युद्धकाण्डम् - काव्य ९५१ ते १०००

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


अब्रुवंस्तं सु रा रामं प्रांजलिं पुरतः स्थितम्,
‘ विश्वस्य कर्तास्थात्मानं कथं त्वं नावबुध्यसे ? ॥९५१॥
सीता तवेयं म हिषी साक्षाच्छ्रीर्जनकात्मजा
उपेक्षसे कथं विष्णो ! पतंतीं हव्यवाहने ? ॥९५२॥
अस्माभिस्त्वं त्रि ज गतां भर्ता हंतुं दशाननम्
प्रार्थितो मानुषीं योनिं प्रविष्टोऽसि सनातनः. ॥९५३॥
प्रभवश्चाप्य य श्च त्वं देवकार्यं कृतं त्वया
सर्वे कृतार्थास्त्वद्भक्ताः शरण्यस्त्वं जनार्दन ! ’ ॥९५४॥
गृहीत्वा तां व रा रोहां मूर्तिमान् हव्यवाहनः
उत्थायाभ्येत्य भगवानित्युवाच रघूत्तमम, ॥९५५॥
‘ राम ! रामाच्छ म नसं सीतां शीतांशुजिन्मुखीम्
गृहाण त्वमिमां मान्यां मान्यां बुद्धिं कुरु प्रभो !, ॥९५६॥
एवमुक्त्वा रा ज मानां सीतां दाशरथेः प्रभोः
स्थापयामास वामे तामंके पंकेरुहेक्षणाम्. ॥९५७॥
‘ लोकापवादो य शसो नाशकोऽतस्तमागतम्
परिमार्ष्टुदं दिव्यं मया विज्ञाय कारितम्. ॥९५८॥
इयं विशुद्धा ज गति श्रेष्ठा भानोरिव प्रभा,
न विहातुं मया शक्या कीर्तिरात्मवता यथा. ॥९५९॥
सुस्निग्धानां सु य शसां नाथानां वदतां हितम्
अवश्यं च मया कार्यं सर्वेषां वो वचः प्रियम्. ’ ॥९६०॥
एवमुक्त्वा स रा जेंद्रः प्रियां स्वीकृतवान्मुदा.
ततः शुभतरं वाक्यं व्याजहार महेश्वरः. ॥९६१॥
‘ पुष्कराक्ष ! स म र्थेश ! श्यामतामरसप्रभ !
दिष्टया कृतमिदं कर्म त्वया धर्मभृतां वर ! ॥९६२॥
आश्वास्य दीनां श्री मंत्स्वं भरतं भक्तमात्मनः
मातॄश्च राज्यं कृत्वाथ स्वपदं गंतुमर्हसि. ॥९६३॥
विमानेऽयं न रा धीशः पिता दशरथस्तव
लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय. ॥९६४॥
शक्रस्य लोकं म र्त्येंद्रो गतो गतिमतां वरः
सत्पुत्रेण त्वया राम ! तारितोऽयं गुरुस्तव. ’ ॥९६५॥
रागह्वः सानु ज श्चक्रे नमनं पितुरात्मनः
स चैनमंक आरोप्य परिष्वज्य मुदाब्रवीत्. ॥९६६॥
 ‘ राम ! प्राणप्रि य ! स्वर्गः समानोऽपि सुरर्षभैः
न मे बहुमतो जातु त्वां विना गुरुवत्सल ! ॥९६७॥
कैकेय्या यानि रा जीवनेत्र ! प्रोक्तानि दुष्टया
 तानि वाक्यानि शल्यानि स्थितानि हृदये मम. ॥९६८॥
दुःखान्मुक्तोऽद्य म हतस्त्वां परिष्वज्य सानुजम्
तारितोऽहं त्वया पुत्र ! सुपुत्रेण महात्मना. ’ ॥९६९॥
रामः प्रोवाच ज नकं, ‘ कैकेय्या भरतस्य च
प्रसादं कुरु, शापः स सपुत्रां न स्पृशेत्प्रभो ! ’ ॥९७०॥
तथेत्युक्त्वा प्रि य गुणं लक्ष्मणं तां च जानकीम्
समाश्वास्य, विमानेन ययौ स्वर्गं महायशाः. ॥९७१॥
ततो जयंत ज नको रामं प्रांजलिरब्रवीत्,
‘ अमोघं दर्शनं राम ! तवास्माकं रघूत्तम ! ॥९७२॥
प्रीताः स्म, ब्रूहि य त्प्राज्यं राजेंद्र ! मनसेप्सितम्. ’
तच्छ्रुत्वा वासवं हृष्टो वचनं प्राह राघवः. ॥९७३॥
‘ मम हेतोः प रा क्रांता ये गाता यमसादनम्
ते सर्वे जीवितं प्राप्य समुत्तिष्ठंतु वानराः. ॥९७४॥
अकाले चापि म धुराः फलमूलसमृद्धयः
नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः. ’ ॥९७५॥
रक्षःक्षयाप्त श्री रिंद्रः प्रत्युवाच तदा प्रभुम्,
‘ महानयं वरस्तात ! त्वयोक्तो रघुसत्तम ! ॥९७६॥
मम त्वयि प रा प्रीतिस्तस्मादेतद्भविष्यति.
समुत्तिष्ठंतु सर्वे ते ये हता युधि राक्षसैः. ’ ॥९७७॥
ततः प्लवंग म व्रातास्ते सुप्त्वेव समुत्थिताः
बभूवुर्वानरा ऋक्षाः किंन्वेतदिति विस्मिताः. ॥९७८॥
राममापृच्छय ज ग्मुस्ते स्वर्गं सेंद्रा दिवौकसः.
श्रीरामं प्रार्थयामास सत्कर्तुं स बिभीषणः. ॥९७९॥
तमाह रामो, ‘ य दि मां राजन् ! सत्कर्तुमिच्छसि
हरीन्सुग्रीवमुख्यांस्त्वं सर्वानप्यद्य सत्कुरु. ॥९८०॥
स तु ताम्यति र अज्येऽपि भरतो मत्कृते सदा
तं विना मे बहुमतं न स्नानं वस्त्रभूषणम्. ॥९८१॥
एतत्त्वं पश्य म तिमन् ! यथा क्षिप्रं निजां पुरीम्
प्रतिगच्छामि, मार्गोऽयं राजन् ! परमदुर्गमः. ’ ॥९८२॥
दक्षकंठानु ज स्तं स प्रत्युवाच कृतांजलिः,
‘ अह्ना त्वां प्रापयिष्यामि साकेतं पुष्पकेण तत्. ॥९८३॥
अनुग्रहस्ते य द्यस्ति सदारः सानुजो वस
गृहाण सत्क्रियां मत्तः, सौहृदं तव चेन्मयि. ’ ॥९८४॥
तत्कौसल्यानु ज स्तस्य श्रुत्वा वाक्यं ततोऽब्रवीत्,
‘ साचिव्येन तथा प्रेम्णा पूजितोऽहं भृशं त्वया. ॥९८५॥
भरतं तु प्रि य सख द्रष्टुं मे त्वरते मनः
शिरसा याचतो यस्य न कृतं वचनं मया. ॥९८६॥
कौसल्यां च प रा मार्तां सुमित्रां केकयात्मजाम्
गुहं च सुहृदं पौरान् द्रष्टुं मेऽत्युत्सुकं मनः. ॥९८७॥
अनुजानीहि म तिमन् ! मामहं सत्कृतस्त्वया
उपस्थापय मे शीघ्रं विमानं राक्षसेश्वर ! ’ ॥९८८॥
स तद्विमानं श्री दस्य कामगं रावणाहृतम्,
स्थापयामास सेवायां सुरतः पुरतः प्रभोः. ॥९८९॥
ससैन्यं वान रा धीशं संपूज्य परया मुदा,
‘ साकेतं मां नये’त्याह रामं भक्तो बिभीषणः. ॥९९०॥
सोऽपि प्लवंग म पतिः सुग्रीवो मंत्रिभिः सह
तथैव प्रार्थयामास प्रभुं प्राज्यदयं स्वयम्. ॥९९१॥
तद्विमानं भ्रा ज मानं राजराजस्य रागह्वः
ताभ्यां सह समारुह्य राजभ्यां कपिरक्षसाम् ॥९९२॥
त्रिकूटात्तां प्रि य तमामंके स्थाप्य सलक्ष्मणः
प्रतस्थे सुमहातेजा लंकालंकारजित्पुरम्. ॥९९३॥
कैलासशिख रा कारे त्रिकूटशिखरे स्थिताम्
लंकां युद्धधरां रामो दर्शयन्नाह जानकीम्. ॥९९४॥
‘ प्रिये ! पश्य त्व म स्याद्रेस्त्रिकूटस्य शिरोगताम्
सुरैर्दुरासदां लंकां निर्मितां विश्वकर्मणा. ॥९९५॥
इयं युद्धस्य ज गती, त्वत्कृतेऽत्र सह प्रियैः
सचिवैर्भ्रातृभिः पुत्रैः सीते ! दशमुखो हतः. ॥९९६॥
रावणस्य स्त्रि य स्तप्ता मंदोदर्या सह प्रिये !
विविधं भूरिकरुणं तं मृतं पर्यदेवयन् ॥९९७॥
सेतुर्नलेन ज लधावेष देव्याज्ञया मम
तव हेतोर्विशालाक्षि ! बद्धः पश्य सुदुष्करः. ॥९९८॥
पश्य सीते ! ऽत्या य ताक्षि ! दुस्तरं वरुणालयम्
जंतवो यत्र पतितं नयंत्यकरुणालयम्. ॥९९९॥
इतस्त्वं रुचि रा पांगे ! मैनाकं भित्वा सागरमुत्थितम्. ॥१०००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP