उत्तरभागः - अध्यायः १

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अथोत्तरभागप्रारमभः
श्रुत्वा पादं तृतीयं तु क्रान्तं सूतेन धीमता ।
ततश्चतुर्थं पप्रच्छुः पादं वै ऋषिसत्तमाः ॥१॥

पादः क्रान्तस्तृतीयोऽयमनुषङ्गेण नस्त्वया ।
चतुर्थं विस्तरात्पादं संहारं पारिकीर्त्तय ॥२॥

मन्वन्तराणि सर्वाणि पूर्वाण्येवापरैः सह ।
सप्तर्षीणामथैतेषां सांप्रतस्यान्तरे मनोः ॥३॥

विस्तरावयवं चैव निसर्गस्य महात्मनः ।
विस्तरेणानुपूर्व्या च सर्वमेव ब्रवीहि नः ॥४॥

सूत उवाच
भवतां कथयिष्यामि सर्वमेतद्यथातथम् ।
पादं त्विमं ससंहारं चतुर्थं मुनिसत्तमाः ॥५॥

मनोर्वैवस्वतस्येमं सांप्रतस्य महात्मंनः ।
विस्तरेणानुपूर्व्या च निसर्गं शृणुत द्विजाः ॥६॥

मन्वन्तराणां संक्षेपं भविष्यैः सह सप्तभिः ।
प्रलयं चैव लोकानां ब्रुवतो मे निबोधत ॥७॥

एतान्युक्तानि वै सम्यक्सप्तसप्तसु वै प्रजाः ।
मन्वन्तराणि संक्षेपाच्छृणुता नागतानि मे ॥८॥

सावर्णस्य प्रवक्ष्यामि मनोर्वैवस्वतस्य ह ।
भविष्यस्य भविष्यं तु समासात्तन्निबोधत ॥९॥

अनागताश्च सप्तैव स्मृतास्त्विह महर्षयः ।
कौशिको गालवश्चैव जामदग्न्यश्च भार्गवः ॥१०॥

द्वैपायनो वशिष्टश्च कृपः शारद्वतस्तथा ।
आत्रेयो दीप्तिमांश्चैव ऋषयशृङ्गस्तु काश्यपः ॥११॥

भरद्वाजस्तथा द्रौणिरश्वत्थामा महायशाः ।
एते सप्त महात्मानो भविष्याः परमर्षयः ।
सुतपाश्चामिताभाश्च सुखाश्चैव गणास्त्रयः ॥१२॥

तेषां गणस्तु देवानामेकैको विंशकः स्मृतः ।
नामतस्तु प्रवक्ष्यामि निबोधध्वं समाहिताः ॥१३॥

ऋतुस्तपश्च शुक्रश्च कृतिर्नेमिः प्रभाकरः ।
प्रभासो मासकृद्धर्मस्तेजोरश्मिः क्रतुर्विराट् ॥१४॥

अर्चिष्मान् द्योतनो भानुर्यशः कीर्त्तिर्बुधो धृतिः ॥१५॥

विंशतिः सुतपा ह्येते नामभिः परिकीर्त्तिताः ।
प्रभुर्विभुर्विभासश्च जेता हन्ता रिहा ऋतुः ॥१६॥

सुमतिः प्रमतिर्दीप्तिः समाख्यातो महो महान् ।
देही मुनिरिनः पोष्टा समः सत्यश्च विश्रुतः ॥१७॥

इत्येतेह्यमिताभास्तु विंशतिः परिकीर्त्तिताः ।
दामो दानी ऋतः सोमो वित्तं वैद्यो यमो निधिः ॥१८॥

होमो हव्यं हुतं दानं देयं दाता तपः शमः ।
ध्रुवं स्थानं विधानं च नियमश्चेति विंशतिः ॥१९॥

सुखा ह्येते समाख्याताः सावर्ण्ये प्रथर्मेतरे ।
मारीचस्यैव ते पुत्राः कश्यपस्य महात्मनः ॥२०॥

सांप्रतस्य भविष्यन्ति षष्टिर्देवास्तदन्तरे ।
सावर्णस्य मनोः पुत्रा भविष्यन्ति नवैव तु ॥२१॥

विरजाश्चार्वरीवांश्च निर्मोकाद्यास्तथा परे ।
नव चान्येषु वक्ष्यामि सावर्णेष्वन्तरेषु वै ॥२२॥

सावर्णमनवश्चान्ये भविष्या ब्रह्मणः सुताः ।
मेरुसावर्णितस्ते वै चत्वारो दिव्यदृष्टयः ॥२३॥

दक्षस्य ते हि वौहित्राः क्रियाया दुहितुः सुताः ।
महता तपसा युक्ता मेरुपृष्ठे महौ जसः ॥२४॥

ब्रह्मादिभिस्तेजनिता दक्षेणैव च धीमता ।
महर्लोकं गता वृत्ता भविष्या मेरुमाश्रिताः ॥२५॥

महानुभावास्ते पूर्वं जज्ञिरे चाक्षुषेन्तरे ।
जज्ञिरे मनवस्ते हि भविष्यानागतान्तरे ॥२६॥

प्राचेतसस्य दक्षस्य दौहित्रा मनवस्तु ये ।
सावर्णा नामतः पञ्च चत्वारः परमर्षिजाः ॥२७॥

संज्ञापुत्रस्तु सावर्णिरेको वैवस्वतस्तथा ।
ज्येष्ठः संज्ञासुतो नाम मुर्वैवस्वतः प्रभुः ॥२८॥

वैवस्वतेंऽतरे प्राप्ते समुत्पत्तिस्तयोः शुभा ।
चतुर्दशैते मनवः कीर्तिता कीर्तिवर्द्धनाः ॥२९॥

वेदे स्मृतौ पुराणे च सर्वे ते प्रभविष्णवः ।
प्रजानां पतयः सर्वे भूतानां पतयः स्थिताः ॥३०॥

तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः ॥३१॥

प्रजाभिस्तपसा चैव विस्तरस्तेषु वक्ष्यते ।
चतुर्द्दशैते विज्ञेयाः सर्गाः स्वायंभुवादयः ॥३२॥

मन्वन्तराधिकारेषु वर्त्तन्तेऽत्र सकृत्सकृत् ।
विनिवृत्ताधिकारास्ते महार्लोकं समाश्रिताः ॥३३॥

समतीतास्तु ये तेषामष्टौ षट्च तथापरे ।
पूर्वेषु सांप्रतश्चायं शास्ति वैवस्वतः प्रभुः ॥३४॥

ये शिष्टास्तान्प्रवक्ष्यामि सह देवर्षिदानवैः ।
सह प्रजा निसर्गेण सर्वांस्तेऽनागतान्द्विजः ॥३५॥

वैवस्वत निसर्गेण तेषां ज्ञेयस्तु विस्तरः ।
अनूना नातिरिक्तास्ते यस्मात्मर्वे विवस्वतः ॥३६॥

पुनरुक्तबहुत्वात्तु न वक्ष्ये तेषु विस्तरम् ।
मन्वन्तरेषु भाव्येषु भूतेष्वपि तथैव च ॥३७॥

कुलेकुले निसर्गास्तु तस्माज्ज्ञेया विभागशः ।
तेषामेव हि सिद्ध्यर्थं विस्तरेण क्रमेण च ॥३८॥

दक्षस्य कन्या धर्मिष्ठा सुव्रता नाम विश्रुता ।
सर्वकन्यावरिष्ठा तु ज्येष्ठा या वीरिणीसुता ॥३९॥

गृहीत्वा तां पिता कन्यां जगाम ब्रह्मणोऽतिके ।
वैराजस्थमुपासीनं धर्मेण च भवेन च ॥४०॥

भवधर्मसमीपस्थं दक्षं ब्रह्माभ्यभाषत ।
दक्ष कन्या तवेयं वै जनयिष्यति सुव्रता ॥४१॥

चतुरो वै मनून्पुत्रांश्चातुर्वर्ण्यकराञ्छुभान् ।
ब्रह्मणो वचनं श्रुत्वा दक्षो धर्मो भवस्तदा ॥४२॥

तां कन्यां मनसा जग्मुस्त्रयस्ते ब्रह्मणा सह ।
सत्याभिध्यायिनां तेषां सद्यः कन्या व्यजायत ॥४३॥

सदृशानूपतस्तेषां चतुरो वै कुमारकान् ।
संसिद्धाः कार्यकरणे संभूतास्ते श्रियान्विताः ॥४४॥

उपभोगासमर्थैश्च सद्योजातैः शरीरकैः ।
ते दृष्ट्वा तान्स्वयंभूतान्ब्रह्मव्याहारिणस्तदा ॥४५॥

सरंब्धा वै व्यकर्षन्त मम पुत्रो ममेत्युत ।
अभिध्यायात्मनोत्पन्नानूचुर्वै ते परस्परम् ॥४६॥

यो यस्य वपुषा तुल्यो भजतां सततं सुतम् ।
यस्य यः सदृशश्चापि रूपे वीर्ये च मानतः ॥४७॥

तं गृह्णातु स भद्रं वो वर्णतो यस्य यः समः ।
ध्रुवं रूपं पितुः पुत्रः सोऽनुरुध्यति सर्वदा ॥४८॥

तस्मादात्मसमः पुत्रः पितुर्मातुश्च वीर्यतः ।
एवं ते समयं कृत्वा सर्वेषां जगृहः सुतान् ॥४९॥

चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वतस्य ह ।
रुचेः प्रजापतेः पुत्रो रौच्यो नामाभवत्सुतः ॥५०॥

भूत्यामुत्पादितो यस्तु भौत्यो नाम कवेः सुतः ।
वैवस्वतेंऽतरे जातौ द्वौ मनू तु विवस्वतः ॥५१॥

वैवस्वतो मनुर्यश्च सावर्णो यश्च वै श्रुतः ।
ज्ञेयः संज्ञासुतो विद्वान्मनुर्वैवस्वतः प्रभुः ॥५२॥

सवर्णायाः सुतश्चान्यः स्मृतो वैवस्वतो मनुः ।
सावर्णम नवो ये च चत्वारस्तु महर्षिजाः ॥५३॥

तपसा संभृतात्मानः स्वेषु मन्वन्तरेषु वै ।
भविष्येषु भविष्यन्ति सर्वकार्यार्थसाधकाः ॥५४॥

प्रथमे मेरुसावर्णेदक्षपुत्रस्य वै मनोः ।
परामरीचिगर्भाश्च सुधर्माणश्च ते त्रयः ।
संभूताश्च महात्मानः सर्वे वैवस्वतेन्तरे ॥५५॥

दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः ।
भविष्यन्ति भविष्यास्तु एकैको द्वादशो गणः ॥५६॥

ऐश्वरश्च ग्रहो राहुर्वाकुर्वंशस्तथैव च ।
पारा द्वादश विज्ञेया उत्तरांस्तु निबोधत ॥५७॥

वाजिपो वाजिजिच्चैव प्रभूतिश्च ककुद्यथ ।
दधिक्रावा विपक्वश्च प्रणीतो विजयो मधुः ॥५८॥

उतथ्योत्तमकौ द्वौ तु द्वादशैते मरीचयः ।
सुधर्माणस्तु वक्ष्यामि नामतस्तान्निबोधत ॥५९॥

वर्णस्तथाथगर्विश्च भुरण्यो व्रजनोऽमितः ।
अमितो द्रवकेतुश्च जंभोऽथाजस्तु शक्रकः ॥६०॥

सुनेमिर्द्युतयश्चैव सुधर्माणः प्रकीर्तिताः ।
तेषामिन्द्रस्तदा भाव्यो ह्यद्भुतो नाम नामतः ॥६१॥

स्कन्दोऽसौ पार्वतीयो वै कार्तिकेयस्तु पावकिः ।
मेधातिथिश्च पौलस्त्यो वसुः काश्यप एवं च ॥६२॥

ज्योतिष्मान्भार्गवाश्चैव द्युतिमानङ्गिरास्तथा ।
वसिनश्चैव वासिष्ठ आत्रेयो हव्यवाहनः ॥६३॥

सुतपाः पौलहश्चैव सप्तैते रोहितेतरे ।
धृतिकेतुर्दीप्तिकेतुः शापहस्तनिरामयाः ॥६४॥

पृथुश्रवास्तथानीको भूरिद्युम्नो बृहद्यशः ।
प्रथमस्य तु सावर्णेर्नव पुत्राः प्रकीर्तिताः ॥६५॥

दशमे त्वथ पर्याये धर्मपुत्रस्य वै मनोः ।
द्वीतीयस्य तु सावर्णेर्भाव्यस्यैवान्तरे मनोः ॥६६॥

सुधामानो विरुद्धाश्च द्वावेव तु गणौ स्मृतौ ।
दीप्तिमन्तश्च ते सर्वे शतसंख्याश्च ते समाः ॥६७॥

प्राणानां यच्छतं प्रोक्तं ऋषिभिः पुरषेति वै ।
देवास्ते वै भविष्यन्ति धर्मपुत्रस्य वै मनोः ॥६८॥

तेषामिन्द्रस्तथा विद्वान्भविष्यः शान्तिरुच्यते ।
हविष्मान्पौलहः श्रीमान्सुकीर्तिश्चाथ भार्गवः ॥६९॥

आपोमूर्तिस्तथात्रेयो वसिष्ठश्चापवः स्मृतः ।
पौलस्त्योऽप्रतिमश्चापि नाभागश्चैव काश्यपः ॥७०॥

अभिमन्युश्चाङ्गिरसः सप्तैते परमर्षयः ।
सुक्षेत्रश्चोत्तमौजाश्च भूरिसेनश्च वीर्यवान् ॥७१॥

शतानीको निरामित्रो वृषसेनो जयद्रथः ।
भूरिद्युम्नः सुवर्चाश्च दशैतेमानवाः स्मृताः ॥७२॥

एकादशे तु पर्याये सावर्णे वै तृतीयके ।
निर्वाणरतयो देवाः कामगा वै मनोजवाः ॥७३॥

गणास्त्वेते त्रयः ख्याता देवातानां महात्मनाम् ।
एकैकस्त्रिंशतस्तेषां गणस्तु त्रिदिवौकसाम् ॥७४॥

मासस्याहानि त्रिंशत्तु यानि वै कवयो विदुः ।
निर्वाणरतयो देवा रात्रयस्तु विहङ्गमाः ॥७५॥

गणस्तृतीयो यः प्रोक्ते देवतानां भविष्यति ।
मनोजवा मूरूर्त्तास्तु इति देवाः प्रकीर्तिताः ॥७६॥

एते हि ब्रह्मणः पुत्रा भविष्या मानवाः स्मृताः ।
तेषामिद्रो वृषा नाम भविष्यः सुरराट्ततः ॥७७॥

तेषां सप्तऋषींश्चापि कीर्त्यमानान्निवौधत ।
हविष्मान्काश्यपश्चापि वपुष्मांश्चैव भार्गवः ॥७८॥

आरुणिश्च तथात्रेयो वसिष्ठो नग एव च ।
पुष्टिराङ्गिरसो ज्ञेयः पौलस्त्यो निश्चरस्तथा ॥७९॥

पौलहो ह्यतितेजश्च देवा ह्येकादशेन्तरे ।
सर्ववेगः सुधर्मा च देवानीकः पुरोवहः ॥८०॥

क्षेमधर्मा ग्रहेषुश्च आदर्शः पैण्ड्रको मरुः ।
सावर्णस्य तु ते पुत्राः प्राजापत्यस्य वै नव ॥८१॥

द्वादशे त्वथ पर्याये रुद्रपुत्रस्य वै मनोः ।
चतुर्थो रुद्रसावर्णो देवांस्तस्यान्तरे शृणु ॥८२॥

पञ्चैव तुगणाः प्रोक्ता देवतानामनागताः ।
हरिता रोहिताश्चैव देवाः सुमनसस्तथा ॥८३॥

सुकर्माणः सुतरश्च विद्वांश्चैव सहस्रदः ।
पर्वतोऽनु चरश्चैव अपाशुश्च मनोजवः ॥८४॥

ऊर्जा स्वाहा स्वधा तारा दशेते हरिताः स्मृताः ।
तपो ज्ञानी मृतिश्चैव वर्चा बन्धुश्च यः स्मृतः ॥८५॥

रजश्चैव तु राजश्च स्वर्णपादस्तथैव च ।
पुष्टिर्विधिश्च वै देवा दशैते रोहिताः स्मृताः ॥८६॥

तुष्ताद्यास्तु ये देवास्त्रय स्त्रिंशत्प्रकीर्तिताः ।
ते वै सुमनसो वेद्यान्निबोधत सुकर्मणः ॥८७॥

सुपर्वा वृषभः पृष्टा कपिद्युम्नविपश्चितः ।
विक्रमश्च क्रमश्चैव विभृतः कान्त एव च ॥८८॥

एते देवाः सुकर्माणः सुतरांश्च निबोधत ।
वर्षो दिव्यस्तथाञ्जिष्ठो वर्चस्वी द्युतिमान्कविः ॥८९॥

शुभो हविः कृतप्राप्तिर्व्यापृतो दशमस्तथा ।
सुतारा नामतस्त्वेते देवा वै संप्रकीर्तिताः ॥९०॥

तेषामिन्द्रस्तु विज्ञेयो ऋतधामा महायशाः ।
द्युतिर्वसिष्ठपुत्रस्तु आत्रेयः सुतपास्तथा ॥९१॥

तपोमूर्तिस्त्वाङ्गिरसस्तपस्वी काश्यपस्तथा ।
तपोधनश्च पौलस्त्यः पौलहश्च तपोरतिः ॥९२॥

भार्गवः सप्तमस्तेषां विज्ञेयस्तु तपोधृतिः ।
एते सप्तर्षयः सिद्धा अन्त्ये सावर्णिकेंऽतरे ॥९३॥

देववानुपदेवश्च देवश्रेष्ठो विदूरथः ।
मित्रवान्मित्रसेनोऽथ चित्रसेनो ह्यमित्रहा ॥९४॥

मित्रबाहुः सुवर्चाश्च द्वादशस्य मनोः सुताः ।
त्रयोदशेतु पर्याये भाव्ये रौच्येन्तरे पुनः ॥९५॥

त्रय एव गणाः प्रोक्ता देवानां तु स्वयंभुवा ।
ब्रह्मणो मानसाः पुत्रास्ते हि सर्वे महात्मनः ॥९६॥

सुत्रामाणः सुधर्माणः सुकर्माणश्च ते त्रयः ।
त्रिदशानां गणाः प्रोक्ता भविष्याः सोमपायिनाम् ॥९७॥

त्रयस्त्रिशद्देवता याः पृथगिज्यास्तु याज्ञिकैः ।
आज्येन पृषदाज्येन ग्रहश्रेष्टेन चैव ह ॥९८॥

ये वै देवास्त्रयस्त्रिंशत्पृथक्त्वेन निबोधत ।
सुत्रामाणः प्रयाज्यास्तु आज्याशा ये तु सांप्रतम् ॥९९॥

सुकर्माणोऽनुयाज्याख्याः पृषदाज्याशिनस्तु ये ।
उपयाज्याः सुधर्माण इति देवाः प्रकीर्त्तिताः ॥१००॥

दिवस्पतिर्महासत्वस्तेषामिन्द्रो भविष्यति ।
पुलहात्मजपुत्रास्ते विज्ञेयास्तु रुचेः सुताः ॥१०१॥

अङ्गिराश्चैव धृतिमान् पौलस्त्योऽप्यव्ययस्तु सः ।
पौलहस्तत्त्वदर्शी छ भार्गवश्च निरुप्सुकः ॥१०२॥

निष्प्रकंप्यस्तथात्रेयो निर्मोहः काश्यपस्तथा ।
सुतपाश्चैव वासिष्ठः सप्तैते तु त्रयोदश ॥१०३॥

चित्रसेनो विचित्रश्च नयो धर्मो धृतो भवः ।
अनेकः क्षत्रविद्धश्च सुरसो निर्भयो दश ॥१०४॥

रौच्यस्यैते मनोः पुत्रा ह्यन्तरे तु त्रयोदशे ।
चतुर्दशे तु पर्याये भौत्यस्याप्यन्तरे मनोः ॥१०५॥

देवतानां गणाः पञ्च प्रोक्ता ये तु भविष्यति ।
चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजितास्तथा ॥१०६॥

वाचावृद्धाश्च इत्येते पञ्च देवगणाः स्मृताः ।
निषादाद्याः स्वराः सप्त सप्त तान्विद्धि चाक्षुषान् ॥१०७॥

बृहदाद्यानि सामानि कनिष्ठान्सप्त तान्विदुः ।
सप्त लोकाः पवित्रास्ते भ्राजिताः सप्तसिंधवः ॥१०८॥

वाचावृद्धानृषीन्विद्धि मनोः स्वायभुवस्य ये ।
सर्वे मन्वन्तरेद्राश्च विज्ञेयास्तुल्यलक्षणाः ॥१०९॥

तेजसा तपसा वुद्ध्या बलश्रुतपराक्रमैः ।
त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च ॥११०॥

सर्वशः सर्वैर्गुणैस्तानि इन्द्रास्तेऽभिभवन्ति वै ।
भूतापवादिनो हृष्टा मध्यस्था भूतवादिनः ॥१११॥

भूताभवादिनः शक्तास्त्रयो वेदाः प्रवादिनाम् ।
अग्नीध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः ॥११२॥

भार्गवो ह्यग्निवाहुश्च शुचिराङ्गिरसस्तथा ।
शुक्रश्चैव तु वासिष्ठः पौलहो मुक्त एव च ॥११३॥

आत्रेयः श्वाजितः प्रोक्तो मनुपुत्रानतः शृणु ।
उरुर्गुरुश्च गंभीरो बुद्धः शुद्धः शुचिः कृती ॥११४॥

ऊर्जस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ।
सावर्णा मनवो ह्येते चत्वारो ब्रह्मणः सुताः ॥११५॥

एको वैवस्वतश्चैव सावर्णो मनुरुच्यते ।
रौच्यो भौत्यश्च यौ तौ तु मतौ पौलहभार्गवौ ।
भौत्यस्यैवाधिपत्ये तु तूर्णं कल्पस्तु पूर्यते ॥११६॥

सूत उवाच
निःशेषेषु तु सर्वेषु तदा मन्वन्तरेष्विह ॥११७॥

अन्तेऽनेकयुगे तस्मिन्क्षीणे संहार उच्यते ।
सप्तैते भार्गवा देवा अन्ते मन्वन्तरे तदा ॥११८॥

भुक्त्वा त्रैलोक्यम ध्यस्था युगाख्या ह्येकसप्ततीः ।
पितृभिर्मनुभिः सार्द्धं क्षीणे मन्वन्तरे तदा ॥११९॥

अनाधारमिदं सर्वं त्रैलोक्यं वै भविष्यति ।
ततः स्थाना नि शुभ्राणि स्थानिनां तानि वै तदा ॥१२०॥

प्रभ्रशयन्ते विमुक्तानि तारा ऋक्षग्रहैस्तथा ।
ततस्तेषु व्यतीतेषु त्रैलोक्यस्येश्वरेष्विह ॥१२१॥

संप्रप्तेषु महर्लोकं यस्मिंस्ते कल्पवासिनः ।
अजिताद्या गणा यत्र आयुष्मन्तश्चतुर्दश ॥१२२॥

मन्वन्तरेषु सर्वेषु देवास्ते वै चतुर्द्दश ।
सशरीराश्च श्रूयन्ते जनलोके सहानुगाः ॥१२३॥

एवं देवेष्वतीतेषु महर्लोकाज्जनं प्रति ।
भूतादिष्ववशिष्टेषु स्थावरां तेषु तेषु वै ॥१२४॥

शून्येषु लोकस्थानेषु महान्तेषु भुवादिषु ।
देवेषु च गतेष्वूर्द्ध्वं सायुज्यं कल्पवासिनाम् ॥१२५॥

संहृत्य तास्ततो ब्रह्मा देवर्षिपितृदानवान् ।
संस्थापयति वै सर्गमहर्दृष्ट्वा युगक्षये ॥१२६॥

चतुर्युगसहस्रान्तमहर्यद्ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥१२७॥

नैमित्तिकः प्राकृतिको यश्चैवात्यन्तिकोर्ऽथतः ।
त्रिविधिः सर्वभूतानामित्येष प्रतिसंचरः ॥१२८॥

ब्राह्मो नैमित्तिकस्तस्य कल्पदाहः प्रसंयमः ।
प्रतिसर्गे तु भूतानां प्राकृतः करणक्षयः ॥१२९॥

ज्ञानाच्चात्यन्तिकः प्रोक्तः कारणानामसंभवः ।
ततः संहृत्य तान्ब्रह्मा देवांस्त्रैलोक्यवासिनः ॥१३०॥

प्रहरति प्रकुरुते सर्गस्य प्रलयं पुनः ।
सुषुप्सुर्भगवान्ब्रह्मा प्रजाः संहरते तदा ॥१३१॥

ततो युगसहस्रान्ते संप्राप्ते च युगक्षये ।
तत्रात्मस्थाः प्रजाः कर्तुं प्रपेदे स प्रजापतिः ॥१३२॥

तदा भवत्यनावृष्टिः संतता शतवार्षिकी ।
तया यान्यल्पसाराणि सत्त्वानि वृथिवीतले ॥१३३॥

तान्येवात्र प्रलीयन्ते भूमित्वमुपयान्ति च ।
सप्तरश्मिरथो भूत्वा उदत्तिष्ठद्विभावसुः ॥१३४॥

असह्यरश्मिर्भगवान्पिबत्यंभो गनस्तिभिः ।
हरीतारश्मयस्तस्यदीप्यमानास्तु सप्ततिः ॥१३५॥

भूय एव विवर्त्तन्ते व्याप्नुवन्तोंबरं शनैः ।
भौमं काष्ठेन्धनं तेजो भृशमद्भिस्तु दीप्यते ॥१३६॥

तस्मादुदकभृत्सूर्यस्तपतीति हि कथ्यते ।
नावृष्ट्या तपते सूर्य्यो नावृष्ट्या परिषिच्यते ॥१३७॥

नावृष्ट्या परिविश्येत वारिणा दीप्यते रविः ।
तस्मादपः पिबन्यो वै दीप्यते रविरंबरे ॥१३८॥

तस्य ते रश्मयः सप्त पिबन्त्यंभो महार्णवात् ।
तेनाहारेण संदीप्ताः सूर्याः सप्त भवन्त्युत ॥१३९॥

ततस्ते रश्मयः सप्त सूर्यभूताश्चतुर्द्दिशम् ।
चतुर्लोकमिमं सर्वं दहन्ति शिखिनस्तदा ॥१४०॥

प्राप्नुवन्ति च ताभिस्तु ह्यूर्द्ध्वं चाधश्च रश्मिभिः ।
दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रतापिनः ॥१४१॥

ते वारिणा प्रदीप्ताश्च बहुसाहस्ररश्मयः ।
स्वं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम् ॥१४२॥

ततस्तेषां प्रतापेन दह्यमाना वसुंधरा ।
साद्रिनद्यर्णवा पृथ्वी निस्नेहा समपद्यत ॥१४३॥

दीप्ताभिः संतताभिश्च चित्राभिश्च समन्ततः ।
अधश्चोर्ध्वं च तिर्यक्च संरूद्धा सूर्यरश्मिभिः ॥१४४॥

सूर्याग्नीनां प्रवृद्धानां संसृष्टानां परस्परम् ।
एकत्वमुपयातानामेकज्वाला भवत्युत ॥१४५॥

सर्वलोकप्रणाशश्च सोऽग्निर्भूत्वानुमण्डली ।
चतुर्लोकमिदं सर्वं निर्दहत्याशु तेजसा ॥१४६॥

ततः प्रलीने सर्वस्मिञ्जङ्गमे स्थावरे तथा ।
निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठसमा भवेत् ॥१४७॥

अंबरीषमिवाभाति सर्वमप्यखिलं जगत् ।
सर्वमेव तदर्चिर्भिः पूर्णं जाज्वल्यते घनः ॥१४८॥

भूतले यानि सत्त्वानि महोदधिगतानि च ।
ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥१४९॥

द्वीपाश्च पर्वताश्चैव वर्षाण्यथ महोदधिः ।
सर्वं तद्भस्मसाच्चक्रे सर्वात्मा पावकस्तु सः ॥१५०॥

समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वशः ।
पिबत्यपः समिद्धोऽग्निः पृथिवीमाश्रितो ज्वलन् ॥१५१॥

ततः संवर्द्धितः शैलानति क्रम्य ग्रहांस्तथा ।
लोकान्संहरते दीप्तो घोरः संवर्त्तकोऽनलः ॥१५२॥

ततः स पृथिवीं भित्त्वा रसातलमशोष्यत् ।
निर्दह्यान्ते तु पातालं वायुलोकमथादहत् ॥१५३॥

अधस्तात्पृथिवीं दग्ध्वा तूर्द्ध्वं स दहतो दिवम् ।
योजनानां सहस्राणि प्रयुतान्यर्बुदानि च ॥१५४॥

उदतिष्ठञ्शिखास्तस्य बह्व्यः संवर्त्तकस्य तु ।
गन्धर्वांश्च पिशाचांश्च समहोरगराक्षसान् ॥१५५॥

तदा दहति संदीप्तो गोलकं चैव सर्वशः ।
भूर्लोकं च भुवर्ल्लोकं स्वर्लोकं च महस्तथा ॥१५६॥

घोरो दहति कालाग्निरेवं लोकचतुष्टयम् ।
व्याप्तेषु तेषु लोकेषु तिर्यगूर्द्ध्वमथाग्निना ॥१५७॥

तत्तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः ।
अयोगुडनिभं सर्वं तदा ह्येवं प्रकाशते ॥१५८॥

ततो गजकुलाकारास्तडिद्भिः समलङ्कृताः ।
उत्तिष्ठन्ति तदा घोरा व्योम्नि संवर्तका घनाः ॥१५९॥

केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः ।
केचिद्वैडूर्यसंकाशा इन्द्रनीलनिभाः परे ॥१६०॥

शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभास्तथा ।
धूम्रवर्णा घनाः केचित्केचित्पीताःपयोधराः ॥१६१॥

केचिद्रासभवर्णाभा लाक्षारसनिभास्तथा ।
मनशिलाभास्त्वपरे कपोताभास्तथांबुदाः ॥१६२॥

इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा ।
चाषपत्रनिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥१६३॥

केचित्पुरवराकाराः केचिद्गजकुलोपमाः ।
केचित्पर्वतसंकाशाः केचित्स्थलनिभा घनाः ॥१६४॥

क्रीडागारनिभाः केचित्केचिन्मीनकुलोपमाः ।
बहुरूपा घोररूपा घोरस्वरनिनादिनः ॥१६५॥

तदा जलधराः सर्वे पूरयन्ति नभस्तलम् ।
ततस्ते जलदा घोरराविणो भास्करात्मकाः ॥१६६॥

सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत ।
ततस्ते जलदा वर्षं मुञ्चन्ति च महौघवत् ॥१६७॥

सुघोरमशिवं सर्वं नाशयन्ति च पावकम् ।
प्रवृष्टैश्च तथात्यर्थं वारिणा पूर्यते जगत् ॥१६८॥

अद्भिस्तेजोभिभूतं च तदाग्निः प्रविशत्यपः ।
नष्टे चाग्नौ वर्षगते पयोदाः पावकोद्भवाः ॥१६९॥

प्लावयन्तो जगत्सर्वं बृहज्जलपरिस्रवैः ।
धाराभिः पूरयन्तीमं चोद्यमानाः स्वयंभुवा ॥१७०॥

अन्ये तु सलिलौघैस्तु वेलामभिभवन्त्यपि ।
साद्रिद्वीपान्तरं पीतं जलमन्नेषु तिष्ठति ॥१७१॥

पुनः पतति भूमौ तत्पयोधस्तान्नभस्तले ।
संवेष्टयति घोरात्मा दिवि वायुः समततः ॥१७२॥

तस्मिन्नेकार्मवे घोरे नष्टे स्थावारजङ्गमे ।
पूर्मे युगसहस्रे वै निःशेषः कल्प उच्यते ॥१७३॥

अथांभसऽऽवृते लोके प्राहुरेकार्मवं बुधाः ।
अथ भूमिर्जलं खं च वायुश्चैकार्मवे तदा ॥१७४॥

नष्टेऽनलेऽन्धभूते तु प्राज्ञायत न किञ्चन ।
पार्थिवास्त्वथ सामुद्रा आपो दैव्याश्च सर्वशः ॥१७५॥

असरन्त्यो व्रजन्त्यैक्यं सलिलाख्यां भजन्त्युत ।
आगतागतिके चैव तदा तत्सलिलं स्मृतम् ॥१७६॥

प्रच्छाद्यति महीमेतामर्णवाख्यं तु तज्जलम् ।
आभाति यस्मात्तद्भाभिर्भाशब्दो व्याप्तिदीप्तिषु ॥१७७॥

भस्म सर्वमनुप्राप्य तस्मादंभो निरुच्यते ।
नानात्वे चैव शीघ्रे च धातुर्वै अर उच्यते ॥१७८॥

एकार्मवे तदा ह्यो वै न शीघ्रस्तेन ता नराः ।
तस्मिन्युगसहस्रान्ते दिवसे ब्रह्मणो गते ॥१७९॥

तावन्तं कालमेवं तु भवत्येकार्मवं जगत् ।
तदा तु सर्वे व्यापारा निवर्त्तन्ते प्रजापतेः ॥१८०॥

एकमेकार्णवे तस्मिन्नष्टे स्थावरजङ्गमे ।
तदा स भवति ब्रह्मा सहस्राक्षः सहस्रपात् ॥१८१॥

सहस्रशीर्षा सुमनाः सहस्रपात्सहस्रचक्षुर्वदनः सहस्रवाक् ।
सहस्रबाहुः प्रथमः प्रजापतिस्त्रयी मयो यः पुरुषो निरुच्यते ॥१८२॥

आदित्यवर्मा भुवनस्य गोप्ता अपूर्व एकः प्रथमस्तुराषाट् ।
हिरण्यगर्भः पुरुषो महान्वै संपठ्यते वै रजसः परस्तात् ॥१८३॥

चतुर्युगसहस्रान्ते सर्वतः सलिलाप्लुते ।
सुषुप्सुरप्रकाशेप्सुः स रात्रिं कुरुते प्रभुः ॥१८४॥

चतुर्विधा यदा शेते प्रजाः सर्वा लयं गताः ।
पश्यन्ति तं महात्मानं कालं सप्त महर्षयः ॥१८५॥

जनलोकं विवर्त्तास्ते तपसा लब्धचक्षुषः ॥१८५॥

भृग्वादयो महात्मानः पूर्वे व्याख्यातलक्षणाः ॥१८६॥

सत्यादीन्सप्तलोकान्वै ते हि पश्यन्ति चक्षुषा ।
ब्रह्माणं ते तु पश्यन्ति सदा ब्राह्मीषु रात्रिषु ॥१८७॥

सप्तर्षयः प्रपश्यन्ति स्वप्नं कालं स्वरात्रिषु ।
कल्पानां परमेष्टि त्वात्तस्मादाद्यः स पठ्यते ॥१८८॥

स स्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः ।
एवमेशायित्वा तु ह्यात्मन्येव प्रजापतिः ॥१८९॥

अथात्मनि महातेजाः सर्वमादाय सर्वकृत् ।
ततः स वसते रात्रिं तमस्येकार्णवे जले ॥१९०॥

ततो रात्रिक्षये प्राप्ते प्रति बुद्धः प्रजापतिः ।
मनः सिसृक्षया युक्तः सर्गाय निदधे पुनः ॥१९१॥

एवं स लोके निर्वृत्त उपशान्ते प्रजापतौ ।
ब्राह्मे नैमित्तिके तस्मिन्कल्पिते वै प्रसंयमे ॥१९२॥

देहैर्वियोगः सत्त्वानां तस्मिन्वै कृत्स्नशः स्मृतः ।
ततो धग्धेषु भूतेषु सर्वेष्वादित्यरशिमभिः ॥१९३॥

देवर्षिमनुवर्येषु तस्मिन्नंबुप्लवे तदा ।
गन्धर्वादीनि सत्त्वानि पिशायान्तानि सर्वशः ॥१९४॥

कल्पादावप्रतप्तानि जनमेवाश्रयन्ति वै ।
तिर्यग्योनीनि नरके यानि यानि गतान्यपि ॥१९५॥

तदा तान्यापि दग्धानि धूतपापानि सर्वशः ।
जले तान्युपपद्यन्ते यावत्संप्लवते जगत् ॥१९६॥

व्युष्टायां च रचन्यां तु ब्रह्मणोऽव्यक्तयोनितः ।
जायन्ते हि पुनस्तानि सर्वभूतानि कृतस्नशः ॥१९७॥

ऋषयो मनवो देवाः प्रजाः सर्वाश्चतुर्विधाः ।
तेषामपि च सिद्धानां निधनोत्पत्तिरुच्यते ॥१९८॥

यथासूर्यस्य लोकेऽस्मिन्नुदयास्तमने स्मृते ।
तथा जन्मनिरोधश्च भूतानामिह दृश्यते ॥१९९॥

आभूतसंप्लवात्तस्माद्भवः संसार उच्यते ।
यथा सर्वाणि भूतानां जायन्ते वर्षणेष्विह ॥२००॥

स्थावरादीनि नियमात्कल्पे कल्पे तथा प्रजाः ।
यथार्त्तावृतुलिङ्गानि नानारूपाणि पर्यये ॥२०१॥

दृश्यन्ते तानि तान्येव तथा ब्रह्मद्युरात्रिषु ।
प्रत्याहारे विसर्गे च गतिमन्ति ध्रुवाणि च ॥२०२॥

निष्क्रमन्ते विशन्ते च प्रजाः काले प्रजापतिम् ।
ब्रह्माणं सर्वभूतानि महायोगं महेश्वरम् ॥२०३॥

स स्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः ।
व्यक्तोऽव्यक्तो महादेवस्तस्य सर्वमिदं जगत् ॥२०४॥

येनैव सृष्टाः प्रथमं प्रयाता आपो हि मार्गेण महीतलेऽस्मिन् ।
पूर्वं प्रयातेन यथात्वथापस्तेनैव तेनैव तु स्वर्व्रजन्ति ॥२०५॥

यथा शूभेन त्वशुभेन चैव तत्रैव तत्रैव विवर्त्तमानाः ।
मर्त्यास्तु देहान्तरभावितत्वाद्रवेर्वशादूर्ध्वमधश्चरन्ति ॥२०६॥

ये चापि देवा मनवः प्रजेशा अन्येऽपि ये स्वर्गगताश्च सिद्धाः ।
तद्भाविताः ख्यातिवशाश्च धर्म्याः पुनर्विसर्गेण भवन्ति सत्त्वाः ॥२०७॥

अत ऊर्ध्वं प्रवक्ष्यामि कालमाभूतसंप्लवम् ।
मन्वन्तराणि यानि स्युर्व्याख्यातानि मया द्विजाः ॥२०८॥

सह प्रजानिसर्गेण सह देवैश्चतुर्द्दश ।
सा युगाख्या सहस्रं तु सर्वाण्येवान्तराणि वै ॥२०९॥

अस्याः सहस्रे द्व पूर्ण विशेषः कल्प उच्यते ।
एतद्ब्राह्ममहर्ज्ञेयं तस्य सख्यां निबोधत ॥२१०॥

निमेषतुल्यमात्रा हि कृता लब्दक्षणेन तु ।
मानुषाक्षिनिमेषास्तु काष्ठा पञ्चदश स्मृताः ॥२११॥

नव क्षणस्तु पञ्जैव विंशत्काष्ठा तु ते त्रयः ।
प्रस्था सप्तो दकाश्चैव साधिकाक्तु लवः स्मृतः ॥२१२॥

लवास्त्रिंशत्कला ज्ञेया मुहूर्त्तस्त्रिंशतः कलाः ।
मुहूर्त्तास्तु पुनस्त्रिंशदहोरात्रमिति स्थितिः ॥२१३॥

अहोरात्रं कलानां तु अधिकानि शतानि षट् ।
ताश्चैव संख्याया ज्ञेयाश्चन्द्रादित्यगतिर्यथा ॥२१४॥

निमेषा दशपञ्चैवं काष्ठा स्तास्त्रिंशतः कला ।
त्रिंशत्कला मुहूर्त्तं तु दशभागं कला स्मृतम् ॥२१५॥

चत्वारिंशत्कलाः पञ्च मुहूर्त्त इति संज्ञितः ।
मुहूर्त्ताश्च लवाश्चापि प्रमाणज्ञैः प्रकल्पिताः ॥२१६॥

तथानेनांभसश्चापिं पलान्यथ त्रयोदश ।
मागधेनैव मानेन जलप्रस्थो विधीयते ॥२१७॥

एते वाराप्लुतप्रस्थाश्चत्वारो नालिकोच्चयः ।
हेममाषैः कृतच्छिद्रश्चतुर्भिश्चतुरङ्गुलैः ॥२१८॥

समाहनि च रात्रौ च मुहूर्त्ता वै द्विनालिकाः ।
रवेर्गतिविशेषेण सर्वेष्वेतेषु नित्यशः ॥२१९॥

अधिकं षट्शतं यच्च कलानां प्रविधीयते ।
तदहर्मानुषं ज्ञेयं नाक्षत्रं तु दशाधिकम् ॥२२०॥

सावनेन तु मानेन अब्दोऽयं मानुषः स्मृतः ।
एतद्दिव्यमहोरात्रमिति शास्त्रविनिश्चयः ॥२२१॥

अह्लानेन तु या संख्या मासर्त्वयनवार्षिकी ।
तदा बद्धमिदं ज्ञानं संज्ञया ह्युपलक्षितम् ॥२२२॥

कलानां तु परिमाणं कला इत्यभिधीयते ।
यदहो ब्रह्मणः प्रोक्तं दिव्या कोटी तु सा स्मृता ॥२२३॥

शतानां च सहस्राणि दशद्विगुणितानि च ।
नवतिं च सहस्राणि तथैवान्यानि यानि तु ॥२२४॥

एतच्छ्रुत्वा तु ऋषयो विस्मयं परमाद्भुतम् ।
संख्यासंभजनं ज्ञानमपृच्छन्सुतरां तदा ॥२२५॥

ऋषय ऊचुः
संप्रकालन मानं तु मानुषेणैव सम्मतम् ।
मानेन श्रोतुमिच्छामः संक्षेपार्थपादाक्षरम् ॥२२६॥

तेषां श्रुत्वा स देवस्तु वायुर्लोकहिते रतः ।
संक्षेपाद्दिव्यचक्षुष्ट्वा त्प्रोवाच वचनं प्रभुः ॥२२७॥

एते रात्र्यहनी पूर्वं कीर्तिते त्विह लौकिके ।
तासां संख्याथ वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षये ॥२२८॥

कोडीशतानि चत्वारि वर्षाणि मानुषाणि तु ।
द्वात्रिंशच्च तथा कोट्यः संख्याताः संख्यया द्विजैः ॥२२९॥

तथा शतसहस्राणि एकोननवतिः पुनः ।
अशीतिश्च सहस्राणि एष कालः प्लवस्य तु ॥२३०॥

मानुषाख्येन संख्यातः कालो ह्याभूतसं प्लवः ।
सप्तसूर्यप्रदग्धेषु तदा लोकेषु तेषु वै ।
महाभूतषु लीयन्त प्रजाः सर्वाश्चतुर्विधाः ॥२३१॥

सलिलेनाप्लुते लोके नष्टे स्थावरजङ्गमे ॥२३२॥

विनिवृत्ते च संहारे उपशान्ते प्रजापतौ ।
निरालोके प्रदग्धे तु नैशेन तमसा वृते ॥२३३॥

ईश्वराधिष्ठिते त्वस्मिं स्तदा ह्येकार्मवे किल ।
तावदेकार्मवे ज्ञेयं यावदासीदहः प्रभोः ॥२३४॥

रात्रिस्तु सलिलावस्था निवृत्तौ वाप्यहः स्मृतम् ।
अहोरात्रस्तथैवास्य क्रमेण परिवर्तते ॥२३५॥

आभूतसंप्लवो ह्येष अहोरात्रः स्मृतः प्रभोः ।
त्रैलोक्ये यानि सत्त्वानि गतिमन्तिध्रुवाणि च ॥२३६॥

आभूतेभ्यः प्रलीयन्ते तस्मादाभूतसंप्लवः ।
अतीता वर्तमानाश्च तथैवानागताः प्रजाः ॥२३७॥

दिव्यसंख्या प्रसंख्याता अपरार्धगुणीकृताः ।
परार्द्धं द्विगुणं चापि परमायुः प्रकीर्त्ततम् ॥२३८॥

एतावान्स्थितिकालस्तु ह्यजस्येह प्रजापतेः ।
स्थित्यन्तं प्रतिसर्गश्च ब्रह्मणः परमेष्ठिनः ॥२३९॥

यथा वायुप्रवेगेन दीपार्चिरुपशम्यति ।
तथैव प्रतिसर्गेण ब्रह्मा समुपशाम्यति ॥२४०॥

तथा स्वप्रतिसंसृष्टे महदादौ महेश्वरे ।
महत्प्रलीयते व्यक्ते गुणसाम्यं ततो भवेत् ॥२४१॥

इत्येष वः समाख्यातो मया ह्याभूतसंप्लवः ।
ब्रह्मनैमित्तिको ह्येष संप्रक्षालनसंयमः ।
समासेन समाख्यातो भूयः किं वर्मयामि वः ॥२४२॥

य इदं धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः ।
कीर्त्तयेद्वर्णयेद्वापि महतीं सिद्धिमाप्नुयात् ॥२४३॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते उत्तरभागे चतुर्थ उपसंहारपादे आभूतसंप्लवाख्यवर्णनं नाम प्रथमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP