उत्तरभागः - अध्यायः २०

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


हयग्रीव उवाच
किरिचक्ररथेन्द्रस्य पञ्चपर्वसमाश्रिताः ।
देवताश्च शृणु प्राज्ञ नाम यच्छृण्वतां जयः ॥१॥

प्रथमं पर्वबिन्द्वाख्यं संप्राप्ता दण्डनायिका ।
सा तत्र जगदुद्दण्डकण्टकव्रातघस्मरी ॥२॥

नानाविधाभिर्ज्वालाभिर्नर्तयन्ती जयश्रियम् ॥३॥

उद्दण्डपोत्रनिर्घातनिर्भिन्नोद्धतदानवाः ।
दंष्ट्राबालमृगाङ्कांशुविभावनविभावरी ॥४॥

प्रावृषेण्यपयोवाहव्यूहनीलवपुर्ल्लता ।
किरिचक्ररथेन्द्रस्य सालङ्कारायते सदा ।
पोत्रिणी पुत्रिताशेषविश्वावर्तकदंबिका ॥५॥

तस्यैव रथनाभस्य द्वितीयं पर्व संश्रिताः ।
जृंभिनी मोहिनी चैव स्तंभिनी तिस्र एव हि ।
उत्फुल्लदाडिमीप्रख्यं सर्वदानवमर्दनाः ॥६॥

मुसलं च हलं हालापात्रं मणिगणर्पितम् ।
ज्वलन्माणिक्यवलयैर्बि भ्राणाः पाणिपल्लवैः ॥७॥

अतितीक्ष्णकरालाक्ष्यो ज्वालाभिर्दैत्यसैनिकान् ।
दहन्त्य इव निःशङ्कं सेवन्ते सूकराननाम् ॥८॥

किरिचक्ररथेन्द्रस्य तृतीयं पर्व संश्रिताः ।
अन्धिन्याद्याः पञ्च देव्यो देवीयन्त्रकृतास्पदाः ॥९॥

कठोरेणाट्टहासेन भिन्दन्त्यो भुवनत्रयम् ।
ज्वाला इव तु कल्पग्नेरङ्गनावेषमाश्रिताः ॥१०॥

भण्डासुरस्य सर्वेषां सैन्यानां रुधिरप्लुतिम् ।
लिलिक्षमाणा जिह्वाभिर्लेलिहानाभिरुज्ज्वलाः ॥११॥

सेवन्तें सततं दण्डनाथामुद्दण्डविक्रमाम् ।
किरिचक्ररथेन्द्रस्य चतुर्थं पर्व संश्रिताः ॥१२॥

ब्रह्माद्याः पञ्चमीवर्ज्या अष्टमीरवर्जिता अपि ।
षडेव देव्यः षट्चक्रज्वलज्ज्वालाकलेवराः ॥१३॥

महता विक्रमौघेण विबन्त्य इव दानवान् ।
आज्ञया दण्डनाथायास्तं प्रदेशमुपासते ॥१४॥

तस्यैव पर्वणोऽधस्तात्त्वरिताः स्थानमाश्रिताः ।
यक्षिणी शङ्खिनी चैव लाकिनी हाकिनी तथा ॥१५॥

शाकिनी डाकिनी चैव तासामैक्यस्वरूपिणी ।
हाकिनी सप्तमीत्येताश्चण्डदोर्दण्डविक्रमाः ॥१६॥

पिबन्त्य इव भूतानि पिबन्त्य इव मेदिनीम् ।
त्वचं रक्तं तथा मांसं मेदोऽस्थि च विरोधिनाम् ॥१७॥

मज्जानमथ शुक्रं च पिबन्तयो विकटाननाः ।
निष्ठुरैः सिंहनादैश्च पूरयन्त्यो दिशो दश ॥१८॥

धातुनाथा इति प्रोक्ता अणिमाद्यष्टसिद्धिदाः ।
मोहने मारणे चैव स्तंभने ताडने तथा ॥१९॥

भक्षणे दुष्टदैत्यानामामूलं च निकृन्तने ।
पण्डिताः खण्डिताशेषविपदो भक्तिशालिषु ॥२०॥

धातुनाथा इतिप्रोक्ताः सर्वधातुषु संस्थिताः ।
सप्तापि वारिधीनूर्मिमालासंचुंबितांबरान् ॥२१॥

क्षणर्धेनैव निष्पातुं निष्पन्नबहुसाहसाः ।
शकटा कारदन्ताश्च भयङ्करविलोचनाः ॥२२॥

स्वस्वामिनीद्रोहकृतां स्वकीयसमयद्रुहाम् ।
वैदिकद्रोहणादेव द्रोहिणां वीरवैरिणाम् ॥२३॥

यज्ञद्रोहकृतां दुष्टदैत्यानां भक्षणे समाः ।
नित्यमेव च सेवन्ते पोत्रिणीं दण्डनायिकाम् ॥२४॥

तस्यैव पर्वणः पार्श्वे द्वितीये दिव्यमन्दिरे ।
क्रोधिनी स्तंभिनी ख्याते वर्तेते देवते उभे ॥२५॥

चामरे वीजयन्त्यौ च लोलकङ्कणदोर्लते ।
देवद्विषां चमूरक्तहालापानमहोद्धते ॥२६॥

सदा विघूर्णमानाक्ष्यौ सदा प्रहसितानने ।
अथ तस्य रथेन्द्रस्य किरिचक्राश्रितस्य च ॥२७॥

पार्श्वद्वयकृतावासमायुधद्वन्द्वमुत्तमम् ।
हलं च मुसलं चैव देवतारूपमास्थितम् ॥२८॥

स्वकीयमुकुटस्थाने स्वकीयायुधविग्रहम् ।
आबिभ्राणं जग षिघस्मरं विबुधैः स्मृतम् ॥२९॥

एतदायुधयुग्मेन ललिता दडनायिका ।
खण्डयिष्यति संग्रामं विषङ्गं नामदानहम् ॥३०॥

तस्यैव पर्वणो दण्डनाथाया अग्रसीमनि ।
वर्त्तमानो महाभीमः सिंहो नादैर्ध्वनन्नभः ॥३१॥

दंष्ट्राकटकटात्कार बधिरीकृतदिङ्मुखः ।
चण्डोच्चण्ड इति ख्यातश्चतुर्हस्तस्त्रिलोचनः ॥३२॥

शूलखड्गप्रेतपाशान्दधानो दीप्तविग्रहः ।
सदा संसेवते देवीं पश्यन्नेव हि पोत्रिणीम् ॥३३॥

किरिचक्ररथेन्द्रस्य षष्टं पर्व समाश्रिताः ।
वार्त्ताल्याद्या अष्ट देव्यो दिक्ष्वष्टासूपविश्रुताः ॥३४॥

अष्टपर्वतनिष्पातघोरनिर्घातनिःस्वनाः ।
अष्टनागस्फुरद्भूषा अनष्टबलतेजसः ॥३५॥

प्रकृष्टदोष्प्रकाण्डोष्महुतदानवकोटयः ।
सेवन्ते ललितां देव्यो दण्डनाथामहर्निशम् ॥३६॥

तासामाख्याश्च विख्याताः समाकर्णय कुंभज ।
वार्ताली चैव वाराहीसा वाराहमुखी परा ॥३७॥

अन्धिनी रोधिनी चैव जृंभिणी चैव मोहिनी ।
स्तंभिनीति रिपुक्षोभस्तंभनोच्चाटनक्षमाः ॥३८॥

तासां च पर्वणो वामभागे सततसंस्थितिः ।
दण्डनाथोपवाह्यस्तु कासरो धूसराकृतिः ॥३९॥

अर्धक्रोशायतः शृङ्गद्वितये क्रोशविग्रहः ।
खड्गवन्निष्ठुरैर्लोमजातैः संवृतविग्रहः ॥४०॥

कालदण्डवदुच्चण्डबालकाण्डभयङ्करः ।
नीलाञ्जनाचलप्रख्यो विकटोन्नतरुष्टभूः ॥४१॥

महानीलगिरिश्रेष्ठगरिष्ठस्कन्धमण्डलः ।
प्रभूतोष्मलनिश्वासप्रसराकंपितांबुधिः ॥४२॥

घर्घरध्वनिना कालमहिषं विहसन्निव ।
वर्त्तते खुरविक्षिप्तपुष्कलावर्तवारिदः ॥४३॥

तस्यैव पर्वणोऽधस्ताच्चित्रस्थानकृतालयाः ।
इन्द्रादयोऽनेकभेदा दिशामष्टकदेवताः ॥४४॥

ललितायां कार्यसिद्धिं विज्ञापयितुमागताः ।
इन्द्रश्चाप्सरसश्चैव स चतुष्षष्टिकोटयः ॥४५॥

सिद्ध अग्निश्च साध्याश्च विश्वेदेवास्तथापरे ।
विश्वकर्मा मयश्चैव मातरश्च बलोन्नताः ॥४६॥

रुद्राश्च परिचाराश्च रुद्राश्चैव पिशाचकाः ।
क्रन्दञ्चिरक्षसां नाथा राक्षसा बहवस्तथा ॥४७॥

मित्राश्च तत्र गन्धर्वाः सदा गानविशारदाः ।
विश्वावसुप्रभृतयो विख्यातास्तत्पुरोगमाः ॥४८॥

तथा भूतगणाश्चान्ये वरुणो वासवः परे ।
विद्याधराः किन्नराश्च मारुतेश्वर एव च ॥४९॥

तथा चित्ररथश्चैव रथकारक कारकाः ।
तुंबुरुर्नारदो यक्षः सोमोयक्षेश्वरस्तथा ॥५०॥

देवैश्च भगवांस्तत्र गोविन्दः कमलापतिः ।
ईशानश्च जगच्चक्रभक्षकः शूलभीषणः ॥५१॥

ब्रह्मा चैवाश्विनीपुत्रो वैद्यविद्याविशारदौ ।
धन्वन्तरिश्च भगवानथान्ये गणनायकाः ॥५२॥

कटकाण्डगलद्दान संतर्पितमधुव्रताः ।
अनन्तो वासुकिस्तक्षः कर्केटः पद्म एव च ॥५३॥

महापद्मः शङ्खपालो गुलिकः सुबलस्तथा ।
एते नागेश्वराश्चैव नागकोटिभिरावृताः ॥५४॥

एवंप्रकारा बहवो देवतास्तत्र जाग्रति ।
पूर्वादिदिशमारभ्य परितः कृतमन्दिराः ॥५५॥

तत्रैव देवताश्चक्रे चक्राकारा मरुद्दिशः ।
आश्रित्य किल वर्तन्ते तदधिष्ठातृदेवताः ॥५६॥

जृंभिणी स्तंभिनी चैव मोहिनी तिस्र एव च ।
तस्यैव पर्वणः प्रान्ते किरिचक्रस्य भास्वतः ॥५७॥

कपालं च गदां बिभ्रदूर्ध्वकेशो महावपुः ।
पातालतलजंबालबहुला कारकालिमा ॥५८॥

अट्टहासमहावज्रदीर्णब्रह्माण्डमण्डलः ।
भिन्दन्डमरुकध्वानै रोदसीकन्दरोदरम् ॥५९॥

फूत्कारीत्रिपुरायुक्तं फणिपाशं करे वहन् ।
क्षेत्रपालः सदा भाति सेवमानः किटीश्वरीम् ॥६०॥

तस्यैव च समीपस्थस्तस्या वाहनकेसरी ।
यमा रुह्य प्रववृते भण्टासुरबधैषिणी ॥६१॥

प्रागुक्तमेव देवेशीवाहसिंहस्य लक्षण्म् ।
तस्यैव पर्वणोऽधस्ताद्दण्डनाथासमत्विषः ॥६२॥

दण्डिनीसदृशाशेषभूषणायुधमण्डिताः ।
शम्याः क्रोडाननाश्चन्द्ररेखोत्तंसितकुन्तलाः ॥६३॥

हलं च मुसलं हस्ते घूर्णयन्त्यो मुहुर्मुहुः ।
ललिताद्रोहिणां श्यामाद्रोहिणां स्वामिनीद्रुहाम् ॥६४॥

रक्तस्रोतोभिरुत्कूलैः पूरयन्त्यः कपालकम् ।
निजभक्तद्रोहकृता मन्त्रमालाविभूषणाः ॥६५॥

स्वगोष्ठीसमायाक्षेपकारिणां मुण्डमण्डलैः ।
अखण्डरक्तविच्छर्दैर्बिभ्रत्यो वक्षसि क्रजः ॥६६॥

सहस्रं देवताः प्रोक्ताः सेवमानाः किटीश्वरीम् ॥६७॥

तासां नामानि सर्वासां दण्डिन्याः कुंभसंभव ।
सहस्रनामाध्याये तु वक्ष्यन्ते नाधुना पुनः ॥६८॥

अथ तासां देवतानां कोलास्यानां समीपतः ।
वाहनं कृष्णसारङ्गो दण्डिन्याः समये स्थितः ॥६९॥

क्रोशार्धार्द्धायतः शृङ्गे तदर्धार्धायतो मुखे ।
क्रोशप्रमाणापादश्च सदा चोद्धृतवालधिः ॥७०॥

उदरे धवलच्छायो हुङ्कारेण महीयसा ।
हसन्मारुतवाहस्य हरिणस्य पराक्रमम् ॥७१॥

तस्यैव पर्वणो देशे वर्त्तते वाहनोत्तमम् ।
किरिचक्ररथेन्द्रस्य स्थितस्तत्रैव पर्वणि ॥७२॥

वर्त्तते मदिरासिंधुर्देवतारूपमास्थिता ।
माणिक्यगिरिवच्छोणं हस्ते पिशितपिण्डकम् ॥७३॥

दधाना घूर्णमा नाक्षी हेमांभोजस्रगावृता ।
मदशक्त्या समाश्लिष्टा धृतरक्तसरोजया ॥७४॥

यदायदा भण्डदैत्यः संग्रामे संप्रवर्तते ।
युद्धस्वेद मनुप्राप्ताः शक्तयः स्युः पिपासिताः ॥७५॥

तदातदा सुरासिंधुरात्मानं बहुधा क्षिपन् ।
रणे खेदं देवतानामञ्जसापाकरिष्यति ॥७६॥

तदप्यद्भुतमे वर्षे भविष्यति न संशयः ।
तदा श्रोष्यसि संग्रामे कथ्यमानं मया मुदा ॥७७॥

तस्यैव पर्वणोऽधस्तादष्टदिक्ष्वघ एव हि ।
उपर्यपि कृतावासा हेतुकाद्या दश स्मृताः ॥७८॥

महान्तो भैरवश्रेष्ठाः ख्याता विपुलविक्रमाः ।
उद्दीप्तायुत तेजोभिर्द्दिवा दीपितभानवः ॥७९॥

कल्पान्तकाले दण्डिन्या आज्ञया विश्वघस्मराः ।
अत्युदग्रप्रकृतयो रददष्टौष्ठसंपुटाः ॥८०॥

त्रिशूलाग्रविनिर्भिन्नमहावारिदमण्डलाः ।
हेतुकस्त्रिपुरारिश्च तृतीयश्चाग्निभैरवः ॥८१॥

यमजिह्वैकपादौ च तथा कालकरालकौ ।
भीमरूपो हाटकेशस्तथैवाचलनामवान् ॥८२॥

एते दशैव विख्याता दशकोटिभटान्विताः ।
तस्यैव किरिचक्रस्य वर्तन्ते पर्वसीमनि ॥८३॥

एवं हि दण्डनाथायाः किरिचक्रस्य देवताः ।
जृंभिण्याद्यचलेन्द्रान्ताः प्रोक्तास्त्रैलोक्यपावनाः ॥८४॥

तत्रत्यैर्देवतावृन्दैर्बहवस्तत्र संगरे ।
दानवा मारयिष्यन्ते पास्यन्ते रक्तवृष्टयः ॥८५॥

इत्थं बहुविधत्राणं पर्वस्थैर्देवतागणैः ।
किरिचक्रं दण्डनेत्र्या रथरत्नं चचाल ह ॥८६॥

चक्रराजरथो यत्र तत्र गेयरथोत्तमः ।
यत्र गेयरथस्तत्र किरिचक्ररथोत्तमः ॥८७॥

एतद्रथ त्रयं तत्र त्रैलोक्यमिव जङ्गमम् ।
शक्तिसेनासहस्रस्यान्तश्चचार तदा शुभम् ॥८८॥

मेरुमन्दरविन्ध्यानां समवाय इवाभवत् ।
महाघोषः प्रववृते शक्तीनां सैन्यमण्डले ।
चचाल वसुधा सर्वा तच्चक्ररवदारिता ॥८९॥

ललिता चक्रराजाख्या रथनाथस्य कीर्तिताः ।
षट्सारथय उद्दण्डपाशग्रहणकोविदाः ॥९०॥

यत्र गेयरथस्तत्र किरिचक्ररथोत्तमम् ।
इति देवी प्रथमतस्तथा त्रिपुरभैरवी ॥९१॥

संहारभैरवश्चान्यो रक्तयोगिनिवल्लभः ।
सारसः पञ्चमश्चैव चामुण्डा च तथा परा ॥९२॥

एतासु देवतास्तत्र रथसारथयः स्मृताः ।
गेयच क्ररथेन्द्रस्य सारथिस्तु हसंतिका ॥९३॥

किरिचक्ररथेन्द्रस्य स्तंभिनी सारथिः स्मृता ।
दशयोजनमुन्नम्रो ललितारथपुङ्गवः ॥९४॥

सप्तयोजनमुच्छ्रायो गीतसक्ररथोत्तमः ।
षड्योजनसमुन्नम्रो किरिचक्ररथो मुने ॥९५॥

महामुक्तातपत्रं तु दशयोजनविस्तृतम् ।
वर्तते ललितेशान्या रथ एव न चान्यतः ॥९६॥

तदेव शक्तिसाम्राज्यसूचकं परिकीर्तितम् ।
सामान्यमातपत्रं तु तथद्वन्द्वेपि वर्तते ॥९७॥

अथ सा ललितेशानी सर्वशक्तिमहेश्वरी ।
महासाम्राज्यपदवीमारूढा परमेश्वरी ॥९८॥

चचाल भण्डदेत्यस्य क्षयसिद्ध्यभिकाङ्क्षिणी ।
शब्दायन्ते दिशः सर्वाः कंपते च वसुंधरा ॥९९॥

क्षुभ्यन्ति सर्वभूतानि ललितेशाविनिर्गमे ।
देवदुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः ॥१००॥

विश्वावसुप्रभृतयो गन्धर्वाः सुरगायकाः ।
तुम्बुरुर्नारदश्चैव साक्षादेव सरस्वती ॥१०१॥

जयमङ्गल पद्यानि पठन्तः पटुगीतिभिः ।
हर्षसंफुल्लवदनाः स्फुरत्पुलकभूषणाः ।
मुहुर्जयजयेत्येवं स्तुवाना ललितेश्वरीम् ॥१०२॥

हर्षेणाढ्या मदोन्मत्ताः प्रनृत्यन्तः पदेपदे ।
सप्तर्षयो वशिष्ठाद्या ऋग्यजुः सामरूपिभिः ॥१०३॥

अथर्वरूपैर्मन्त्रैश्च वर्धयन्तो जयश्रियम् ।
हविषेव महावह्निशिखामत्यन्तपाविनीम् ॥१०४॥

आशीर्वादेन महता वर्धयामासुरुत्तमाः ।
तैः स्तूयमाना ललिता राजमाना रथोत्तमे ॥१०५॥

भण्डासुरं विनिर्जेतुमुद्दण्डैः सह सैनिकैः ॥१०६॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने किरिचक्ररथदेवताप्रकाशनं नाम विंशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP