संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|उत्तरभागः| अध्यायः ९ उत्तरभागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ उत्तरभागः - अध्यायः ९ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ९ Translation - भाषांतर इन्द्र उवाचभगवन्सर्व धर्मज्ञ त्रिकालज्ञानवित्तम ।दुष्कृतं तत्प्रतीकारो भवता सम्यगीरितः ॥१॥केन कर्मविपाकेन ममापदि यमागता ।प्रायश्चित्तं च किं तस्य गदस्व वदतां वर ॥२॥बृहस्पतिरुवाचकाश्यपस्य ततो जज्ञे दित्यां दनुरिति स्मृतः ।कन्या रूपवती नाम धात्रे तां प्रददौ पिता ॥३॥तस्याः पुत्रस्ततो जातो विश्वरूपो महाद्युतिः ।नारायणपरो नित्यं वेदवेदाङ्गपारगः ॥४॥ततो दैत्येश्वरो वव्रे भृगुपुत्रं पुरोहितम् ।भवानधिकृतो राज्ये देवानामिव वासवः ॥५॥ततः पूर्वे च काले तु सुधर्मायां त्वयि स्थिते ।त्वया कश्चित्कृतः प्रश्न ऋषीणां सन्निधौ तदा ॥६॥संसारस्तीर्थयात्रा वा कोऽधिकोऽस्ति तयोर्गुमः ।वदन्तु तद्विनिश्चित्य भवन्तो मदनुग्रहात् ॥७॥तत्प्रश्नस्योत्तरं वक्तुं ते सर्व उपचक्रिरे ।तत्पूर्वमेव कथितं मया विधिबलेन वै ॥८॥तीर्थ यात्रा समधिका संसारादिति च द्रुतम् ।तच्छ्रुत्वा ते प्रकुपिताः शेपुर्मामृषयोऽखिलाः ॥९॥कर्मभूमिं व्रजेः शीघ्रं दारिर्द्येण मितैः सुतैः ।एवं प्रकुपितैः शप्तः खिन्नः काञ्चीं समाविशम् ॥१०॥पुरीं पुरोधसा हीनां वीक्ष्य चिन्ताकुलात्मना ।भवता सह देवैस्तु पौरोहित्यार्थमादरात् ॥११॥प्रार्थितो विश्वरूपस्तु बभूव तपतां वरः ।स्वस्रीयो दानवानां तु देवानां च पुरोहितः ॥१२॥नात्यर्थम करोद्वैरं दैत्येष्वपि महातपाः ।बभूवतुस्तुल्यबलौ तदा देत्येन्द्रवासवौ ॥१३॥ततस्त्वं कुपितो राजन्स्वक्लीयं दानवेशितुः ।हन्तुमिच्छन्नगाश्चाशु तपसः साधनं वनम् ॥१४॥तमासनस्थं मुनिभिस्त्रिशृङ्गमिव पर्वतम् ।त्रयी मुखरदिग्भागं ब्रह्मानदैकनिष्ठितम् ॥१५॥सर्वभूतहितं तं तु मत्वा चेशानुकूलितः ।शिरांसि यौगपद्येन छिन्नात्यासंस्त्वयैव तु ॥१६॥तेन पापेन संयुक्तः पीडितश्च मुहुर्मुहुः ।ततो मेरुगुहां नीत्वा बहूनब्दान्हि संस्थितः ॥१७॥ततस्तस्य वचः श्रुत्वा ज्ञात्वा तु मुनिवाक्यतः ।पुत्र शोकेन संतप्तस्त्वां शशाप रुषान्वितः ॥१८॥निःश्रीको भवतु क्षिप्रं मम शापेन वासवः ।अनाथकास्ततो देवा विषण्णा दैत्यपीडिताः ॥१९॥त्वया मया च रहिताः सर्वे देवाः पलायिताः ।गत्वा तु ब्रह्मसदनं नत्वा तद्वृत्तमूचिरे ॥२०॥ततस्तु चिन्तया मास तदघस्य प्रतिक्रियाम् ।तस्य प्रतिक्रियां वेत्तुं न शशाकात्मभूस्तदा ॥२१॥ततो देवैः परिवृतो नारायणमुपागमत् ॥२२॥नत्वा स्तुत्वा चतुर्वक्रस्तद्वृत्तान्तं व्यजिज्ञपत् ।विचिन्त्य सोऽपि बहुधा कृपया लोकनायकः ॥२३॥तदघं तु त्रिधा भित्त्वा त्रिषु स्थानेष्वथार्पयत् ।स्त्रीषु भूम्यां च वृक्षेषु तेषामपि वरं ददौ ॥२४॥तदा भर्त्तृसमायोगं पुत्रावाप्तिमृतुष्वपि ।छेदे पुनर्भवत्वं तु सर्वेषामपि शाखिनाम् ॥२५॥खातपूर्तिं धरण्यश्च प्रददौ मधुसूदनः ।तेष्वघं प्रबभूवाशु रजोनिर्यासमूषरम् ॥२६॥निर्गतो गह्वरात्तस्मात्त्वमिन्द्रो देवनायकः ।राज्यश्रियं च संप्राप्तः प्रसादात्परमेष्ठिनः ॥२७॥तेनैव सांत्वितो धाता जगाद च जनार्दनम् ।मम शापो वृथा न स्यादस्तु कालान्तरे मुने ॥२८॥भगवांस्तद्वचः श्रुत्वा मुनेरमिततेजसः ।प्रहृष्टो भाविकार्यज्ञस्तूष्णीमेव तदा ययौ ॥२९॥एतावन्तमिमं कालं त्रिलोकीं पालयन्भवान् ।एश्वर्यमदमत्तत्वात्कैलासाद्रिमपीडयत ॥३०॥सर्वज्ञेन शिवेनाथ प्रेषितो भगवान्मुनिः ।दुर्वासास्त्वन्मदभ्रंशं कर्त्तुकामः शशाप ह ॥३१॥एकमेव फलं जातमुभयोः शापयोरपि ।अधुना पश्यनिः श्रीकन्त्रैलोक्यं समजायत ॥३२॥न यज्ञाः संप्रवर्त्तन्ते न दानानि च वासव ।न यमा नापि नियमा न तपासि च कुत्रचित् ॥३३॥विप्राः सर्वेऽपि निःश्रीका लोभोपहतचेतसः ।निःस्त्त्वा धैर्यहीनाश्च नास्तिकाः प्रायशोऽभवन् ॥३४॥निरौषधिरसा भूमिर्निवीर्य जायतेतराम् ।भास्करो धूसराकारश्चन्द्रमाः कान्तिवर्जितः ॥३५॥निस्तेजस्को हविर्भोक्ता मनुद्धूलिकृताकृतिः ।न प्रसन्ना दिशां भागा नभो नैव च निर्मलम् ॥३६॥दुर्बला देवताः सर्वा विभान्त्यन्यादृशा इव ।विनष्टप्रयमेवास्ति त्रैलोक्यं सचराचरम् ॥३७॥हयग्रीव उवाचइत्थं कथयतोरेव बृहस्पतिपहेन्द्रयोः ।मलकाद्या महादैत्याः स्वर्गलोकं बबाधिरे ॥३८॥नन्दनोद्यान मखिलं चिच्छिदुर्बलगर्विताः ।उद्यानपालकान्सर्वानायुधैः समताडयन् ॥३९॥प्राकारमवभिद्यैव प्रविश्य नगरान्तरम् ।मन्दिरस्थान्सुरान्सर्वानत्यन्तं पर्यपीडयन् ॥४०॥आजहुरप्सरोरत्नान्यशेषाणि विशेषतः ।ततो देवाः समस्ताश्च चक्रुर्भृशमबाधिताः ॥४१॥तादृशं घोषमाकर्म्य वासवः प्रोज्झितासनः ।सर्वैरनुगतो देवैः पलायनपरोऽभवत् ॥४२॥ब्राह्मं धाम समभ्येत्य विषण्मवदनो वृषा ।यथावत्कथयामास निखिलं दैत्यचेष्टितम् ॥४३॥विधातापि तदाकर्ण्य सर्वदेवसमन्वितम् ।हतश्रीकं हरिहयमालोक्येदमुवाच ह ॥४४॥इन्द्रत्वमखिलैर्द्देवैर्मुकुन्दं शरणं व्रज ।दैत्यारातिर्जगत्कर्ता स ते श्रेयो विधास्यति ॥४५॥इत्युक्त्वा तेन सहितः स्वयं ब्रह्मा पितामहः ।समस्तदेवसहितः क्षीरोदधिमुपाययौ ॥४६॥अथ ब्रह्मादयो देवा भगवन्तं जनार्दनम् ।तुष्टुवुर्वाग्वरिष्ठाभिः सर्वलोकमहेश्वरम् ॥४७॥अथ प्रसन्नो भगवान्वासुदेवः सनातनः ।जगाद स कलान्देवाञ्जगद्रक्षणलंपटः ॥४८॥श्रीभगवानुवाचभवतां सुविधास्यामि तेजसैवोपबृंहमम् ।यदुच्यते मयेदानीं युष्माभिस्त द्विधीयताम् ॥४९॥ओषधिप्रवराः सर्वाः क्षिपत क्षीरसागरे ।असुरैरपि संधाय सममेव च तैरिह ॥५०॥मन्थानं मन्दरं कृत्वा कृत्वा योक्त्रं च वासुकिम् ।मयि स्थिते सहाये तु मथ्यताममृतं सुराः ॥५१॥समस्तदानवाश्चापि वक्तव्याः सांत्वपूर्वकम् ।सामान्यमेव युष्माकमस्माकं च फलं त्विति ॥५२॥मथ्यमाने तु दुग्धाब्धौ या समुत्पद्यते सुधा ।तत्पानाद्बलिनो यूयममर्त्याश्च भविष्यथ ॥५३॥यथा दैत्याश्च पीयूषं नैतत्प्राप्स्यन्ति किञ्चन ।केवलं क्लेशवन्तश्च करिष्यामि तथा ह्यहम् ॥५४॥इति श्रीवासुदेवेन कथिता निखिलाः सुराः ।संधानं त्वतुलैर्दैत्यैः कृतवन्तस्तदा सुराः ।नानाविधौषधिगणं समानीय सुरासुराः ॥५५॥श्रीराब्धिपयसि क्षिप्त्वा चन्द्रमोऽधिकनिर्मलम् ।मन्थानं मन्दरं कृत्वा कृत्वा योक्त्रं तु वासुकिम् ।प्रारेभिरे प्रयत्नेन मन्थितुं यादसां पतिम् ॥५६॥वासुकेः पुच्छभागे तु सहिताः सर्वदेवताः ।शिरोभागे तु दैतेया नियुक्तास्तत्र शौरिणा ॥५७॥बलवन्तोऽपि ते दैत्यास्तन्मुखोच्छ्वासपावकैः ।निर्दग्धवपुषः सर्वे निस्तेजस्कास्तदाभवन् ॥५८॥पुच्छदेशे तु कर्षन्तो मुहुराप्यायिताः सुराः ।अनुकूलेन वातेन विष्णुना प्रेरितेन तु ॥५९॥आदिकूर्माकृतिः श्रीमान्मध्ये क्षीरपयोनिधेः ।भ्रमतो मन्दराद्रेस्तु तस्या धिष्टानतामगात् ॥६०॥मध्ये च सर्वदेवानां रूपेणान्येन माधवः ।चकर्ष वासुकिं वेगाद्दैत्यमध्ये परेण च ॥६१॥ब्रह्मरूपेण तं शैलं विधार्याक्रान्तवारिधिम् ।अपरेण च देवर्षिर्महता तेजसा मुहुः ॥६२॥उपवृंहितवान्देवान्येन ते बलशालिनः ।तेजसा पुनरन्येन बलात्कारसहेन सः ॥६३॥उपबृंहितवान्नागं सर्वशक्तिजनार्दनः ।मथ्यमाने ततस्तस्मिन्क्षीरब्धौ देवदानवैः ॥६४॥आविर्बभूव पुरतः सुरभिः सुरपूजिता ।मुदं जग्मुस्तदा देवा दैतेयाश्च तपोधन ॥६५॥मथ्यमाने पुनस्तस्मिन्क्षीराब्दौ देवदानवैः ।किमेतदिति सिद्धानां दिवि चिन्तयतां तदा ॥६६॥उत्थिता वारुणी देवी मदाल्लोलविलोचना ।असुराणां पुरस्तात्सा स्मयमाना व्यतिष्ठत ॥६७॥जगृहुर्नैव तां दैत्या असुराश्चाभवंस्ततः ।सुरा न विद्यते येषां तेनैवासुरशब्दिताः ॥६८॥अथसा सर्वदेवानामग्रतः समतिष्ठत ।जगृहुस्तां मुदा देवाः सूचिताः परमेष्ठिना ।सुराग्रहणतोऽप्येते सुरशब्देन कीर्तिताः ॥६९॥मथ्यमाने ततो भूयः पारिजातो महाद्रुमः ।आविरासीत्सुंगधेन परितो वासयञ्जगत् ॥७०॥अत्यर्थसुंदराकारा धीराश्चाप्सरसां गणाः ।आविर्भूताश्च देवर्षे सर्वलोकमनोहराः ॥७१॥ततः शीतांशुरुदभूत्तं जग्राह महेश्वरः ।विषजातं तदुत्पन्नं जगृहुर्नागजातयः ॥७२॥कौस्तुभाख्यं ततो रत्नमाददे तज्जनार्दनः ।ततः स्वपत्रगन्धेन मदयन्ती महौषधीः ।विजया नाम संजज्ञे भैरवस्तामुपाददे ॥७३॥ततो दिव्यांबरधरो देवो धन्वन्तरिः स्वयम् ।उपस्थितः करे बिभ्रदमृताढ्यं कमण्डलुम् ॥७४॥ततः प्रहृष्टमनसो देवा दैत्याश्च सर्वतः ।मुनयश्चाभवंस्तुष्टास्तदानीं तपसां निधे ॥७५॥ततो विकसितांभोजवासिनी वरदायिनी ।उत्थिता पद्महस्ता श्रीस्तस्मात्क्षीरमहार्मवात् ॥७६॥अथ तां मुनयः सर्वे श्रीसुक्तेन श्रियं पराम् ।तुष्टुवुस्तुष्ट हृदया गन्धर्वाश्च जगुः परम् ॥७७॥विश्वाजीप्रमुखाः सर्वे ननृतुश्चाप्सरोगणाः ।गङ्गाद्याः पुण्यनद्यश्च स्नानार्थमुपतस्थिरे ॥७८॥अष्टौ दिग्दन्तिनश्चैव मेध्यपात्रस्थितं जलम् ।आदाय स्नापयाञ्चक्रुस्तां श्रियं पद्मवासिनीम् ॥७९॥तुलसीं च समुत्पन्नां परार्ध्या मैक्यजां हरेः ।पद्ममालां ददौ तस्यै मूर्तिमान्क्षीरसागरः ॥८०॥भूषणानि च दिव्यानि विश्वकर्मा समर्पयत् ।दिव्यमाल्यां बरधरा दिव्यभूषणभूषिता ।ययौ वक्षस्थलं विष्णोः सर्वेषां पश्यतां रमा ॥८१॥तुलसी तु धृता तेन विष्णुना प्रभविष्णुना ।पश्यति स्म च सा देवी विष्णुवक्षथलालया ।देवान्दयार्द्रया दृष्ट्या सर्वलोकमहेश्वरी ॥८२॥इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने अमृतमन्थनं नाम नवमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP