पापैर्दस्युभिराकुलः
द्रुमकुल्याभिधो देशः शरोऽयं तत्र पात्यताम्. ’ ॥२१२॥
तस्मिन्स्थाने सा य कं तं मुमोच रघुपुंगवः
तत्र व्रणोऽभवत्तोयमुत्पपात रसातलात्. ॥२१३॥
व्रणः कूपः श रा ज्जातो विश्रुतः सोऽक्षयोदकः
तत्स्थलं मरुकांतारमिति नाम्नाऽभवद्भुवि. ॥२१४॥
ददौ वरांश्च म रवे, सुक्षीरो विविधौषधिः
पशव्यश्चाल्परोगश्च स देशः स्नेहवानभूत्. ॥२१५॥
उवाच रामं ज लधि ‘ र्विश्वकर्मसुतो नलः
करोतु मय्ययं सेतुं धारयिष्याम्यहं प्रभो ! ’ ॥२१६॥
एवमुक्त्वा तो य राशिस्तदैवांतर्हितोऽभवत्
नगैरगैर्नलः सेतुं चकार शतयोजनम्. ॥२१७॥
हृष्टैः कीशैः कुं ज राभैस्तदाह्ना प्रथमेन सः
रचितः सागरे सेतुर्योजनानि चतुर्दश. ॥२१८॥
प्लवंगमैरा य तः स द्वितीयाह्ना कृतत्वरैः
कृतः पयोनिधौ सेतुर्योजनानि तु विंशतिः. ॥२१९॥
तृतीयेन त्व रा वद्भिर्बद्धोऽह्ना सेतुरंबुधौ
योजनानि महाकायैरेकविंशतिरेव सः. ॥२२०॥
चतुर्थेनाथ म हता तैरुत्साहेन वारिधौ
द्वाविंशतिर्योजनानि निर्मितः सेतुरद्भुतः ॥२२१॥
प्रतापतोऽथ श्री जानेस्तस्याह्ना पंचमेन तैः
सत्रयोविंशतिः सेतुर्योजनानि विनिर्मितः. ॥२२२॥
कीशैर्धराध रा कारैः कृतः सेतुर्धराधरैः
दशयोजनविस्तीर्णः शतयोजनमायतः. ॥२२३॥
नलसेतुं त म मराः सिद्धगंधर्वदानवाः
सीमंतमिव पाथोधौ ददृशुस्तेऽतिविस्मिताः. ॥२२४॥
प्लवंगसेना ज लधिं सा तेन नलसेतुना
तीर्णा त्रिभिरहोरात्रैः पुरःसरबिभीषणा. ॥२२५॥
मरुतस्तन य स्कंधं राम आरुह्य सागरम्
सौमित्रिरंगदस्कंधं तीर्णः सेनापुरःसरः. ॥२२६॥
महर्षिभिः सु रा स्तत्र पुण्यैर्मंदाकिनीजलैः
समभ्यषिंचन् द्विषतो जयस्वेत्यब्रुवन्प्रभुम्. ॥२२७॥
उत्तीर्य सिंधु म थ तां लंकां पर्वतमूर्धनि
दृष्ट्वा प्रभूक्तः सुग्रीवो मोचयामास तं शुकम्. ॥२२८॥
दशाननं द्वि ज तनुः शुकः क्षिप्रमुपागतम्
हसन्नुवाच तं राजा, ‘ लूनपक्षः कुतो भवान् ? ’ ॥२२९॥
स शुकस्तत्र य त्पाप्तं बंधनं तर्जनं स्वयम्
वाचिकं चाब्रवीद्रामागमनं सेतुबंधनम्. ॥२३०॥
‘ ऋक्षवानर ज न्मानो महात्मानो महाबलाः
दुर्जयाः समरे राजन्नसंख्याताः समागताः. ॥२३१॥
सीतां वाऽस्मै प्र य च्छाशु युद्धं वा राक्षसेश्वर !
पुरीप्राकारमायांति क्षिप्रमेकतरं कुरु. ’ ॥२३२॥
रावणस्तद्रि रा क्रुद्धस्तमुवाच, ‘ सुरासुराः
यदि मां प्रतियुध्येरन्न प्रदास्यामि मैथिलीम्. ॥२३३॥
स राघवो म म बलं नाज्ञासीदेव निस्तुलम्
कपिसैन्यैः सहागत्य तेन मां योद्धुमिच्छति. ’ ॥२३४॥
दक्षावमात्यौ श्री मान्त्स प्राहिणोच्छुकसारणौ
हरिरूपधरौ वीरौ प्रविष्टौ कपिवाहिनीम्. ॥२३५॥
बलं तद्वान रा णां तावचिंत्यं लोमहर्षणम्
नाशक्नुवातां संख्यातुममात्यौ शुकसारणौ. ॥२३६॥
तौ गृहीत्वा स म तिमान्प्रतिच्छन्नावपि स्वयम्
आचचक्षे राघवाय दर्शयित्वा बिभीषणः. ॥२३७॥
तौ दृष्ट्वा तं रा ज सिंहमूचतू‘रावणाज्ञया
आवां बलं परिज्ञातुमागताबि’ति कातरौ. ॥२३८॥
प्रहसन्सद य स्वांतस्तावुवाच रघूत्तमः
‘ कृतं कार्यं यथोक्तं चेच्छंदतः प्रतिगम्यताम्. ॥२३९॥
न दृष्टं चेच्च रा वेतत्सुग्रीवस्य महद्बलम्
बिभीषणो वा कार्त्स्न्येन पुनः संदर्शयिष्यति. ॥२४०॥
ग्रहणं प्रपय म त्तो मा भेतव्यं खलु राक्षसौ !
बिभीषण ! सखे ! मुंच, चारौ वध्यौ न सर्वथा. ॥२४१॥
वित्तेशस्यानु ज स्तत्र वक्तव्यो वचनं मम
यद्बलं स्वं समाश्रित्य सीतां मे हृतवानसि. ॥२४२॥
तद्रणे दर्श य श्वस्त्वं सप्राकारां सतोरणाम्
लंकां चमूं च पश्यारे ! शरैर्विध्वंसितां मया. ’ ॥२४३॥
इति श्रुत्वा तं ‘ ज ये’ति प्रोक्त्वा लंका ततो गतौ
तौ दशाननमब्रूतामनुभूतं यदात्मना. ॥२४४॥
‘ कौसल्यातन य स्तस्य तत्तुल्यो लक्ष्मणोऽनुजः
बिभीषणश्च मतिमान्सुग्रीवश्चेंद्रविक्रमः. ॥२४५॥
चत्वारस्ते प रा क्रांताः सप्राकारामिमां पुरीम्
उत्पाढ्य संक्रामयितुं सर्वे तिष्ठंतु वानराः. ॥२४६॥
लंकामेकः स म र्थोऽस्ति जेतुं तिष्ठंतु ते त्रयः
राजन्नलं विरोधेन सीता रामाय दीयताम्. ’ ॥२४७॥
उवाच राजा श्री मांस्तं सारणं, ‘ जानकीमहम्
न प्रदास्यामि रामाय त्वं त्रस्तस्तद्ग्रहाद् ध्रुवम्. ॥२४८॥
को हि नाम प रा क्रम्य रणे मां जेतुमर्हति ?
स इत्युक्त्वारुरोहोच्चं प्रासादं तद्दिदृक्षया. ॥२४९॥
दृष्ट्वा प्लवंग म बलं सर्वत्रार्णवसन्निभम्
पप्रच्छ सारणं तेषां नामसंख्यादि रावणः. ॥२५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:41.1000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

outstanding

  • अदत्त 
  • (uncollected, unpaid, unsettled) अदत्त, शिल्लक येणे, अपूर्त, न फेडलेले 
  • (standing out) ठळक, उठावदार 
  • १.बाकी, बकाया, अदत्त २.अत्कृष्ट ३.प्रमुख 
More meanings
RANDOM WORD

Did you know?

शंकराला अर्धी प्रदक्षिणा कां घालतात ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.