उत्तरभागः - अध्यायः २७

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अथ नष्टेषु पुत्रेषु शोकानलपरिप्लुतः ।
विललाप स दैत्येन्द्रो मत्वा जातं कुलक्षयम् ॥१॥

हा पुत्रा हा गुणोदारा हा मदेकपरायणाः ।
हा मन्नेत्रसुधापूरा हा मत्कुलविवर्धनाः ॥२॥

हा समस्तसुरश्रेष्ठमदभञ्जनतत्पराः ।
हा समस्तसुरस्त्रीणामन्तर्मोहनमन्मथाः ॥३॥

दिशत प्रीतिवाचं मे ममाङ्के वल्गताधुना ।
किमिदानीमिमं तातमवमुच्य सुखं गताः ॥४॥

युष्मान्विना न शोभन्ते मम राज्यानि पुत्रकाः ।
रिक्तानि मम गेहानि रिक्ता राजसभापि मे ॥५॥

कथमेवं विनिःशेषं हतायूयं दुराशयाः ।
अप्रधृष्यभुजासत्त्वान्भवतो मत्कुलाङ्कुरान् ।
कथमेकपदे दुष्टा वनिता संगरेऽवधीत् ॥६॥

मम नष्टानि सौख्यानि मम नष्टाः कुलस्त्रियः ।
इतः परं कुले क्षीणे साहसानि सुखानि च ॥७॥

भवतः सुकृतैर्लब्ध्वा मम पूर्वजनुःकृतैः ।
नाशोऽयं भवतामद्य जातो नष्टस्ततोऽस्म्यहम् ॥८॥

हा हतोऽस्मि विपन्नोऽस्मि मन्दभाग्योऽस्मि पुत्रकाः ।
इति शोकात्स पर्यस्यन्प्रलपन्मुक्तमूर्धजः ।
मूर्च्छया लुप्तहृदयो निष्पपात नुपासनात् ॥९॥

विशुक्रश्च विषङ्गश्च कुटिलाक्षश्च संसदि ।
भण्डमाश्वासयामासुर्दैवस्य कुटिलक्रमैः ॥१०॥

विशुक्र उवाच
देवकि प्राकृत इव प्राप्तः शोकस्य वश्यताम् ।
लपसि त्वे प्रति सुतान्प्राप्तमृत्यून्महाहवे ॥११॥

धर्मवान्विहितः पन्था वीराणामेष शाश्वतः ।
अशोच्यमाहवे मृत्युं प्राप्नुवन्ति यदर्हितम् ॥१२॥

एतदेव विनाशाय शल्यवद्बाधते मनः ।
यत्स्त्री समागत्य हठान्नि हन्ति सुभटान्रणे ॥१३॥

इत्युक्ते तेन दैत्येन पुत्रशोको व्यमुच्यत ।
भण्डेन चण्डकालाग्निसदृशः क्रोध आदधे ॥१४॥

स कोशात्क्षिप्रमुद्धृत्य खड्गमुग्रं यमोपमम् ।
विस्फारिताक्षियुगलो भृशं जज्वाल तेजसा ॥१५॥

इदानीमेव तां दुष्टां खड्गेनानेन खण्डशः ।
शकलीकृत्य समरे श्रमं प्राप्स्यामि बन्धुभिः ॥१६॥

इति रोषस्खलद्वर्णः श्वसन्निव भुजङ्गमः ।
खड्गं विधुन्वन्नुत्थाय प्रचचाला तिमत्तवत् ॥१७॥

तं निरुध्य च संभ्रान्ताः सर्वे दानवपुङ्गवाः ।
वाचमूचुरतिक्रोधाज्ज्वलन्तो ललितां प्रति ॥१८॥

न तदर्थे त्वया कार्यः स्वामिन्संभ्रम ईदृशः ।
अस्माभिः स्वबलैर्युक्तै रणोत्साहो विधीयते ॥१९॥

भवदाज्ञालवं प्राप्य समस्तभुवनं हठात् ।
विमर्द्दयितुमीशाः स्मः किमु तां मुग्धभामिनीम् ॥२०॥

किं चूषयामः सप्ताब्धीन्क्षोदयामोऽथ वा गिरीन् ।
अधरोत्तरमेवैतत्त्रैलोक्यं करवाम वा ॥२१॥

छिनदाम सुरान्सर्वान्भिनदाम तदालयान् ।
पिन्षाम हरित्पालानाज्ञां देहि महामते ॥२२॥

इत्युदीरित माकर्ण्य महाहङ्कारगर्वितम् ।
उवाच वचनं क्रुद्धः प्रतिघारुणलोचनः ॥२३॥

विशुक्र भवता गत्वा मायान्तार्हितवर्ष्मणा ।
जयविघ्नं महायन्त्रं कर्त्तव्यं कटके द्विषाम् ॥२४॥

इति तस्य वचः श्रुत्वा विशुक्रो रोषरूषितः ।
मायातिरोहितवपुर्जगाम ललिताबलम् ॥२५॥

तस्मिन्प्रयातुमुद्युक्ते सुर्योऽस्तं समुपागतः ।
पर्यस्तकिरणस्तोमपाटलीकृतदिङ्मुखः ॥२६॥

अनुरागवती संध्या प्रयान्तं भानुमालिनम् ।
अनुवव्राज पातालकुञ्जे रन्तुमिवोत्सुका ॥२७॥

वेगात्प्रपततो भानोर्देहसंगात्समुत्थिताः ।
चरमाब्धेरिव पयःकणास्तारा विरेजिरे ॥२८॥

अथाससाद बहुलं तमः कज्जलमेचकम् ।
सार्थं कर्त्तुमिवोद्युक्तं सवर्णस्यासिदुर्धिया ॥२९॥

मायारथं समारूढो गूढशर्वरसंवृतः ।
अदृश्यवपुरापेदे ललिताकटकं खलः ॥३०॥

तत्र गत्वा ज्वलज्ज्वालं वह्निप्राकारमण्डलम् ।
शतयोजनविस्तारामालोकयत्दुर्मतिः ॥३१॥

परितो विभ्रमञ्शालमवकाशमवाप्नुवन् ।
दक्षिणं द्वारमासाद्य निदध्यौ क्षणमुद्धतः ॥३२॥

तत्रापश्यन्महासत्त्वास्सावधाना धृतायुधाः ।
आरूढयानाः सनद्धवर्माणो द्वारदेशतः ॥३३॥

स्तंभिनीप्रमुखाः शक्तीर्विशत्यक्षौहिणीयुताः ।
सर्वदा द्वाररक्षार्थं निर्दिष्टा दण्डनाथया ॥३४॥

विलोक्य विस्मयाविष्टो विचार्य च चिरं तदा ।
शालस्य बहिरेवासौ स्थित्वा यन्त्रं समातनोत् ॥३५॥

गव्यूतिमात्रकायामे तत्समानप्रविस्तरे ।
शिलापट्टे सुमहति प्रालिखद्यन्त्रमुत्तमम् ॥३६॥

अष्टदिक्ष्वष्टशूलेन संहाराक्षरमौलिना ।
अष्टभिर्दैवतैश्चैव युक्तं यन्त्रं समालिखत् ॥३७॥

अलसा कृपणा दीना नितन्द्राच प्रमीलिका ।
क्लीबा च निरहङ्कारा चेत्यष्टौ देवताः स्मृताः ॥३८॥

देवताष्टकमेतश्च शूलाष्टकपुटोपरि ।
नियोज्य लिखितं यन्त्रं मायावी सममन्त्रयत् ॥३९॥

पूजां विधाय मन्त्रस्य बलिभिश्छागलादिभिः ।
तद्यन्त्रं चारिकटके प्राक्षिपत्समरेऽसुरः ॥४०॥

पाकारस्य बहिर्भागे वर्तिना तेन दुर्धिया ।
क्षिप्तमुल्लङ्घ्य च रणे पपात कटकान्तरे ॥४१॥

तद्यन्त्रस्य विकारेण कटकस्थास्तुशक्तयः ।
विमुक्तशस्त्रसंन्यासमास्थिता दीनमानसाः ॥४२॥

किं हतैरसुरैः कार्यं शस्त्राशस्त्रिक्रमैरलम् ।
जयसिद्धफलं किं वा प्राणिहिंसा च पापदा ॥४३॥

अमराणां कृते कोऽयं किमस्माकं भविष्यति ।
वृथा कलकलं कृत्वा न फलं युद्धकर्मणा ॥४४॥

का स्वामिनी महाराज्ञी का वासौ दण्डनायिका ।
का वा सा मन्त्रिणी श्यामा भृत्यत्वं नोऽथ कीदृशम् ॥४५॥

इह सर्वाभिरस्माभिर्भृत्यभूताभिरेकिका ।
वनिता स्वामिनीकृत्ये किं फलं मोक्ष्यते परम् ॥४६॥

परेषां मर्मभिदुरैरायुधैर्न प्रयोजनम् ।
युद्धं शाम्यतु चास्माकं देहशस्त्रक्षतिप्रदम् ॥४७॥

युद्धे च मरणं भावि वृथा स्युर्जीवितानि नः ।
युद्धे मृत्युर्भवेदेव इति तत्र प्रमैव का ॥४८॥

उत्साहेन फलं नास्ति निद्रैवैका सुखावहा ।
आलस्यसदृशं नास्ति चित्तविश्रान्तिदायकम् ॥४९॥

एतादृशीश्च नो ज्ञात्वा सा राज्ञी किं करिष्यति ।
तस्या राज्ञीत्वमपि नः समवायेन कल्पितम् ॥५०॥

एवं चोपेक्षितास्माभिः सा विनष्टबला भवेत् ।
नष्ट सत्त्वा च सा राज्ञी कान्नः शिक्षां करिष्यति ॥५१॥

एवमेव रणारंभं विमुच्य विधुतायुधाः ।
शक्तयो निद्रया द्वारे घूर्णमाना इवाभवन् ॥५२॥

सर्वत्र मान्द्यं कार्येषु महदालस्यमागतम् ।
शिथिलं चाभवत्सर्वं शक्तीनां कटकं महत् ॥५३॥

जयविघ्नं महायन्त्रमिति कृत्वा स दानवः ॥५४॥

निर्विद्य तत्प्रभावेण कटकं प्रमिमन्थिषुः ।
द्वितीययुद्धदिवसस्यार्धरात्रे गते सति ॥५५॥

निस्मृत्य नगराद्भूयस्त्रिंशदक्षौहिणीवृतः ।
आजगाम पुनर्दैत्यो विशुक्रः कटकं द्विषाम् ॥५६॥

अश्रूयन्त ततस्तस्य रणनिःसाणनिस्वनाः ।
तथापि ता निरुद्योगाः शक्तयः कटकेऽभवन् ॥५७॥

तदा महानुभावत्वाद्विकारैर्विघ्नयन्त्रजैः ।
अस्पृष्टे मन्त्रिणीदण्डनाथे चिन्तामवा पतुः ॥५८॥

अहो बत महत्कष्टमिदमापतितं भयम् ।
कस्य वाथ विकारेण सैनिका निर्गतोद्यमाः ॥५९॥

निरस्तायुधसंरंभा निद्रातन्द्राविघूर्णिताः ।
न मानयन्ति वाक्यानि रार्चयन्ति महेश्वरीम् ।
औदासीन्यं वितन्वन्ति शक्तयो निस्पृहा इमाः ॥६०॥

इति ते मन्त्रिणीदण्डनाथे चिन्तापरायणे ।
चक्रस्यन्दनमारूढे महाराज्ञीं समूचतुः ॥६१॥

मन्त्रिण्युवाच
देवि सक्य विकारोऽयं शक्तयो विगतोद्यमाः ।
न शृण्वन्ति महाराज्ञि तवाज्ञां विश्वपालिताम् ॥६२॥

अन्योन्यं च विरक्तास्ताः पराच्यः सर्वकर्मसु ।
निद्रातन्द्रामुकुलिता दुर्वाक्यानि वितन्वते ॥६३॥

का दण्डिनी मन्त्रिणी का महाराज्ञीति का पुनः ।
युद्धं च कीदृशमिति क्षेपं भूरि वितन्वते ॥६४॥

अस्मिन्नेवान्तरे शत्रुरागच्छति महाबलः ।
उद्दण्डभेरीनिस्वानैर्विभिन्दन्निव रोदसी ॥६५॥

अत्र यत्प्राप्तरूपं तन्महाराज्ञि प्रपद्यताम् ।
इत्युक्त्वा सह दण्डिन्या मन्त्रिणी प्रणतिं व्यधात् ॥६६॥

ततः सा ललिता देवी कामेश्वरमुखं प्रति ।
दत्तदृष्टडिः समहसदतिरक्तरदावलिः ॥६७॥

तस्याः स्मितप्रभापुञ्जे कुञ्जराकृतिमान्मुखे ।
कटक्रोडगलद्दानः कश्चिदेव व्यजृंभत ॥६८॥

जपापटलपाटल्यो बालचन्द्रवपुर्धरः ।
बीजपूरगदामिक्षुचापं शूलं सुदर्शनम् ॥६९॥

अब्जपाशोत्पलव्रीहिमञ्जरीवरदां कुशान् ।
रत्नकुंभं च दशभिः स्वकैर्हस्तैः समुद्वहन् ॥७०॥

तुन्दिलश्चन्द्रचूडालो मन्द्रबृंहितनिस्वनः ।
सिद्धिलक्ष्मीसमाश्लिष्टः प्रणनाम महेश्वरीम् ॥७१॥

तया कृताशीः स महान्गणनाथो गजाननः ।
जयविघ्नमहायन्त्रंभेत्तुं वेगाद्विनिर्ययौ ॥७२॥

अन्तरेवहि शालस्य भ्रमद्दन्तावलाननः ।
निभृतं कुत्रचिल्लग्नं जयविघ्नं व्यलोकयत् ॥७३॥

स देवो घोरनिर्घातैर्दुःसहैर्दन्तपातनैः ।
क्षणाच्चूर्मीकरोति स्म जयविघ्नमहाशिलाम् ॥७४॥

तत्र स्थिताभिर्दुष्टाभिर्देवताभिः सहैव सः ।
परागशेषतां नीत्वा तद्यन्त्रं प्रक्षिपद्दिवि ॥७५॥

ततः किलकिलारावं कृत्वाऽलस्यविवर्जिताः ।
उद्यताः समरं कर्तुं शक्तयः शस्त्रपाणयः ॥७६॥

स देतिवदनः कण्ठकलिताकुण्ठनिस्वनः ।
जययन्त्रं हि तत्सृष्टं तथा रात्रौ व्यनाशयत् ॥७७॥

इमं वृत्तान्तमाकर्ण्य भण्डः स क्षोभमाययौ ।
ससर्जय बहूनात्मरूपान्दन्तावलाननान् ॥७८॥

ते कटक्रोडविगलन्मदसौरभचञ्चलैः ।
चञ्चरीककुलैरग्रे गीयमानमहोदयाः ॥७९॥

स्फुरद्दाडिमकिञ्जल्कविक्षेपकररोचिषः ।
सदा रत्नाकरानेकहेलया पातुमुद्यताः ॥८०॥

आमोदप्रमुखा ऋद्धिमुख्यशक्तिनिषेविताः ।
आमोदश्च प्रमोदश्च मुमुखो दुर्मुखस्तथा ॥८१॥

अरिघ्नो विघ्नकर्त्ता च षडेते विघ्ननायकाः ।
ते सप्तकोटिसंख्यानां हेरंबाणामधीश्वराः ॥८२॥

ते पुरश्चलितास्तस्य महागणपते रणे ।
अग्निप्राकारवलयाद्विनिर्गत्य गजाननाः ॥८३॥

क्रोधहुङ्कारतुमुलाः प्रत्य पद्यन्त दानवान् ।
पुनः प्रचण्डफूत्कारबधिरीकृतविष्टपाः ॥८४॥

पपात दैत्यसैन्येषु गणचक्रचमूगणः ।
अच्छिदन्निशितैर्बाणैर्गणनाथः स दानवान् ॥८५॥

गणनाथेन तस्याभूद्विशुक्रस्य महौजसः ।
युद्धमुद्धतहुङ्कारभिन्नकार्मुकनिःस्वनम् ॥८६॥

भ्रुकुटी कुटिले चक्रे दष्टोष्ठमतिपाटलम् ।
विशुक्रो युधि बिभ्राणः समयुध्यत तेन सः ॥८७॥

शस्त्राघट्टननिस्वानैर्हुंकारैश्च सुरद्विषाम् ।
दैत्यसप्तिखुरक्रीडत्कुद्दालीकूटनिस्वनैः ॥८८॥

फेत्कारैश्च गचेन्द्राणां भयेनाक्रन्दनैरपि ।
हेषया च हयश्रेण्या रथचक्रस्वनैरपि ॥८९॥

धनुषां गुणनिस्स्वानैश्चक्रचीत्करणैरपि ॥९०॥

शरसात्कारघोषैश्च वीरभाषाकदंबकैः ।
अट्टहासैर्महेन्द्राणां सिंहनादैश्चभूरिशः ॥९१॥

क्षुभ्यद्दिगन्तरं तत्र ववृधे युद्धमुद्धतम् ।
त्रिंशदक्षौहिणी सेना विशुक्रस्य दुरात्मनः ॥९२॥

प्रत्येकं योधया मासुर्गणनाथा महारथाः ।
दन्तैर्मर्म विभिन्दन्तो विष्टंयतश्च शुण्डया ॥९३॥

क्रोधयन्तः कर्णतालैः पुष्कलावर्त्तकोपमैः ।
नासाश्वासैश्च परुषैर्विक्षिपन्तः पताकिनीम् ॥९४॥

उरोभिर्मर्दयन्तश्च शैलवप्रसमप्रभैः ।
पिंषन्तश्च पदाघातैः पीनैर्घ्नन्तस्तथोदरैः ॥९५॥

विभिन्दन्तश्च शूलेन कृत्तन्तश्चक्रपातनैः ।
शङ्खस्वनेन महता त्रासयन्तो वरूथिनीम् ॥९६॥

गणनाथमुखोद्भूता गजवक्राः सहस्रशः ।
धूलीशेषं समस्तं तत्सैन्यं चक्रुर्महोद्यताः ॥९७॥

अथ क्रोधसमाविष्टो निजसैन्यपुरोगमः ।
प्रेषयामास देवस्य गजासुर मसौ पुनः ॥९८॥

प्रचण्डसिंहनादेन गजदैत्येन दुर्धिया ।
सप्ताक्षौहिणियुक्तेन युयुधे स गणेश्वरः ॥९९॥

हीयमानं समालोक्य गजासुरभुजाबलम् ।
वर्धमानं च तद्वीर्यं विशुक्रः प्रपलायितः ॥१००॥

स एक एव वीरेद्रः प्रचलन्नाखुवाहनः ।
सप्ताक्षौहिणिकायुक्तं गजासुरममर्दयत् ॥१०१॥

गजासुरे च निहते विशुक्रे प्रपलायिते ।
ललितान्तिकमापेदे महागमपतिर्मृधात् ॥१०२॥

कालरात्रिश्च दैत्यानां सा रात्रिर्विरतिं गता ।
ललिता चाति मुदिता बभूवास्य पराक्रमैः ॥१०३॥

विततार महाराज्ञीप्रीयमाणा गणेशितुः ।
सर्वदैवतपूजायाः पूर्वपूज्यत्वमुत्तमम् ॥१०४॥

इति श्रीब्रह्माण्डपुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने गणनाथपराक्रमो नाम सप्तविंशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP