संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य ६०१ ते ६५० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य ६०१ ते ६५० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ६०१ ते ६५० Translation - भाषांतर सतालं वाम म पि तं रामश्चिच्छेद तद्भुजम् तेनापि चूर्णिता रक्षःकपिभूरुहपर्वताः. ॥६०१॥दृष्ट्वा छिन्नभु ज द्वंद्वमागच्छंतं जवेन तम् तत्पादावर्धचंद्राभ्यां चिच्छेदाशु रघूत्तमः. ॥६०२॥तस्य पादौ क्ष य करावुग्रौ वानररक्षसाम् विनादयंतौ प्रदिशो दिशोऽब्धिं च निपेततुः. ॥६०३॥ यथैव चंद्रं रा हुः स व्यादायास्यं भयंकरम् रामं दुद्राव पादाभ्यां भुजाभ्यां रहितोऽप्यरिः. ॥६०४॥अपूरयद्धे म पुंखैः शरैस्तस्याननं प्रभुः शशाक वक्तुं न तदा चुकूज च मुमूर्च्छ च. ॥६०५॥अथाददे ते ज सेद्धं कालकल्पं शरं वरम् वायुवेगं प्रत्तिक्षेप कुंभकर्णाय राघवः. ॥६०६॥स कृतारिल य स्तस्य चकर्त सहसा शिरः प्रयुक्तो वासवेनेव वज्रो वृत्रस्य विद्विषः. ॥६०७॥देहं तत्तस्य ज लधौ छेदवेगोत्थितं शिरः पपात पुरि वेश्मानि प्राकारं चाप्यपातयत्. ॥६०८॥दृष्ट्वा हतं सं य ति तं हृष्टा देवा महर्षयः प्लवगाः पूजयामासुः श्रीरामं जयभागिनम्. ॥६०९॥कुंभकर्णं प रा सुं तं राघवेण कृतं रणेश्रुत्वा शोकाकुलो राजा स मुमोह पपात च. ॥६१०॥विललाप स म र्थोऽपि दैन्यं प्राप्य स रावणः, ‘ हा वीर ! बंधो ! व्यसने त्यक्त्वा मां त्वं कथं गतः ? ॥६११॥त्वया विना मे श्री र्नेष्टा किं कार्यं सीतया तया ? राज्येन नास्ति मे कृत्यं जीविते नास्ति मे मतिः. ॥६१२॥ प्राप्तो मया प रा नर्थः सुहृद्वाक्यमगृह्णता बिभीषणेन विदुषा यदुक्तं सत्यमेव तत्. ॥६१३॥शोकदोऽयं म म प्राप्तो विपाकस्तस्य कर्मणः यन्मया धार्मिकः श्रीमान् स निरस्तो बिभीषणः. ’ ॥६१४॥ एवं बह्वनुय ज ध्वं साद्विलपंतं दशाननम् तत्सुतस्त्रिशिरा वीरः सांत्वयन्नित्युवाच तम्, ॥६१५॥‘ दैवाद्धतोऽद्या य माजौ मध्यमो नः पिता बली पराड्मुखहतः शोच्यो नैव योऽभिमुखो रणे. ॥६१६॥ विलपंति न रा जन् ये शूराः सूरातितेजसः त्रैलोक्यस्यापि विजये समर्थस्त्वमसि प्रभो ! ॥६१७॥ स त्वं कस्मात्स म र्थोऽपि शोचस्यात्मानमीदृशम् मा प्राकृत इव प्राज्ञ ! शोकं कुरु सुरुग्घरम्, ॥६१८॥ब्रह्मदत्तास्ति ज यिनी शक्तिश्च कवचं धनुः दिव्यः शरः स्यंदनोऽपि सहस्रखरसंयुतः. ॥६१९॥त्वया शचीप्रि य मुखा विशस्ता दैत्यदानवाः स सर्वायुधसंपन्नो राघवं शास्तुमर्हसि. ॥६२०॥यथेष्टं त्वं रा ज वर्य ! तिष्ठाहं भ्रातृभिः सह गमिष्यामि हनिष्यामि रणे रामं सलक्ष्मणम्. ॥६२१॥श्रुत्वा स्वतन य स्यैवं वाक्यं रात्रिचरेश्वरः पुनर्जातमिवात्मानं मेने कालेन मोहितः. ॥६२२॥प्रेषितस्त्रिशि रा राज्ञा देवांतकनरांतकौअतिकायश्च ते तस्य सर्वे लब्धवराः सुताः. ॥६२३॥ वैमात्रेयौ स म र्थौ च भ्रातरौ वरदर्पितौ पुत्रैश्चतुर्भिः सहितौ महापार्श्वमहोदरौ. ॥६२४॥ नरांतकं तु श्री मत्तं पित्रा संप्रेषितोंऽगदः मुष्टिनैवावधीदुग्रं कपिसैन्यतृणानलम्. ॥६२५॥मारुतेः प्रख रा न्मुष्टिप्रहाराद्भिन्नमस्तकः देवांतको जहौ प्राणान् यः पुरान्वर्थनामकः. ॥६२६॥नीलो गृहीत्वा म हतो गिरेः शृंगं सपादपम् क्षिप्तेन तेन हतवान् गजारूढं महोदरम्. ॥६२७॥महापार्श्वः सं य दुर्गो भ्राता लंकापते रणे ऋषभेण महातेजास्तस्यैव गदया हतः, ॥६२८॥महापार्श्वः सं य दुग्रो भ्राता लंकापते रणे ऋषभेण महातेजास्तस्यैव गदया हतः, ॥६२९॥अतिकायः सु रा रातिरस्त्रविद्रणदारुणःसौमित्रिणा हतः संख्ये ब्रह्मास्त्रेण रणाजिरे. ॥६३०॥स्वपुत्रभ्रातृ म रणं श्रुत्वा शोकपरायणम् दीनं सभायामालोक्य तातमिंद्रजिदब्रवीत्, ॥६३१॥ ‘ मयि जीवत्य ज प्राप्तद्विषद्भंगवरे युधि न तात ! मोहं त्वं गंतुमर्हस्वद्य महाभुज ! ॥६३२॥द्विषां समुद य स्याहमंतको हंत कोविध पश्याद्य रामं मद्वाणभिन्नदेहं सलक्ष्मणम्. ’ ॥६३३॥शक्रशत्रुर्नि ज प्राज्यतेजो दर्शयितुं रणे जगाम राक्षसानीकैर्वृतो वृत्र इवापरः. ॥६३४॥ततस्स विज य प्राप्त्यै द्रव्यैर्युद्धभुवि स्थितः जुहुवे हुतभोक्तारमभिचारविधानतः. ॥६३५॥ कृष्णच्छागं सु रा रातिर्हुत्वा जीवंतमस्त्रवित् पुनर्ब्रह्मास्त्रोपदेशं ब्रह्मणा समकारयत्. ॥६३६॥स लब्ध्वा ब्राह्म म स्त्रज्ञस्तेन स्वधनुरादिकम्युद्धोपकरणं सर्वं स विद्वानभ्यमंत्रयत्. ॥६३७॥अंतर्हितः स श्री दस्य भ्रातृव्यः सर्ववानरान् पातयामास विशिखैः पुनर्दाशरथी च तौ. ॥६३८॥रामोऽब्रवीच्छ रा क्रांतं सौमित्रिं ‘ वत्स ! दुःसहम् सहस्वाव्यग्रमनसा ब्रह्मणोऽस्त्रं मया सह. ’ ॥६३९॥स तेनास्त्रेण म हता सैन्यं रामं सलक्ष्मणम् निषूदयित्वा स्वपुरीं विवेश विजयी मुदा. ॥६४०॥नीलस्तारात्म ज स्तद्वत्सुग्रीवो जांबवानपि तस्मिन्काले शरैर्व्याप्ता न किंचित्प्रतिपेदिरे. ॥६४१॥बिभीषणः सा य कार्तान् यूथपानब्रवीत्स तान्, ‘ विषादस्य न कालोऽयं मा भैष्ट कुशली प्रभुः. ’ ॥६४२॥मरुत्पुत्रोऽथ रा त्रौ तन्मानयित्वास्त्रमुत्थितः तमाह यो यः सप्राणस्तं तमाश्वासयावहे. ॥६४३॥उल्काहस्तौ स म र्थौ तौ रणशीर्षे विचेरतुः ददृशाते सप्तषष्टिकोटिकीशोत्तमान् हतान्. ॥६४४॥युक्तं स्वभाव ज र या जांबवंतं शरार्दितम् दृष्ट्वा बिभीषणोऽपृच्छत्कच्चित्त्वं तात जीवसि ? ’ ॥६४५॥ब्रह्मणस्तन य स्तं स कृच्छ्रादुत्तरमब्रवीत्, ‘ त्वां स्वरेणाभिजानामि न पश्यामि बिभीषण ! ॥६४६॥तात ! प्राणानां ज नेयः कच्चिद्धारयते रणे ? ’ इति श्रुत्वा जांबवंतमब्रवीत्स बिभीषणः, ॥६४७॥‘ आर्य ! धर्मन य ज्ञस्त्वमतिक्रम्य रघूत्तमौ सुग्रीवमंगदं चापि कस्मात्पृच्छसि मारुतिम् ? ॥६४८॥न तथा वान रा धीशे नांगदे नापि राघवे आर्य ! संदर्शितः स्नेहो यथा वायुसुते परः. ’ ॥६४९॥तमब्रवीत्स म तिमान्, ‘ हतमप्यहतं बलम् अस्मिन् जीवत्यन्यथा तु जीवंतोऽपि मृता वयम्. ’ ॥६५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP