संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य ८५१ ते ९०० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य ८५१ ते ९०० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ८५१ ते ९०० Translation - भाषांतर मूर्तिमानम रा धीशो रविः सुरगणे स्थितः रामं ‘ दशाननं हंतुं त्वरस्वे’ति वचोऽब्रवीत्. ॥८५१॥रामोऽथ शत म न्योस्तं सारथिश्रेष्ठमब्रवीत्, ‘ मातले ! पश्य संरब्धमापतंतं रथं रिपोः. ॥८५२॥तिष्ठाप्रमादो ज न्येऽस्मिन्प्रत्युद्गच्छ रथं रिपोःविध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम्. ॥८५३॥रथं प्रचोद य क्षिप्रमि’त्युक्तः स तथाऽकरोत् चक्रसंभूतरजसा रावणं व्यवधूनयत्. ॥८५४॥स चापमैंद्रं ज ग्राह शरांश्चार्ककरप्रभान् युद्धं तयोस्तदारब्धं दृप्तयोरिव सिंहयोः. ॥८५५॥देवाश्च मुन य श्चैव वारना रजनीचराः युद्धं समागता द्रष्टुं विस्मिताश्चित्रवत्स्थिताः. ॥८५६॥तदा बभूव रा ज्ञोस्तद्वैरथं परमाद्भुतम् रामरावणयोर्युद्धं रामरावणयोरिव. ॥८५७॥जेतव्यमिति म र्त्येशो मर्तव्यमिति रावणः धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा. ॥८५८॥रामः शरेण श्री मंतं ध्वजं चिच्छेद रक्षसः तेन तन्मनसि क्रोधः प्रजज्वाल सुदुःसहः. ॥८५९॥वृष्टिं चक्रे श रा णां स क्रुद्धो युद्धोद्यतः प्रभौ नानाविधायुधानां च गिरीणां भूरुहामपि. ॥८६०॥तां वृष्टिं पर म प्राज्ञो रामश्चिच्छेद सायकैः ततस्तस्य शिरोऽच्छिंदच्छ्रीमज्ज्वलितकुंडलम्. ॥८६१॥तस्य शीर्षांबु ज च्छेदे हृष्टा देवर्षयो भृशम् अन्यत्तेनैव सदृशं रावणस्योत्थितं शिरः. ॥८६२॥छिन्नं तदपि य त्नेन प्रभुणा क्षिप्रकारिणा छिन्नमात्रं च तच्छीर्षं पुनरेव प्रदृश्यते. ॥८६३॥एवमेव सु रा रातेस्तुल्याकारं शिरःशतम् छिन्नं रामेण समरे क्षिप्रहस्तेन मार्गणैः. ॥८६४॥दशकंठस्य म रणमपश्यन् राघवो रणे चिंतयामास बाणानाममोघानां विपर्ययम्. ॥८६५॥ सप्तरात्रम ज स्रं तत्तर्योर्युद्धमभून्महत्उवाच मातली राम ‘ मस्त्रं पैतामहं प्रभो ! ॥८६६॥अस्य प्रणाशा य रिपोर्विसृज त्वं रघूत्तम !’ स्मारितः शक्रसूतेन रामो वीरशिरोमणिः, ॥८६७॥यमगस्त्यो द्वि ज श्रेष्ठो ददौ पूर्वं महाशुगम् अभिमंत्र्य तमेवाशु चिक्षेप ब्रह्मनिर्मितम्. ॥८६८॥स तस्य हृद य स्येषुर्भेदं कृत्वा महाद्विषःभुवस्तलं विवेशाथो तूणीरं च विनीतवत्. ॥८६९॥गतप्रानो ध रा यां स राक्षसेंद्रो दशाननः पपात पापो वज्रेण हतो वृत्र इवाहितः. ॥८७०॥दृष्ट्वा पतित म त्यार्ता हतशेषा निशाचराः हतनाथा भयग्रस्ता लंकामभ्यपतन् द्रुतम्. ॥८७१॥निशाचरास्ते श्री मद्भिर्नदद्भिर्जितकाशिभिः वानरैर्मर्दिताः क्रुद्धैर्घना इव समीरणैः. ॥८७२॥विजये रघु रा जस्य व्यनदद्देवदुंदुभिः दिव्यगंशवहस्तत्र मारुतः सुसुखो ववौ. ॥८७३॥वृष्टिस्तदा सु म नसां दिव्यानां निपपात खात् सुरर्षिभिः कृता पुण्या स्तुती रामस्य शुश्रुवे ॥८७४॥ मरुद्गणाः प्र ज ग्मुस्ते शमं स्वर्गायना जगुः अगुः स्वास्थ्यं च लोकेशाः सुप्रभोऽभूत्सहस्रगुः ॥८७५॥रामः प्राप्तज य स्तत्र मुमुदे सकपीश्वरः भ्रातरं निहतं दृष्ट्वा विललाप बिभीषणः. ॥८७६॥सांत्वितः स गिरा माध्व्या श्रीरामेण महात्मना बिभीषणस्तं संस्कर्तुं प्रार्थयामास राघवम्. ॥८७७॥‘ शांतिर्वैरस्य म रणं, निवृत्तं नः प्रयोजनम् क्रियतामस्य संस्कारो ममाप्येष यथा तव. ’ ॥८७८॥ इत्युवाच त्रि ज गतां नाथो रघुकुलोत्तमः तमःप्रशमकृन्नामा सर्वभूतेषु यः समः. ॥८७९॥ अथ सर्वा स्त्रि य स्तस्य मृतं श्रुत्वा तमीश्वरम् मंदोदरीप्रभृतयो विलापं चक्रुराकुलाः. ॥८८०॥ अंतःपुराद्रा ज भार्या विनिष्पेतुः शुचार्दिताः रणपांसुषु चेष्टंत्यो मुक्तकेश्यो हतेश्वराः. ॥८८१॥ ददृशुस्ताः प्रिय तमं पतितं रणपांसुषु आलिंग्य रुरुदुः सर्वाः सा च मंदोदरी भृशम्. ॥८८२॥‘ इंद्रियाणि पु रा जित्वा जितं त्रिभुवनं त्वया स्मरद्भिरिव तद्वैरमिंद्रियैस्त्वं विनिर्जितः. ॥८८३॥तं चापि काम म प्राप्य मैथिलीसंगमे कृतम्पतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो ! ॥८८४॥सीता सतीयं श्री रेव रामो विष्णुर्न मानुषः हतोऽस्यतिक्रमान्नीतेर्धर्मस्य त्वं महानपि. ॥८८५॥मैथिली सह रा मेण विशोका विहरिष्यति अल्पपुण्या त्वहं घोरे पतिता शोकसागरे. ’ ॥८८६॥इत्यार्ता तस्य म हिर्षी तामन्याश्च बिभीषणः सांत्वयामास बहुधा रुदतीः सुदतीः प्रियाः. ॥८८७॥श्रीकौसल्यात्म ज स्तासां सांत्वनाय बिभीषणम् रावणस्य च संस्कारं कर्तुमाज्ञापयत्तदा. ॥८८८॥‘ नाहं पापाश य स्यास्य परदाराभिमर्शिनः कर्तुमिच्छामि संस्कारमि’त्युवाच बिभीषणः. ॥८८९॥‘ मैवं ब्रूह्यद्य रा ज्ञस्त्वं संस्कारं कर्तुमर्हसि मरणांतानि वैरानि ममाप्येष यथा तव. ’ ॥८९०॥ इत्युक्तः स स म र्थेन श्रीरामेण बिभीषणः विधिवत्तस्य संस्कारं चकार विधिकोविदः ॥८९१॥ सांत्वितास्तेन ज ग्मुस्ताः स्त्रियः सर्वाह स्वकान् गृहान्. बिभीषणो रामपार्श्वे समतिष्ठद्विनीतवत्. ॥८९२॥ आज्ञां दत्त्वा ‘ न य रथं शक्रपार्श्वमि’ति प्रभुःमातलिं पूजयामास सखायं तं शतक्रतोः. ॥८९३॥ रामचंद्रोऽनु ज मथ प्रोवाच शुभलक्षणम्, ‘ बिभीषणमिमं सौम्य ! लंकायामभिषेचय. ॥८९४॥ कामो मे हृद य स्थोऽयं परमो यद्बिभीषणम् पुरेऽभिषिक्तं पश्येयं प्रियं पूर्वोपकारिणम्. ’ ॥८९५॥ सौमित्रिर्वान रा न्दत्वा घटान्हैमान्मनोजवान् व्यादिदेश समुद्रेभ्यः सलिलानयनं द्रुतम्. ॥८९६॥ जलैः प्लवंग म श्रेष्ठैरानीतैस्तं बिभीषणम् अभ्यषिंचत्प्रसन्नात्मा लक्ष्मणः परमासने. ॥८९७॥अथाद्भुतैक श्री रामः प्रभुर्मारुतिमब्रवीत्, ‘ बिभीषणमनुज्ञाप्य कुशलं पृच्छ जानकीम्. ॥८९८॥वैदेह्या वान रा धीशं कुशलं लक्ष्मणं च माम्. आचक्ष्व वदतां श्रेष्ठ ! रावणं च हतं रणे. ॥८९९॥प्रियमुक्त्वा स म ग्रं त्वं ततस्तस्या हरीश्वर ! प्रतिगृह्य च संदेशमुपावर्तितुमर्हसि. ’ ॥९००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP