TransLiteral Foundation

युद्धकाण्डम् - काव्य ५१ ते १००

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य ५१ ते १००
हता रक्षोव रा दग्धा दुर्धर्षा नगरी मम
तेन वानरमात्रेण दृष्टा सीतानुभाषिता. ॥५१॥
उच्यतां नः स म र्थं यत्कृतं च सुकृतं भवेत्
किं करिष्यामि भद्रं वः किं वो युक्तमनंतरम्. ॥५२॥
तेऽज्ञास्तमूचुः ‘ श्री मंस्त्वं न चिंतां कर्तुमर्हसि
महाराज ! जितः श्रीदः पुष्पकं च त्वया हृतम्. ॥५३॥
मृत्युस्त्वया प रा भूतो वासुकिस्तक्षकोऽपि सः
त्वद्भयादिच्छता सख्यं कन्या दत्ता मयेन ते. ॥५४॥
दानवाश्च स मर्थास्ते भग्ना लब्धवराः पुरा
मायाश्चाधिगता बह्व्यः कुंभीनस्याः पतिर्जितः. ॥५५॥
रामाधिकाश्च ज गतीपतयो निर्जिता रणे
मेघनादेन विजितः शक्रो मुक्तो विधेर्गिरा. ॥५६॥
राजन्नापत्त्वे य मद्य प्राकृतादागता जनात्
हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम्. ॥५७॥
अथ प्रहस्तो रा जानं तत्सेनानीस्तदाब्रवीत्,
‘ वयं प्रमत्ता विश्वस्ताः कपिना तेन वंचिताः. ॥५८॥
करिष्यामि वि म र्त्यां क्ष्मां कृत्स्नामकपिमोजसा,
भक्षयिष्यामि तं राममाज्ञापयतु मां भवान्. ’ ॥५९॥
तं दुर्मुखोऽपि ज गतः पीडकं दशकंधरम्
तथैवोवाच दुर्बुद्धिर्वज्रदंडोऽपि राक्षसः. ॥६०॥
सर्व एवान यज्ञास्ते तस्य रक्षःपतेस्तदा
सचिवा भ्रातरः पुत्राश्चक्रुः प्रोत्साहनं भृशम्. ॥६१॥
सौमित्रेः साग्र ज स्याथ सुग्रीवस्य हनूमतः
हननायोत्थितान्सर्वान् वारयित्वा बिभीषणः ॥६२॥
प्रांजलिर्विन य ज्ञस्तं प्रोवाचाग्रजमीश्वरम्,
‘ तव किं राक्षसेंद्रस्य रामेणापकृतं पुरा ? ॥६३॥
हतः खरोऽप राधीति रामेण समरागतः
वैरं समुद्दीपयता त्वया तस्य प्रिया हृता. ॥६४॥
अनिष्टमिद मत्यंतं हरणं परयोषितः
महाराज ! त्वया त्याज्या सीता भीता मतिर्मम. ॥६५॥
प्रसादये त्वां श्री मंतं, तथ्यं पथ्यं वचो मम
गृहाण त्वं, महाराज ! दीयतामस्य मैथिली. ॥६६॥
सौभाग्यवत्यो रा क्षस्यः संतु संतुष्टमानसाः
त्वं तु मंतुमिमं कर्तुं नाथ ! नार्हसि दारुणम्. ’ ॥६७॥
इत्थं वदति म र्यादामार्गभाजि बिभीषणे
विसर्जयित्वा तान् राजा प्रविवेश स्वकं गृहम्. ॥६८॥
भ्रातुर्गृहं र जन्यंते गत्वा तं पुनरेव सः
अब्रवीद्रामराजाय सीतायाः प्रतिपादनम्. ॥६९॥
‘ यदाप्रभृति य त्नेन त्वयानीता नृपात्मजा
तदाप्रभृति दृश्यंते निमित्तान्यशुभानि नः. ॥७०॥
रोचये वीर ! रा माय वैदेही प्रतिदीयताम्
भीतास्ते मंत्रिणो वाच्यमवश्यं तु मया हितम्. ’ ॥७१॥
मंत्रिणामिति म ध्ये तं भ्राता भ्रातरमब्रवीत्.
सीताभिलाषी दुष्टस्तमुवाच दशकंधरः, ॥७२॥
‘ न पश्याम्बत्र ज गति कुतश्चिद्भयमण्वपि
न जातु प्राप्स्यति पुनः सीतां रामो बिभीषण ! ॥७३॥
स्वयं सहायो य द्यस्य त्रिदशेंद्रो भविष्यति
ममाग्रतः कथं स्थास्यत्यबलो लक्ष्मणाग्रजः ? ’ ॥७४॥
इत्युक्त्वा सोऽनु ज मथ स्यंदनं दशकंधरः
समारुह्य ययौ भव्यां सभां मण्युज्ज्वलप्रभाम्. ॥७५॥
‘ शुभं समास्था य रथं स्वाग्रजस्य बिभीषणः
तां संसदं ययौ, सर्वे मिलिता यत्र राक्षसाः. ॥७६॥
निषसाद स रा जानं नत्वा रत्नासने शुभे
अथाब्रवीद्दशमुखः सर्वांस्तान् रजनीचरान्. ॥७७॥
कुंभकर्णस्ये म मर्थं स्वप्नान्नाहमचोदयम्
अयं हि सुप्तः षण्मासानधुनैव समुत्थितः. ॥७८॥
इयं हि सीता श्री तुल्या मयानीता निजां पुरीम्,
सा तु संवत्सरं कालं मामयाचत जानकी. ॥७९॥
तन्मयाप्यभि रा मायाः प्रतिज्ञातं वचः शुभम्
श्रांतोऽहं सततं कामाद्यातो हय इवाध्वनि. ॥८०॥
दूतेनाद्य म म प्रोक्तं सुग्रीवप्रमुखान् हरीन्
पुरस्कृत्य समुद्रस्य तीरे प्राप्तौ नृपात्मजौ. ॥८१॥
न दातव्या कं ज नेत्रा हंतव्यौ रामलक्ष्मणौ
कामो ममायं तद्यूयं यतध्वं कार्यसिद्धये. ’ ॥८२॥
कुंभकर्णो न यभ्द्रातुः प्रियं तत्सदसि स्वयम्
उवाच प्रथमं धर्मन्यायोपेतं सतां मतम्. ॥८३॥
‘ त्वया परस्त्री रा जेंद्र ! न समीक्ष्य्त स्वयं हृता
महाननर्थः संप्रपतः किं मंत्रेणाधुना प्रभो ! ? ॥८४॥
गते तोये स म ग्रे किं सेतुना राक्षसेश्वर !
संदीप्ते सदने देव ! कूपस्य खननेन किम् ? ॥८५॥
प्रियार्थमग्र ज स्याथ सोऽब्रवी‘द्गामलक्ष्मणौ
हनिष्यामि ससुग्रीवान्भक्षयिष्यामि वानरान् ॥८६॥
मा चिंतां कुरु य द्राजन् ! प्रिय तद्भज निर्भयः
वानरा वा नरा देवाः के वान्येऽपि ममाग्रतः. ’ ॥८७॥
महापार्श्वः प्रां ज लिस्तं क्रद्धं रावणमब्रवीत्,
‘ ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण ! ? ॥८८॥
आक्रम्याक्रम्य य त्नेन सुंदरीं राक्षसेश्वर !
बलात्कुक्कुटवृत्तेन सीतां भुङ्क्ष्व रमस्व च. ’ ॥८९॥
कुंभकर्णः प रा नाजाविंद्रजिच्च महाबलः
अस्माभिः सहितौ हंतुं समर्थावपि वज्रिणम्. ’ ॥९०॥
महापार्श्वं त म त्याप्तं प्रोवाच दशकंधरः,
‘ मया पूर्वं बलाद्भुक्ता सुंदरी पुंजिकस्थला. ॥९१॥
एवं पुनस्त्वं श्री मत्तो बलादन्यां गमिष्यसि
फलिष्यत्येव ते मूर्धा मां ब्रह्मेत्यशपद्रुषा. ॥९२॥
शापभीतो व रा रोहां वैदेही शयने शुभे
नारोहयेऽहमबलां बलाद्बलवतां वरः. ॥९३॥
आसादयति म र्त्यो मामज्ञात्वा मत्पराक्रमम्
सागरस्येव मे वेगो मारुतस्येव मे गतिः. ॥९४॥
महोल्काभिः कुं ज रेंद्रं यथा राममहं तथा
आजावादीपयिष्यामि ससहायं महेषुभिः. ’ ॥९५॥
इति धर्मन्या य हीनं श्लाघमानं दशाननम्
बिभीषणो महाबुद्धिरनुजोऽग्रजमब्रवीत्. ॥९६॥
‘ सीताव्याली प रा नर्थहेतुर्मास्यां मनः कुरु
परस्त्रियानया किं ते ? रामायैषा प्रदीयताम्. ॥९७॥
यावन्न लंका म त्युग्राः कीशा दंष्ट्रानखायुधाः
आगतास्तावदेवेयं सीता रामाय दीयताम्. ॥९८॥
हरेर्यथा ग ज स्तद्वद्राघवस्याग्रतः क्षमः
स्थातुं न कुंभकर्णोऽयं नेंद्रजित्को‍ऽपि नापरः. ॥९९॥
कदाचित्कोऽपि य मतो विमुक्तो भविता जनः
रामस्य सन्निधिं प्राप्य त्वं तु जीवन्न मुच्यसे. ’ ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:40.9270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

टूक संभाळणें

  • योग्‍यवेळी काळजी घेणें. 
RANDOM WORD

Did you know?

गंध का लावावे ? अधिक माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.