संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य ९०१ ते ९५० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य ९०१ ते ९५० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ९०१ ते ९५० Translation - भाषांतर इत्युक्तो वायु ज स्तेन रामेणाक्लिष्टकर्मणा तां पुष्पवाटिकां गत्वा सीतां नत्वेदमब्रवीत्. ॥९०१॥ कुशलं त्वाह य स्तेऽतिप्रियः श्रीरघुसत्तमः गतं रक्षो लयं देवि ! भास्करेणेव तत्तमः. ॥९०२॥प्रियमाख्यामि रा ज्ञि ! त्वां भूयोभूयः सभाजये रामस्याद्य प्रमुदिता देवर्षीणां सभा जये. ॥९०३॥ प्रभावात्ते सु म हिते रावणो निहतो रणेबिभीषणसहायेन रामेणाद्भुततेजसा. ॥९०४॥स दक्षिणो भु ज स्तस्य रामस्य कुशली सति ! लक्ष्मणः सुमहातेजाः सुग्रीवश्च महामतिः. ॥९०५॥लब्धोऽयं विज य स्तेजो रामेण ख्यापितं महत् लंका वशीकृता सीते ! स्वस्था भव गतज्वरा. ’ ॥९०६॥सीतोवाच नि ज स्वांतप्रियं श्रुत्वानिलात्मजम् तूष्णींभूता क्षणं पश्चात्’तेन संप्रार्थिता सती. ॥९०७॥‘ वत्साख्यातुः प्रि य स्यास्य भवतो हितकारिणः देयं वस्तु न पश्यामि सदृशं किंचिदप्यहम्. ’ ॥९०८॥हनूमानाह रा ज्ञीं तां प्रांजलि‘र्देवि ! वत्सले ! स्निग्धमेवंविधं वाक्यं त्वमेवार्हस्यनिंदिते ! ॥९०९॥एतदेव म म श्रेयः प्रियं भर्तृहिते रते लब्धं सर्वं मया श्रुत्वा वाक्यमेतत्तवामृतम्. ॥९१०॥देयो वरोऽध श्री मत्या मातर्यः प्रार्थ्यते मयाश्रोतुमर्हसि तं देवि म एविश्वख्यातसद्व्रते ! ॥९११॥इमास्तु खलु रा क्षस्यो यदि त्वमनुमन्यसे हंतुमिच्छामि ताः सर्वा याभिस्त्वं तर्जिता पुरा. ’ ॥९१२॥जानक्युवाच, ‘ म तिमन् ! कुर्वतीनां पराज्ञया विधेयानां च दासीनां कः कुप्येद्वानरोत्तम ! ’ ॥९१३॥इत्युक्तो वात ज स्तुष्टस्तामुवाच यशस्विनीम्,‘ युक्ता रामस्य भवती धर्मपत्नी गुणान्विता. ॥९१४॥वैदेहि ! हृदय य स्थं यत्तत्त्वं तत्त्वं मनस्विनि ! प्रतिसंदिश मां देवि ! गमिष्ये यत्र राघवः. ’ ॥९१५॥एवमुक्ता न रा धीशसुता सीता हनूमता साब्रवी ‘ द्द्रष्टुमिच्छामि भर्तारं भक्तवत्सलम्. ’ ॥९१६॥हनूमान् राम म हिषीमुवाच प्रांजलिस्तदा, ‘ पूर्णचंद्रमुखं रामं द्रक्ष्यस्यद्य सलक्ष्मणम्. ’ ॥९१७॥एवमुक्त्वा भ्रा ज मानां सीतां साक्षादिव श्रियम् आजगाम महातेजा हनूमान् यत्र राघवः ॥९१८॥ तस्याः सोऽकथ य त्सर्वं राघवायोत्तरं वचःस्वयं चोवाच शोकार्तां द्रष्टुमर्हसि तामिति. ॥९१९॥एवमुक्तस्त्रि ज गतां नाथो धर्मभृतां वरः आगच्छत्सहसा ध्यानमीषद्वाष्पपरिप्लुतः. ॥९२०॥ ‘ तामुपस्थाप य क्षिप्रं सीतां स्नातामलंकृताम् ’ बिभीशणमिति श्रीमानुवाच रघुनायकः. ॥९२१॥ आरोप्य प्रव रा मार्यां शिबिकां तां बिभीशणः.आनयामास सुस्नातां प्रीतां सीतां स्वलंकृताम्.॥९२२॥तदा प्लवंग म र्क्षांस्तान् वारितान् वेत्रपाणिभिः दृष्ट्वा, बिभीषणं रामो मैवमित्यब्रवीत्क्रुधा. ॥९२३॥अथाह रामः श्री मांस्तां विनीतां पार्श्वमागताम्, ‘ पौरुषाद्यदनुष्ठेयं मयैतदुपपादितम्. ॥९२४॥निर्जितासि व रा रोहे ! शत्रुं जित्वा रणाजिरेपरिश्रमोऽयं वृत्तार्थः, न त्वदर्थं मया कृतः. ॥९२५॥प्राप्तसंदेह म हिमा मम प्रतिमुखे स्थिता दीपो नेत्रातुरस्येव प्रतिकूलासि म दृढा. ॥९२६॥तद्रच्छ त्वं रा ज कन्ये ! यथेष्टं विवृता दिशः कः कविः पुनरादद्यात्स्त्रियं परगृहोषिताम् ? ॥९२७॥लक्ष्मणे वात्या य ताक्षि ! भरते वा नरोत्तमे शत्रुघ्ने वा गुणाढ्ये त्वं कुरु बुद्धिं यथासुखम्. ॥९२८॥सुग्रीवे वान रा धीशे राक्षसे वा बिभीषणे निवेशय मनः सीते ! यथा वा सुखमात्मनः. ॥९२९॥ न त्वां दशस्यो म हिलां दिव्यरूपां बलाद्धृताम् मर्षयेत्सुचिरं सीते ! स्वगृहे पर्यवस्थिताम्. ’ ॥९३०॥अत्यप्रियं रा ज कन्या तदुपश्रुत्य सा प्रियात् रुदती सुदती सीता भर्तारमिदमब्रवीत्. ॥९३१॥ ‘ किमेवं हृदं य च्छेदि प्रभो ! मां श्रोत्रदारुणम् रूक्षं श्रावयसे वाक्यं प्राकृतः प्राकृतामिव ? ॥९३२॥ न तथास्मि, नि ज स्वांते यथा मामवगच्छसि, प्रत्ययं गच्छ मे, स्वेन चारित्रेण शपे स्वयम्. ॥९३३॥ अन्यासामन य ज्ञत्वाज्जातिं त्वं परिशंकसे त्यज शंकां, परस्पर्शे कामकारो न मे प्रभो ! ॥९३४॥ शरीरेऽत्र प रा धीने किं करिष्याम्यनीश्वरी ? मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते. ॥९३५॥निपीडितो म म करो न प्रमाणीकृतस्त्वया न मे भक्तिर्न मच्छीलं, सर्वं ते पृष्ठतः कृतम्. ॥९३६॥ सैवं तदोक्त्वा श्री मंतं लक्ष्मणं दीनमानसम्उवाच, ‘ व्यसनस्यास्य भेषजं कुरु मे चिताम्. ॥९३७॥ त्यक्त्वा देवर ! रा ज्ञाहमप्रीतेन गुणैर्मम मिथ्यापवादोपहता प्रवेक्ष्ये हव्यवाहनम्. ॥९३८॥प्रपतो वशम म र्षस्य स विज्ञाय प्रभोर्मतम् चितां चकार सौमित्रिः परवान्भृशदुःखितः. ॥९३९॥ न हि रामं ते ज सोग्रं तदा कश्चिद्यमोपमम् अनुनेतुमथो वक्तुं द्रष्टुं वाप्यशकत्सुहृत्. ॥९४०॥अधोमुखं प्रि य तमं रामं कृत्वा प्रदक्षिणम् बद्धांजलिः सती सीता साब्रवीदग्निसंनिधौ. ॥९४१॥‘ यथा मनो मे रा जेंद्रान्नापसर्पति राघवात् तथा सर्वस्य साक्षी मां सर्वतः पातु पावकः. ॥९४२॥ यद्यहं शुद्धि म त्यस्मि श्रीमद्रामैकमानसा केशवस्त्रादिकमपि माधाक्षीन्मम पावकः. ’ ॥९४३॥एवमुक्त्वा ग ज गतिः परिक्रम्य हुताशनम् सीता विवेश ज्वलनं निःशंकेनांतरात्मना. ॥९४४॥महान् जनोच्च य स्तत्र ददर्शाश्रुसमाकुलः प्रविशंतीं सतीमग्निं दीप्तं सौदामिनीमिव. ॥९४५॥ददृशुस्तां रा ज कन्यां प्रविशंतीं हुताशनम् ऋषयो देवगंधर्वाः पूर्णाहुतिमिवाध्वरे. ॥९४६॥प्रचुक्रुशः स्त्रि य स्तास्तां दृष्ट्वा दीप्ते चितानले पतंतीं संस्कृतां मंत्रैर्वसोर्धारामिव क्रतौ. ॥९४७॥रक्षसां वान रा णां च ‘ हाहे’ति विपुलः स्वनः तस्यामग्निं संविशंत्यां संबभूवाद्भुतोपमः. ॥९४८॥ततो रामः का म खिन्नः श्रुत्वैव वदतां गिरः दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः. ॥९४९॥शक्रो यमोऽथ श्री दश्च शंभुर्ब्रह्मा सुरैः सह लंकां विमानैरागत्य तेऽभिजग्मू रघूत्तमम्. ॥९५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP