संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|युद्धकाण्डम्| काव्य १०१ ते १५० युद्धकाण्डम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०५० काव्य १०५१ ते १११८ युद्धकाण्डम् - काव्य १०१ ते १५० युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य १०१ ते १५० Translation - भाषांतर ततः प्रहस्तो ‘ ज गति देवादिभ्यो न नो भयम्. ’ इत्यब्रवीद्भृशं मत्तो, बिभीषण उवाच तम्. ॥१०१॥‘ कर्तुं पराज य स्तस्य रामस्य न मया त्वया कुंभकर्णेन वा शक्यो राज्ञा वापि च सर्वथा. ॥१०२॥राममुक्ताः श रा घोरा न प्रविष्टास्तनौ तव तेन प्रहस्त ! पुरतो रावणस्य विकत्थसे. ॥१०३॥अयं राजा तु म हता व्यसनेनांतहेतुना अन्वास्यते पराभूतो भवद्भिरहितैर्जडैः. ॥१०४॥रक्ष्यः सुहृद्भिः श्री मांस्तु निगृह्यापि कचग्रहात् यथा भीमबलैर्भूतैर्गृहीतो हितकारिभिः ’ ॥१०५॥द्म्द्रजित्तं प रा नर्थशांतिकामं पितुर्हितम् गर्हयामास दुर्वृत्तो सद्वृत्तं सदसि स्फुटम्. ॥१०६॥‘ त्वमत्र वंशे म हिते भीरुरल्पबलोऽबुधः भीरो ! भीषयसे किं न पिता मे रत्नभुक् प्रभुः. ॥१०७॥जितो जयंत ज नको मया वज्रधरो रणे क्क वयं वीश्वजेतारं क्क प्लवंगसखो नरः ? ’ ॥१०८॥तमाबभाषे य क्षेंद्रशीलः साधुर्बिभीषणः मंत्रे बालस्त्वमानीतो येन वध्यः स दुर्मतिः. ॥१०९॥इंद्रजित्त्वं न रा ज्ञोऽस्य हितः पुत्रोऽस्यारिर्ध्रुवम् निवारयसि न प्रपतं रामान्नाशं सुदुर्मते ! ॥११०॥अविवेकी त्व म ल्पज्ञस्तीक्ष्णो वध्योऽसि बालिशः रामलक्ष्मणयोर्बाल ! वज्रकोट्यधिकाः शराः. ’ ॥१११॥उक्तवंतं नि ज हितं शुद्धभावं बिभीषणम् अब्रवीत्परुषं वाक्यं रावणः कालचोदितः ॥११२॥‘ ज्ञातीनां ज्ञात य स्तुष्टा भवंति व्यसने सदा वसेत्सहाहिना, नैव ज्ञातिना शत्रुसेविना. ॥११३॥दले सरसि ज स्यांबुबिंदुः श्लेषं न गच्छति तथेषदप्यनार्ये हि सौहृदं सर्वथा जने. ॥११४॥मम भाग्योद य स्ते न प्रियो ज्ञातिरसि स्फुटम् विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम्. ’ ॥११५॥एवं वक्ता प रा सुः स मुहूर्तेऽस्मिन् भवेत्परः कृतघ्न ! त्यक्तमर्याद ! त्वां तु धिक् कुलपांसन !. ’ ॥११६॥एवमुक्तः स म तिमान् परुषं वाक्यमुच्चकैः न्यायवादी गदापाणिरुत्पपातासनात् द्रुतम्. ॥११७॥सार्धं चतुर्भिः श्री मान् स्वैः सचिवैर्नभसि स्थितः अब्रवीद्रावणं क्रुद्धः सभायामवमानितः, ॥११८॥‘ यथेष्टं ब्रूहि रा जन्मां ज्येष्ठः पितृसमोऽसि मे परुषं न क्षमाम्युक्तं न त्वं धर्मपथे स्थितः. ॥११९॥हितकामेन म हितं वाक्यमुक्तं दशानन ! न गृह्णंत्यकृतात्मानः कालस्य वशमागताः. ॥१२०॥सुलभास्ते ह्य ज स्रं ये पुरुषाः प्रियवादिनः अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः. ॥१२१॥तन्मर्षयतु य च्चोक्तं गुरुत्वाद्दितमिच्छता आत्मानं सर्वथा रक्षपुरीं चेमां सराक्षसाम्. ॥१२२॥स्वस्ति तेऽस्तु सु रा राते ! सुखी भव मया विना त्वामापृच्छय गमिष्यामि धर्मन्यायौ मतौ मम. ’ ॥१२३॥तमेवमुक्त्वा म तिमान् यत्र रामः सलक्ष्मणः तं देशमागतो व्योम्नि चतुर्भिः सचिवैः सह. ॥१२४॥दृष्ट्वा तं व्योम्नि ज गतीधराभं रावणानुजम् सुग्रीवस्याज्ञया हंतुमुत्पेतुः कपयो रुषा. ॥१२५॥स महात्मा वि य द्वर्ती सुग्रीवं तांश्च वानरान् उवाच, राक्षसपतेरनुजोऽहं बिभीषणः, ॥१२६॥जनस्थानाद्रा ज कन्या जानकी मायया हृता दशकंठेन सा रुद्धा शुद्धाचारा प्रभुप्रिया. ॥१२७॥स मया सम य ज्ञेन प्रार्थितो तद्धितार्थिना साधु निर्यात्यतां सीता रामायेति पुनःपुनः. ॥१२८॥हितं वचो न रा ज्ञा मे गृहीतं परुषं बहुप्रोक्तं ततस्तं त्यक्त्वाहं रामं शरणमागतः. ॥१२९॥शरण्याय स म र्थाय राघवाय महात्मने निवेदयत मां क्षिप्रं बिभीषणमुपस्थितम्. ’ ॥१३०॥स्वयं कपींद्रः श्री राममुवाच, ‘ रघुनंदन ! रावणस्यानुजः साक्षादागतोऽत्र बिभीशणः. ॥१३१॥निवेदयत रा माय क्षिप्रं मां शरणागतम् इति वक्ति महाराज ! चतुर्भिः सचिवैः सह. ॥१३२॥अहं तु वध्यं म न्ये तं, शत्रुपक्षे न विश्वसेत्. ’ पप्रच्छ रामः सर्वांस्ता‘न्कथं कार्यमि’ति प्रभुः. ॥१३३॥तत्र तारात्म ज स्तद्वदृषभो जांबवानपि अन्ये च शंक्य इत्याहुः परीक्ष्यश्च विशेषतः. ॥१३४॥अंजनातन य स्तज्ञ्ज्ञः प्रोवाच प्रांजलिस्तदा, ‘ दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि. ॥१३५॥शरणं त्वां ध रा धीश ! शरण्यं भक्तवत्सलम् बिभीषणोऽयं संप्राप्त इति मन्ये रघूत्तम ! ॥१३६॥न लक्ष्यतेऽस्य म तिमन् ! ब्रुवतो दुष्टभावता प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः. ॥१३७॥ निःशंकोऽयं रा ज वर्य ! न शठः परिसर्पति न चास्य दुष्टा वागस्ति तस्मान्मे नास्ति संशयः. ॥१३८॥ उद्योगं ते न य ज्ञस्य दृष्ट्वा दुष्टं च रावणम् वालिनं च हतं श्रुत्वा सुग्रीवं चाभिषेचितम्. ॥१३९॥राज्यकामस्त्रि ज गतां नाथायं रावणानुजः बुद्धिपूर्वमिह प्राप्तः कार्यस्ते तस्य संग्रहः. ॥१४०॥यथाशक्त्याश य स्तस्य ज्ञात्वोक्तोऽयं मया प्रभो ! प्रमाणं त्वं हि शेषस्य श्रुत्वा बुद्धिमतां वर ! ’ ॥१४१॥प्रसन्नात्माथ राजेंद्रस्तच्छ्रुत्वा मारुतेर्वचः प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम्. ॥१४२॥ विवक्षितं म म श्राव्यं भवद्भिः श्रेयसि स्थितैः मित्रभावेन संप्राप्तं न त्यजेयं कथंचन. ॥१४३॥मामागतो यः श्री मान्त्स सत्कार्यो बंधुवन्मया दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम्. ’ ॥१४४॥सुग्रीवः पुन रा हा‘र्य ! व्यसनं प्राप्तमग्रजम् यस्त्यक्तवान् कृतघ्नोऽयंण कमन्यं न परित्यजेत्. ’ ॥१४५॥तमुवाचासी म सत्त्वः प्रभु कारुण्यसागरः व्यसनेषु पहर्तारो ज्ञातयोऽन्ये च शत्रवः. ॥१४६॥सुप्रसिद्धं रा ज वृत्तमिदं लक्ष्मण ! लौकिकम् पापाद्राज्ञो भयं प्राप्तस्तस्मादयमिहागतः. ॥१४७॥मम त्वस्माद्भ य प्राप्तिर्नास्ति ज्ञातेर्हि साध्वसम् राज्यकामः स्वोपजीव्यविरोधं न करिष्यति. ॥१४८॥संत्येव चतु रा लोके सर्वत्र प्लवगेश्वर ! तस्माद्बिभीषणो ग्राह्यः प्राप्तो भ्रातुर्महद्भयम्. ॥१४९॥न भ्रातरः स म स्तास्तु भवंति भरतोपमाः पुत्रा वा मद्विधास्तात ! सुहृदो वा भवद्विधाः. ’ ॥१५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP