उत्तरभागः - अध्यायः १२

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


रुद्रकोपानलाज्जातो यतो भण्डो महाबलः ।
तस्माद्रौद्रस्वभावो हि दानवश्चाभवत्ततः ॥१॥

अथागच्छन्महातेजाः शुक्रो दैत्यपुरोहितः ।
समायाताश्च शतशो दैतेयाः सुमहाबलाः ॥२॥

अथाहूय मयं भण्डो दैत्यवंश्यादिशिल्पिनम् ।
नियुक्तो भृगुपुत्रेण निजगादार्थवद्वचः ॥३॥

यत्र स्थित्वा तु दैत्येन्द्रैस्त्रैलोक्यं शासितं पुरा ।
तद्गत्वा शोणितपुरं कुरुष्व त्वं यथापुरम् ॥४॥

तच्छ्रुत्वा वचनं शिल्पी स गत्वाथ पुरं महत् ।
चक्रेऽमरपुरप्रख्यं मनसैवेक्षणेन तु ॥५॥

अथाभिषिक्तः शुक्रेण दैतेयैश्च महाबलैः ।
शुशभे परया लक्ष्म्या तेजसा च समन्वितः ॥६॥

हिरण्याय तु यद्दत्तं किरीटं ब्रह्मणा पुरा ।
सजीवमविनाश्यं च दैत्येन्द्रैरपि भूषितम् ।
दधौ भृगुसुतोत्सृष्टं भण्डो बालार्कसन्निभम् ॥७॥

चामरे चन्द्रसंकाशे सजीवे ब्रह्म निर्मिते ।
न रोगो न च दुःखानि संदधौ यन्निषेवणात् ॥८॥

तस्यातपत्रं प्रददौ ब्रह्मणैव पुरा कृतम् ।
यस्य च्छायानिषण्णास्तु बाध्यन्ते नास्त्रकोटिभिः ॥९॥

धनुश्च विजयं नाम शङ्खं च रिपुघातिनम् ।
अन्यान्यपि महार्हाणि भूषणानि प्रदत्तवान् ॥१०॥

तस्य सिंहासनं प्रादादक्षय्यं सूर्यसन्निभम् ।
ततः सिंहासनासीनः सर्वाभरणभूषितः ।
बभूवातीव तेजस्वी रत्नमुत्तेजितं यथा ॥११॥

बभूवुरथ दैतेयास्तयाष्टौ तु महाबलाः ।
इन्द्रशत्रुरमित्रघ्नो विद्युन्माली विभीषणः ।
उग्रकर्मोग्रधन्वा च विजयश्रुति पारगः ॥१२॥

सुमोहिनी कुमुदिनी चित्राङ्गी सुंदरी तथा ।
चतस्रो वनितास्तस्य बभूवुः प्रियदर्शनाः ॥१३॥

तमसेवन्त कालज्ञा देवाः सर्वे सवासवाः ।
स्यन्दनास्तुरगा नागाः पादाताश्च सहस्रशः ॥१४॥

संबभूवुर्महाकाया महान्तो जितकाशिनः ।
बभूवुर्दानवाः सर्वे भृगुपुत्रमतानुगाः ॥१५॥

अर्चयन्तो महादेवमास्थिताः शिवशासने ।
बभूवुर्दानवास्तत्र पुत्रपौत्रधनान्विताः ।
गृहेगृहे च यज्ञाश्च संबभूवुः समन्ततः ॥१६॥

ऋचो यजूंषि सामानि मीमांसान्यायकादयः ।
प्रवर्तन्ते स्म दैत्यानां भूयः प्रतिगृहं तदा ॥१७॥

यथाश्रमेषु मुख्येषु मुनीनां च द्विजन्मनाम् ।
तथा यज्ञेषु दैत्यानां बुभुजुर्हव्यभोजिनः ॥१८॥

एवं कृतवतोऽप्यस्य भण्डस्य जितकाशिनः ।
षष्टिवर्षसहस्राणि व्यतीतानि क्षणार्धवत् ॥१९॥

वर्धमानमथो दैत्यं तपसा च बलेन च ।
हीयमानबलं चेन्द्रं संप्रेक्ष्य कमलापतिः ॥२०॥

ससर्ज सहसा काञ्चिन्मायां लोकविमोहिनीम् ।
तामुवाच ततो मायां देवदेवो जनार्दनः ॥२१॥

त्वं हि सर्वाणि भूतानि मोहयन्ती निजौजसा ।
विचरस्व यथाकामं त्वां न ज्ञास्यति कश्चन ॥२२॥

त्वं तु शीघ्रमितो गत्वा भण्डं दैतेयनायकम् ।
मोहयित्वाचिरेणैव विषयानुपभोक्ष्यसे ॥२३॥

एवं लब्ध्वा वरं माया तं प्रणम्य जनार्दनम् ।
ययाचेऽप्सरसो मुख्याः सहायार्थं तु काश्चन ॥२४॥

तया संप्रार्थितो भूयः प्रेषयामास काश्चन ।
ताभिर्विश्वाचिमुख्याभिः सहिता सा मृगेक्षणा ।
प्रययौ मानसस्याग्यं तटमुज्ज्वलभूरुहम् ॥२५॥

यत्र क्रीडति दैत्येन्द्रो निजनारीभिरन्वितः ।
तत्र सा मृगशावाक्षी मूले चंपकशाखिनः ।
निवासमकरोद्रम्यं गायन्ती मधुरस्वरम् ॥२६॥

अथागतस्तु दैत्येन्द्रो बलिभिर्भन्त्रिभिर्वृतः ।
श्रुत्वा तु वीणानिनदं ददर्श च वराङ्गनाम् ॥२७॥

तां दृष्ट्वा चारुसर्वाङ्गीं विद्युल्लेखामिवापराम् ।
मायामये महागर्ते पतितो मदनाभिधे ॥२८॥

अथास्य मन्त्रिणोऽभूवन्त्दृदये स्मरतापि ताः ॥२९॥

तेन दैतेयनाथेन चिरं संप्रर्थिता सती ।
तैश्च संप्रर्थितास्ताश्च प्रतिशूश्रुवुरञ्जसा ॥३०॥

यास्त्वलभ्या महायज्ञैरश्वमेधादिकैरपि ।
ता लब्ध्वा मोहिनीमुख्या निर्वृतिं परमां ययुः ॥३१॥

विसस्मरुस्तदा वेदांस्तथा देवमुमापतिम् ।
विजहुस्ते तथा यज्ञक्रियाश्चान्याः शुभावहाः ॥३२॥

अवमानहतश्चासीत्तेषामपि पुरोहितः ।
मुहूर्त्तमिव तेषां तु ययावब्दायुतं तदा ॥३३॥

मोहितेष्वथ दैत्येषु सर्वे देवाः सवासवाः ।
विमुक्तोपद्रवा ब्रह्मन्नामोदं परमं ययुः ॥३४॥

कदाचिदथ देवेन्द्रं वीक्ष्य सिंहासने स्थितम् ।
सर्वदेवैः परिवृतं नारदो मुनिराययौ ॥३५॥

प्रणम्य मुनिशार्दूलं ज्वलन्तमिव पावकम् ।
कृताञ्जलिपुटो भूत्वा देवेशो वाक्यमब्रवीत् ॥३६॥

भगवन्सर्वधर्मज्ञ परापरविदां वर ।
तत्रैव गमनं ते स्याद्यं धन्यं कर्तुमिच्छसि ॥३७॥

भविष्यच्छोभनाकारं तवागमनकारणम् ।
त्वद्वाक्यामृतमाकर्ण्य श्रवणानन्दनिर्भरम् ।
अशेषदुःखान्युत्तीर्य कृतार्थः स्यां मुनीश्वर ॥३८॥

नारद उवाच
अथ संमोहितो भण्डो दैत्येन्द्रो विष्णुमायया ।
तया विमुक्तो लोकांस्त्रीन्दहेताग्निरिवापरः ॥३९॥

अधिकस्तव तेजोभिरस्त्रैर्मायाबलेन च ।
तस्य तेजोऽपहारस्तु कर्तव्योऽतिबलस्य तु ॥४०॥

विनाराधनतो देव्याः पराशक्तेस्तु वासव ।
अशक्योऽन्येन तपसा कल्पकोटिशतैरपि ॥४१॥

पुरैवोदयतः शत्रोराराधयत बालिशाः ।
आराधिता भगवती सा वः श्रेयो विधास्यति ॥४२॥

एवं संबोधितस्तेन शक्रो देवगणेश्वरः ।
तं मुनिं पूजयामास सर्वदेवैः समन्वितः ।
तपसे कृतसन्नाहो ययौ हैमवतं तटम् ॥४३॥

तत्र भागीरथीतीरे सर्वर्तुकुसुमोज्ज्वले ।
पराशक्तेर्महापूजां चक्रेऽखिलसुरैः समम् ।
इन्द्रप्रस्थमभून्नाम्रा तदाद्यखिलसिद्धिदम् ॥४४॥

ब्रह्मात्मजोपदिष्टेन कुर्वतां विधिना पराम् ।
देव्यास्तु महतीं पूजां जपध्यानरतात्मनाम् ॥४५॥

उग्रे तपसि संस्थानामनन्या र्पितचेतसाम् ।
दशवर्षसहस्राणि दशाहानि च संययुः ॥४६॥

मोहितानथ तान्दृष्ट्वा भृगुपुत्रो महामतिः ।
भण्डासुरं समभ्येत्य निजगाद पुरोहितः ॥४७॥

त्वामेवाश्रित्य राचैन्द्र सदा दानवसत्तमाः ।
निर्भयास्त्रिषु लोकेषु चरन्तीच्छविहारिणः ॥४८॥

जातिमात्रं हि भवतो हन्ति सर्वान्सदा हरिः ।
तेनैव निर्मिता माया यया संमोहितो भवान् ॥४९॥

भवन्तं मोहितं दृष्ट्वा रन्ध्रान्वेषण तत्परः ।
भवतां विजयार्थाय करोतीन्द्रो महत्तपः ॥५०॥

यदि तुष्टा जगद्धात्री तस्यैव विजयो भवेत् ।
इमां मायामयीं त्यक्त्वा मन्त्रिभिः सहितो भवान् ।
गत्वा हैमवतं शैलं परेषां विघ्नमाचर ॥५१॥

एवमुक्तस्तु गुरुणा हित्वा पर्यङ्कमुत्तमम् ।
मन्त्रिवृद्धानु पाहूय यथावृत्तान्तमाह सः ॥५२॥

तच्छ्रुत्वा नृपतिं प्राह श्रुतवर्मा विमृश्य च ।
षष्टिवर्षसहस्राणां राज्यं तव शिवार्पितम् ॥५३॥

तस्मादप्यधिकं वीर गतमासीदनेकशः ।
अशक्यप्रतिकार्योऽयं यः कालशिवचोदितः ॥५४॥

अशक्यप्रतिकार्योऽयं तदभ्यर्चनतो विना ।
काले तु भोगः कर्त्तव्यो दुःखस्य च सुखस्य वा ॥५५॥

अथाह भीमकर्माख्यो नोपेक्ष्योऽरिर्यथाबलम् ।
क्रियाविघ्ने कृतेऽस्माभिर्विजयस्ते भविष्यति ॥५६॥

तव युद्धे महाराज परार्थं बलहारिणी ।
दत्ता विद्या शिवेनैव तस्मात्ते विजयः सदा ॥५७॥

अनुमेने च तद्वाक्यं भण्डो दानवनायकः ।
निर्गत्य सहसेनाभिर्ययौ हैमवतं तटम् ॥५८॥

तपोविघ्नकरान्दृष्ट्वा दानवाञ्जगदंबिका ।
अलङ्घ्यमकरोदग्रे महाप्राकारमुज्ज्वलम् ॥५९॥

तं दृष्ट्वा दानवेन्द्रोऽपि किमेतदिति विस्मितः ।
संक्रुद्धो दानवास्त्रेण बभञ्जातिबलेन तु ॥६०॥

पुनरेव तदग्रेऽभूदलङ्घ्यः सर्वदानवैः ।
वायव्यास्त्रेण तं धीरो बभञ्ज च ननाद च ॥६१॥

पौनः पुन्येन तद्भस्म प्राभूत्पुनरुपस्थितम् ।
एतद्दृष्ट्वा तु दैत्येन्द्रो विषण्मः स्वपुरं ययौ ॥६२॥

तां च दृष्ट्वा जगद्धात्रीं दृष्ट्वा प्राकारमुज्ज्वलम् ।
भयाद्विव्यथिरे देवा विमुक्तसकलक्रियाः ॥६३॥

तानुवाच ततः शक्रो दैत्येन्द्रोऽयमिहागतः ।
अशक्यः समरे योद्धुमस्माभिरखिलैरपि ॥६४॥

पलायितानामपि नो गतिरन्या न कुत्रचित् ।
कुण्डं योजनविस्तारं सम्यक्कृत्वा तु शोभनम् ॥६५॥

महायागविधानेन प्रणिधाय हुताशनम् ।
यजामः परमां शाक्तिं महामासैर्वयं सुराः ॥६६॥

ब्रह्मभूता भविष्यामो भोक्ष्यामो वा त्रिविष्टपम् ।
एवमुक्तास्तु ते सर्वेदेवाः सेन्द्रपुरोगमाः ॥६७॥

विधिवज्जुहुवुर्मांसान्युत्कृत्योत्कृत्य मन्त्रतः ।
हुतेषु सर्वमांसेषु पादेषु च करेषु च ॥६८॥

होतुमिच्छत्सु देवेषु कलेवरमशेषतः ।
प्रादुर्बभूव परमन्तेजः पुञ्जो ह्यनुत्तमः ॥६९॥

तन्मध्यतः समुदभूच्चक्राकारमनुत्तमम् ।
तन्मध्ये तु महादेवीमुदयार्कसमप्रभाम् ॥७०॥

जगदुज्जीवनकरीं ब्रह्मविष्णुशिवात्मिकाम् ।
सौन्दर्यसारसीमां तामानन्दरससागराम् ॥७१॥

जपाकुसुमसंकाशां दाडिमीकुसुमांबराम् ।
सर्वाभरणसंयुक्तां शृङ्गारैकरसालयाम् ॥७२॥

कृपातरङ्गितापाङ्गनयनालोककौमुदीम् ।
पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम् ॥७३॥

तां विलोक्य महादेवीं देवाः सर्वे सवासवाः ।
प्रणेमुर्मुदितात्मानो भूयोभूयोऽखिलात्मिकम् ॥७४॥

तया विलोकिताः सद्यस्ते सर्वे विगतज्वराः ।
संपूर्णाङ्गा दृढतरा वज्रदेहा महाबलाः ।
तुष्टुवुश्च महादेवीमंबिकामखिलार्थदाम् ॥७५॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने ललिताप्रादुर्भावो नाम द्वादशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP