संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य २५१ ते ३०० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य २५१ ते ३०० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य २५१ ते ३०० Translation - भाषांतर ‘ एष नीलो ग ज श्चैष सेतुहेतुर्नलस्तथाएषोंऽगदो वालिपुत्रो जांबवानृक्षराड्यम्. ॥२५१॥तन्नामरूपं य त्तेजः सैन्यं चापि प्रधानतः सारणः कथयामास तौ च श्रीरामलक्ष्मणौ. ॥२५२॥सैन्यसंख्या गि राऽशक्या सुग्रीवसचिवा हि येएषां कोटिसहस्राणि नव पंच च सप्त च. ॥२५३॥प्रसंख्यातास्तेऽ म राणां तेजोगुणसमन्विताः तथा शंकुसहस्राणि तथा वृंदशतानि च. ’ ॥२५४॥श्रुत्वोत्कर्षं रा ज राजभ्राता रामस्य वर्णितम्भर्त्सयामास तौ वीरौ कथांते शुकसारणौ. ॥२५५॥‘ हन्यां भवंतौ य न्मूढौ शत्रुपक्षप्रशंसिनौ यदि पूर्वोपकारैर्मे न क्रोधो मृदुतां व्रजेत्. ’ ॥२५६॥गतावमात्यौ ज नितत्रासौ तावथ रावः शार्दूलं प्रेषयामास चरमन्यैश्चरैः सह. ॥२५७॥प्रविश्य सैन्यं य त्नेन स पश्यन् मायया वृतः बिभीषणेन शार्दूलो ग्राहितः पापधीरिति. ॥२५८॥मोक्षितः सोऽपि रा मेण वध्यमानः प्लवंगमैः अन्येऽपि राक्षसाः कीशैर्निगृहीता दयालुना. ॥२५९॥स शार्दूलः स्व म थनं बलिभिर्वानरैः कृतम् पृष्टो राक्षसराजेन कथयामास सांजलिः, ॥२६०॥‘ यथा समर्थः श्री रामस्तथा राजन् ! बिभीषणः तेन सैन्ये प्रविष्टोऽहं गृहीतस्ताडितः परैः. ॥२६१॥ परिणीतोस्मि रा जंस्तैर्बलमध्येऽत्यमर्षणैः यथा हनूमान् लंकायां बध्वाऽस्माभिः पुरा प्रभो ! ॥२६२॥परिणीव च मन्यूग्रै रक्तार्द्रोऽहं प्लवंगमैः रामसंसदि नीतोऽस्मि कृपया तेन मोचितः. ॥२६३॥कपिसैन्ये व्र ज न् वध्यश्चरस्तेषामसंशयम् आयुःशेषात्प्रसादाच्च प्रभोर्जीवन्निहागतः. ’ ॥२६४॥इत्युक्त्वा स भ य व्यग्रः शार्दूलः सुरशत्रुणापुनः पृष्टोब्रवीन्मुख्यान्सुग्रीवादीन्सुरांशजान्. ॥२६५॥विद्युज्जिह्वं सु रा रातिर्महामायमथाब्रवीत् ‘ शिरो रामस्य सशरं धनुश्च कुरु माचिरम्. ’ ॥२६६॥चक्रे तथैव म नसः सीताया मोहकृत्स तत् दृष्ट्वा दशाननस्तस्मै भूषणं स्वं ददौ मुदा. ॥२६७॥ततः श्रीदानु ज स्तन्वीमशोकवनिकागताम् सीतां ददर्श दुष्टात्मा तामुवाच पतिव्रताम्. ॥२६८॥‘ जानक्याश्रित्य य स्य त्वं वीर्यं मामवमन्यसे स हतो राक्षसै रात्रौ, सुप्तोऽब्ध्युत्तररोधसि. ॥२६९॥छिन्नं मूलं ते ज ढेऽद्य त्वद्दर्पो निहतो मया, भव मैथिलि ! भार्या मे, किं मृतेन करिष्यसि ? ॥२७०॥बिभीषणो नि य मितो, हतौ सुग्रीवमारुती दिशं प्रव्राजितः शेषैर्लक्ष्मणः प्लवगैः सह. ॥२७१॥प्रहस्तेन प रा भूतो हतो भर्ता तवाबले ! क्षतजार्द्रं रजोध्वस्तमिदं तस्याहृतं शिरः. ’ ॥२७२॥शृण्वंत्यां पर म क्रूरां वार्तां तस्यां दशाननः उवाच राक्षसीं ‘ येन रामस्य शिर आहृतम्. ॥२७३॥तमानयाशु, श्री हीनं पत्युः पश्यत्वियं शिरः ; इति श्रुत्वा तयाहूतो विद्युज्जिह्वो निशाचरः. ॥२७४॥ तच्छिरो धनु रा दाय मायावी विनयान्वितः प्रणाभं शिरसा कृत्वा रावणस्याग्रतः स्थितः. ॥२७५॥ तमुवाच स म र्त्यांशो, ‘ विद्युज्जिह्व ! सकार्मुकम् अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः. ’ ॥२७६॥धनुः शिरोंबु ज युतं सीतायाः पुरतस्तदा निक्षिप्यादर्शनमगात्स मायावी क्षपाचरः. ॥२७७॥सीता दृष्ट्वा प्रि य स्यैव मत्वा तत्कार्मुकं शिरः विजगर्हेऽत्र कैकेयीं क्रोशंतीं कुररी यथा. ॥२७८॥ बाला गता ध रा मार्ता सा छिन्ना कदली यथा तच्छिरः समुपाघ्राय विललापायतेक्षणा. ॥२७९॥ ‘ हा ! हतास्म्यद्य म न्नाथ ! पितृवाक्पालनव्रत ! त्वन्नाशात्पश्चिमावस्थां गतास्मि विधवा कृता. ’ ॥२८०॥ विलप्य देवी ज गतीसंभवा बहुशस्तदा उवाच रावणं दीना मर्तुकामा पतिव्रता. ॥२८१॥ ‘ साधु मां घात य क्षिप्रं रामस्योपरि रावण ! समानय पतिं पत्न्या कुरु कल्याणमुत्तमम्. ’ ॥२८२॥ विलपंत्यां रा ज पुत्र्यामागत्य रजनीचरः उवाच राक्षसं ‘ त्वाशु प्रहस्तो द्रष्टुमिच्छति. ’ ॥२८३॥एतच्छ्रुत्वा स य क्षेशभ्राता क्षिप्रं विनिर्गतः जगामादर्शनं शीर्षं तच्च कार्मुकमुत्तमम्. ॥२८४॥ राक्षसानां स रा जा तु मंत्रिभिः सह निश्चयम् युद्धस्य कृत्वा स्वबलं सित्धं चक्रे महाबलः. ॥२८५॥सीतां मोहनि म ग्नां तां सरमा नाम राक्षसी आश्वासयामास सखी बिभीषणमनःप्रिया. ॥२८६॥मा भैस्त्वमार्ये श्री मांस्ते कुशली सानुजः पतिः रावणेन कृता माया माऽयासं शोकतो व्रज. ॥२८७॥सिंधुमुत्तीर्य रा मस्ते सखि ! साध्वि ! समागतः उपस्थितं त्वां कल्याणं, शीघ्रं पत्या समेष्यसि. ॥२८८॥दशकंठस्य म रणं प्राप्तं नास्त्यत्र संशयःमोक्ष्यते ग्रथितां रामो वेणीमेणीदृशस्तव. ॥२८९॥त्वमाज्ञां कुरु ज न्माहं कृतार्थं कर्तुमात्मनः आगमिष्यामि रामे ते निवेद्य कुशलं वचः. ’ ॥२९०॥सीतोवाचा‘ऽऽश य स्तस्य रावणस्य दुरात्मनः त्वया निवेदनीयो मे वर एष वृतः सखि !. ’ ॥२९१॥सत्वरा सत्व रा शिः सा सरमा परमादृता तथेत्युक्त्या द्रुतं गुप्ता ययौ यत्र दशाननः. ॥२९२॥बिभीषणस्य म हिषी बुद्ध्वा दशमुखाशयम्, आगत्य पार्श्वं जानक्या प्रीत्या दत्तासनाऽब्रवीत्. ॥२९३॥‘ शृणु सीतेऽस्य ज ननी तथा मातामहश्च यः ताभ्यां बोधः कृतो यत्नात्त्वन्मोक्षार्थं पुनःपुनः. ॥२९४॥बोधितोऽप्यन य ज्ञोऽयं रावणः सखि ! दारुणः न त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा. ॥२९५॥अमृतस्त्वां रा ज पुत्रि ! क्रूरो मोक्तुं दशाननः जातु नोत्सहते स्पष्टो निश्चयोऽस्य समंत्रिणः. ॥२९६॥एनं पापाश य मरिं हत्वा रामः सलक्ष्मणःसीतेऽयोध्यां प्रति क्षिप्रं त्वां नेष्यत्यसितेक्षणे !. ’ ॥२९७॥ मंत्रकाले सु रा रातेर्भेरीशंकरवाकुलः शब्दोऽभूत्कपिसैन्यानां कंपयन् धरणीं मुहुः. ॥२९८॥माल्यवान्नाम म तिमान् राज्ञो मातामहः स्वयम् धर्मन्यायविदां मुख्यो बोधयामास रावणम्. ॥२९९॥‘ न नाशनीया श्री रेषा त्वयाऽधर्मेण रावण ! रामाय दातुं योग्येयं सीता, प्राप्तं यतो भयम्. ’ ॥३००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP