संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य ५५१ ते ६०० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य ५५१ ते ६०० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ५५१ ते ६०० Translation - भाषांतर देहे शिलोच्च य क्रूरे विशीर्णास्तस्य ते द्रुमाः शिलाश्च शिखराण्यद्रेः शतशः प्राज्यतेजसः. ॥५५१॥वलीमुखव रा स्तेन निहता बहवो रणेरक्तार्द्रा दुद्रुवुस्तेन तीर्णा येन पथार्णवम्. ॥५५२॥अंगदस्तान्भ्र म च्चित्तान् वानरान् पुनरब्रवीत्, ‘ अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः ! ॥५५३॥द्रुतानां नैव ज गतीपृष्ठे पश्यामि वः स्थलम् दारा ह्युपहसिष्यंति सोऽधिको जीवतां वधः. ॥५५४॥रामं दृष्ट्वा ना य मद्य क्रूरो जीवन् गमिष्यति दीप्यमानमिवासाद्य पतंगो जातवेदसम्. ॥५५५॥द्रवमाणास्तु ज वना अंगदेन वलीमुखाः सांत्वनैश्चानुमानैश्च ततः सर्वे निवर्तिताः. ॥५५६॥आर्यात आस्था य मतिं तस्थुः संग्रामकांक्षिणः पर्यवस्थापिताः सूक्तैरंगदेन प्रहर्षिताः. ॥५५७॥ततस्तान् वान रा न्वीरान् भक्षयामास राक्षसः नासापुटाभ्यां कर्णाभ्यां तस्य केचिद्विनिर्गताः. ॥५५८॥शैलशृंगैस्तं म रुतस्ताडयामास नंदनः तमाजघान शूलेन कुंभकर्णो भुजांतरे ॥५५९॥स्भीमं ननाद श्री मान्त्स मारुती रक्षसाहतः रक्षोगणा विनेदुस्तं समीक्ष्य व्यथितं कपिम्. ॥५६०॥ऋषभं च ध रा यां स शरभं गंधमादनम् नीलं गवाक्षं चरणे पातयामास राक्षसः. ॥५६१॥तं समारुह्य म हिभृत्तुल्यं ते कपयो रुषा दद्न्शुर्दारयामासुर्नखैर्जघ्नुश्च मुष्टिभिः. ॥५६२॥यथा सर्पान् द्वि ज पतिर्भक्षयन् परिधावति तथैव कुंभकर्णस्तान्कीशानीशानविक्रमः. ॥५६३॥तारायास्तन य स्तेन मुष्टिना ताडितो हृदि पपात भूमौ संत्यक्तो महसा सहसार्दितः. ॥५६४॥सुग्रीवो वान रा धीशः शैलशृंगेन वक्षसि तमाजघान तद्भिन्नं विशाले तद्भुजांतरे. ॥५६५॥शूलं चिक्षेप म दिरामदांधः स निशाचरः समुत्पत्य गृहीत्वा तद्बभंज पवनात्मजः. ॥५६६॥शृंगमुत्पाट्य ज गतधिरस्य मलयस्य सः जघान तेन सुग्रीवं पातयामास मूर्च्छितम्. ॥५६७॥यथा वातस्तो य दं तं संप्रगृह्य जहार सः हनूमांश्चितयामास किं कार्यमिति बुद्धिमान्. ॥५६८॥‘ मोक्षितश्चेन्नि ज स्वामी मयाद्य बलशालिना अप्रीतिश्च भवेदस्य कीर्तिनाशश्च शाश्वतः. ॥५६९॥मूर्छितोऽद्य स्व य मयं मुहूर्ताद्वानरेश्वरः मोक्षं प्राप्स्यै सेनां स्वां तावदाश्वासयाम्यहम्. ॥५७०॥एवमाजौ प रा क्रम्य तमादाय कपीश्वरम् विवेश लंकां विजयी कुंभकर्णो महायशाः. ॥५७१॥पूज्यमानः सु म नसां गंधोदानां च वृष्टिभिः राजमार्गे गतो हृष्टः कुंभकर्णः शनैःशनैः. ॥५७२॥अथ प्रबुद्धः श्री मान्त्स प्लवगेशो महाबलः दैवगत्या बभूवास्य तद्वर्षं मोहशांतये. ॥५७३॥प्लवंगमानां रा जाशु तस्य कर्णौ नखैः खरैः लुलुंच नासां दशनैः पाश्वौ च विददार सः. ॥५७४॥छिन्नकर्णोऽत्य म र्ष्यार्तो हृतनासो विरूपितः आविध्य भूमौ सुग्रीवं कुंभकर्णः पिपेष सः. ॥५७५॥अभिxx ष्टोऽलं ज गत्यां हन्यमानोऽपि राक्षसैःजगाम खं कंदुकवत् जवेन स हरीश्वरः. ॥५७६॥ प्रगर्जन्प्रल य प्रोद्यन्मेघधीरध्वनिर्द्रुतम् वानराणां सार्वभौमो रामपार्श्वं जगाम सः. ॥५७७॥आयुधं मुद्र रा ख्यं स प्रगृह्य क्रोधनः पुरात् पुनर्विनिर्गतो योद्धुं प्रलयज्वलनप्रभः. ॥५७८॥खादन् प्लवंग म शतान्यं तकप्रतिमो यदा चचार राक्षसो, भीताः शरणं राघवं ययुः. ॥५७९॥तदा रामानु ज स्तस्य चिच्छेद कवचं शरैः निचखानाशुगान्देहे शतशो वज्रदारुणान्. ॥५८०॥कुंभकर्णः स्म य न्नाह, ‘ साधु साधु महाभुज ! युध्यता मामभीतेन ख्यापिता वीरता त्वया. ॥५८१॥ वीर ! रामानु ज ! रणे तोषितोऽहं त्वया भृशम् नेंद्रोऽपि मेऽग्रतो युद्धे स्थितपूर्वः कदाचन. ॥५८२॥अंतकस्याप्य य त्नेन जेतुर्मेऽतुलतेजसः तिष्ठन्नप्यग्रतः पुज्यः किमु युद्धप्रदायकः. ॥५८३॥त्वामनुज्ञाप्य रा जेंद्रं गंतुमिच्छामि लक्ष्मण ! तमेव हंतुमीहा मे सर्वं तस्मिन् हते हतम्. ॥५८४॥ दृष्टः पराक्र म स्तेऽद्य सत्यं त्वय्यद्भुतं बलम्. ’ ‘ एष दाशरथी रामस्तिष्ठती’त्यब्रवीत्स तम्. ॥५८५॥ततः स रामं श्री मंतमभिदुद्राव राक्षसः कुंभकर्णो महातेजाः कंपयन्नखिलां महीम्. ॥५८६॥रामः शचीव रा रातिं हृदि विव्याध मार्गणैः विद्धस्य हस्तात्तस्योर्व्यां पपातोग्रगदा तदा. ॥५८७॥रक्षःप्लवंग म र्क्षान्त्स भक्षयामास राक्षसः मत्तो रुधिरगंधेन मद्येन च रुषोद्धतः. ॥५८८॥राममुद्दिश्य ज गतीधरशृंगमरिर्महत् चिक्षेप स्मरे क्रुद्धः कुंभकर्णो महाबलः. ॥५८९॥कौसल्यातन य स्तूर्णं शरैश्चिच्छेद सप्तभिः द्वे शते वानराणां तत्पतमानमपातयत्. ॥५९०॥तस्मिन्काले न रा धीशं रामं सौमित्रिरब्रवीत्, ‘ मत्तः शोणितगंधेन स्वान् परांश्चैष खादति. ॥५९१॥एनं प्रमत्त म धुना वानराः शतशः प्रभो ! अधिरोहंतु भारार्तु नान्यान्हन्यादयं कपीन्. ’ ॥५९२॥अधिरूढास्त्रि ज गतां नाथस्याज्ञानुवर्तिनःव्यधूनयत्तान् वेगेन दुष्टहस्तीव हस्तिपान्. ॥५९३॥कोदंडमादा य तदा तमुवाच रघूतमः ‘ आगच्छ राक्षसश्रेष्ठ ! रक्षःकालमवेहि माम्. ॥५९४॥दशकंठानु ज स्तेन तथोक्तः प्रभुणा स्वयम् रामोऽयमिति विज्ञाय जहास विकृतस्वरम्. ॥५९५॥उवाच, ‘ प्र य त्नं त्वं कुरु राम ! मयि ध्रुवम् न विराधः खरो वाली कुंभकर्णोऽहमागतः ॥५९६॥पराक्रमं त्वं रा जीवलोचनाजौ प्रदर्शय ततस्त्वां भक्षयिष्यामि दृष्ट्वादौ तव विक्रमम्. ’ ॥५९७॥श्रुत्वातिविक्र म स्येत्थं वाक्यं तलक्ष्मणाग्रजः कृत्वा युद्धं प्रचिच्छेद बाहुं तस्य समुद्ररम्. ॥५९८॥भ्रातुः स बाहुः भी दस्य वज्रच्छिन्नाद्रिशृंगवत् पपात, पतता तेन मर्दिता कपिवाहिनी. ॥५९९॥स्वर्भानुरिव रा केशं रामं हंतुं स राक्षसः अभिदुद्राव वामेन करेणोत्पाट्य भूरुहम्. ॥६००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP