उत्तरभागः - अध्यायः २

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


वायुरुवाच
असाधारणवृत्तैस्तु हुतशेषादिभिर्जनैः ।
धर्मा वैशेषिकाश्चैव आचीर्णाः सूक्ष्मदर्शिभिः ॥१॥

ते देवैः सह तिष्ठन्ति महर्लोकनिवासिनः ।
चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्द्धनाः ॥२॥

अतीता वर्त्तमानाश्च तथैवानागताश्च ये ।
देवाश्च ऋषयश्चैव मनवः पितरस्तथा ॥३॥

सर्वे ह्युक्ता मयातीत महर्लोकं समाश्रिताः ।
ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सरैः ॥४॥

तैस्तथाकारिभिर्युक्तैः श्रद्धावद्भिरदर्पितैः ।
वर्णाश्रमाणान्धर्मेषु श्रौतस्मार्त्तेषु संस्थितैः ।
विनिवृत्ताधिकारास्ते यावन्मन्वन्तरक्षयः ॥५॥

ऋषय ऊचुः
महर्ल्लोकेति यत्प्रोक्तं मातरिश्वंस्त्वया विभोः ॥६॥

प्रतिलोके तु कर्त्तव्यं तत्रकिं समधिष्ठितम् ।
प्रोवाच मधुरं वाक्यं यथा तत्त्वेन तत्त्ववित् ॥७॥

वायुरुवाच
चतर्दशैव स्थानानि निर्मितानि महर्षिभिः ।
लोकाख्यानि तु यानि स्युर्येषां तिष्ठन्ति मानवाः ॥८॥

सप्त तेषु कृतान्याहुरकृतानि तु सप्त वै ।
भूरादयस्तु सत्यान्ताः सप्त लोकाः कृतास्त्विह ॥९॥

अकृतानि तु सप्तैव प्राकृतानि तु यानि वै ।
स्थानानि स्थानिभिः सार्द्धं कृतानि तु निबन्धनम् ॥१०॥

पृथिवी चान्तरीक्षं च दिव्यं यच्च महः स्मृतम् ।
स्थानान्येतानि चत्वारि स्मृतान्यावर्णकानि च ॥११॥

क्षयातिशययुक्तानि तथायुक्तानि चक्षते ।
यानि नैमित्तिकानि स्युस्तिष्ठन्त्याभूतसंप्लवात् ॥१२॥

जनस्तपश्च सत्यं च स्थानान्येतानि त्रीणि तु ।
एकान्तिकानि तानि स्युस्तिष्ठन्तीहाप्रसंयमात् ॥१३॥

व्यक्तानि तु प्रवक्ष्यामि स्थानान्येतानि सप्त वै ।
भूर्लोकः प्रथमस्तेषां द्वितीयस्तु भुवः स्मृतः ॥१४॥

स्वस्तृतीयस्तु विज्ञेयश्चतुर्थो वै महः स्मृतः ।
जनस्तु पञ्चमो लोकस्तपः षष्ठो विभाव्यते ॥१५॥

सत्यस्तु सप्तमो लोको निरालोकस्ततः परम् ।
भूरिति व्याहृतेः पूर्व भूर्लोकश्च ततोऽभवत् ॥१६॥

द्वीतीयो भुव इत्युक्त अन्तरिक्षं ततोऽभवत् ।
तृतीयं स्वरितीत्युक्तो दिवं प्रादुर्बभूव ह ॥१७॥

व्याहारैस्त्रिभिरेतैस्तु ब्रह्मा लोकमकल्पयत् ।
ततो भूः पार्थिवो लोको ह्यन्तरिक्षं भूवः स्मृतम् ॥१८॥

स्वर्लोकं वै दिवं ह्येष पुराणे निश्चयो गतः ।
भूतस्याधिपतिश्चाग्निस्ततो भूतपतिः स्मृतः ॥१९॥

वायुर्भुवश्चाधिपतिस्तेन वायुर्भुवस्पतिः ।
दिवस्य सूर्योऽधिपतिस्तेन सूर्यो दिवस्पतिः ॥२०॥

महेति व्यात्दृतेनैव महर्लोकस्ततोऽभवत् ।
विनिवृत्ताधिकारणां देवानां तत्र वै क्षयः ॥२१॥

जनस्तु पञ्चमो लोकस्तस्माज्जायन्ति वै जनाः ।
तासां स्वायंभुवाद्यानां प्रजानां जननाज्जनः ॥२२॥

ये ते स्वायंभुवाद्या हि पुरस्तात्परिकीर्त्तिताः ।
कल्प एते यदा लोके प्रतिष्ठन्ति तदा तपः ॥२३॥

ऋभुः सनत्कुमाराद्या यत्रासन्नूर्द्ध्वरेतसः ।
तपसा भावितात्मानस्तत्र संतीति वा तपः ॥२४॥

सत्येति ब्रह्मणः शब्दः सत्तामात्रस्तु स स्मृतः ।
ब्रह्मलोकस्ततः सत्यः सप्तमः स तु भास्वरः ॥२५॥

गन्धर्वाप्सरसो यक्षा गुह्यकास्तु सराक्षसाः ।
सर्वभूतपिशाचाश्च नागाश्च सह मानुषैः ॥२६॥

स्वर्लोकवासिनः सर्वे देवा भुवि निवासिनः ।
मरुतो मातरिश्वानो रुद्रा देवास्तथाश्विनौ ॥२७॥

अनिकेतान्तरिक्षास्ते भुवर्लोका दिवौकसः ।
आदित्या ऋभवो विश्वे साध्याश्च पितरस्तथा ॥२८॥

ऋषयोङ्गिर सश्चैव भुवर्लोकं समाश्रिताः ।
एते वैमानिका देवास्ताराग्रहनिवासिनः ॥२९॥

आरंभन्ते तु तन्मात्रैः शुद्धास्तेषां परस्परम् ।
शुक्राद्याश्चक्षुषान्ताश्च ये व्यतीता भुवं श्रिताः ॥३०॥

महर्लोकश्चतुर्थस्तु तस्मिंस्ते कल्पवासिनः ।
इत्येते क्रमशः प्रोक्ता ब्रह्मव्याहारसंभवाः ॥३१॥

भूर्लोकप्रथमा लोका महरन्ताश्च ते स्मृताः ।
तान्सर्वान्सप्तसूर्यास्ते अर्चिभिर्निर्दहन्ति वै ॥३२॥

मारीचिः कश्यपो दक्षस्तथा स्वायंभुवोङ्गिराः ।
भृगुः पुलस्त्यः पुलहः क्रतुरित्येवमादयः ॥३३॥

प्रजानां पतयः सर्वे वर्त्तंन्ने तत्र तैः सह ।
निःसत्त्वा निर्ममाश्चैव तत्र ते ह्यूर्द्वरेतसः ॥३४॥

ऋभुः सनत्कुमाराद्या वैराजास्ते तपोधनाः ।
मन्वन्तराणां सर्वेषां सावर्णानां ततः स्मृताः ॥३५॥

चतुर्दशानां सर्वेषां पुनरावृत्तिहेतवः ।
योगं तपश्च सत्त्वं च समाधाय तदात्मनि ॥३६॥

षष्ठे काले निवर्त्तते तदा प्राहुर्विपर्ययात् ।
सत्यस्तु सप्तमो लोको ह्यपुनर्मार्गगामिनाम् ॥३७॥

ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ।
पर्यासपरिमाणेन भूर्लोकः समभिस्मृतः ॥३८॥

भूम्यन्तरं यदादित्यादन्तरिक्षं भुवः स्मृतम् ।
सूर्यध्रुवान्तरं यच्च स्वर्गलोको दिवः स्मृतः ॥३९॥

ध्रुवाज्जनान्तरं यच्च महर्लोकः स उच्यते ।
व्याख्याताः सप्तलोकास्तु तेषां वक्ष्यामि सिद्धयः ॥४०॥

भूर्लोकवासिनः सर्वे उन्नादास्तु रसात्मकाः ।
भुवि स्वर्गे च ये सर्वे सोमपा आज्यपाश्च ते ॥४१॥

चतुर्थे येऽपि वर्त्तन्ते महर्लोकं समाश्रिताः ।
विज्ञेया मानसी तेषां सिद्धिर्वै पञ्चलक्षणा ॥४२॥

सद्यश्चोत्पद्यते तेषां मनसा सर्वमीप्सितम् ।
एते देवा यजन्ते वै यज्ञैः सर्वैः परस्परम् ॥४३॥

अतीता वर्त्तमानाश्च तथा ये चाप्यनागताः ।
प्रथमानन्तरोद्दिष्टा अन्तराः सांप्रतैः पुनः ॥४४॥

निवर्त्तते हि संबन्धोऽतीते देवगणे तपः ।
विनिवृत्ताधिकाराणां सिद्धस्तेषां तु मानसी ॥४५॥

तषां तु मानसी ज्ञेया शुद्धा सिद्धिः परस्परात् ।
उक्ता लोकास्तु चत्वारो जनस्यानुविधिस्तथा ।
समासेन मया विप्रा भूयस्तं वर्त्तयामि वः ॥४६॥

वायुरुवाच
मरीचिः कश्यपो दक्षो वसिष्ठश्चाङ्गिरा भृगुः ॥४७॥

पुलस्त्यः पुलहस्छैव क्रतुरित्येवामादयः ।
पूर्वं ते संप्रसूयन्ते ब्रह्मणो मानसा इह ॥४८॥

ततः प्रजाः प्रतिष्ठाप्य जनमेवाश्रयन्ति ते ।
कल्पदाहेषु तु सदा तथा कालेषु तेषु वै ॥४९॥

भूरादिषु महान्तेषु भृशं व्याप्ते यथाग्निना ।
शिखाः संवर्त्तकाग्नेर्याः प्राप्नुवन्ति सवासनाः ॥५०॥

यामादयो गणाः सर्वे महर्लोकनिवासिनः ।
महर्लोकेषु दीप्तेषु जनमेवाश्रयन्ति ते ॥५१॥

सर्वे सूक्ष्मशरीरास्ते तत्रस्थाश्च भवन्ति ते ।
तेषां ते तुल्यसामर्थ्या स्तुल्यमूर्त्तिधरास्तथा ॥५२॥

जनलोके विवर्त्तन्ते संवर्त्तः प्लवते जगत् ।
व्युष्टायां तु रजन्यां वै ब्रह्मणोऽव्यक्तयोनितः ॥५३॥

अहरादौ प्रसूयन्ते पूर्ववत्क्रमशस्त्विह ।
स्वायंभुवादयः सर्वे मरीच्यन्तास्तु साधकाः ॥५४॥

देवास्ते वै पुनस्तेषां जायन्ते निधनेष्विह ।
यामादयः क्रमेणैव कनिष्ठाद्याः प्रजापतेः ॥५५॥

पूर्वं पूर्वे प्रसूयन्ते पश्चिमे पश्चिमास्तथा ।
देवान्वये देवता हि सप्त संभूत यः स्मृताः ॥५६॥

व्यतीताः कल्पजास्तेषां तिस्रः शिष्टास्तथापरे ।
आवर्त्तमाना देवास्ते क्रमेणैतेन सर्वशः ॥५७॥

गत्वा जव जवीभावं दशकृत्वाः पुनः पुनः ।
ततस्ते वै गणाः सर्वे दृष्ट्वा भावेष्वनित्यताम् ॥५८॥

भाविनोर्ऽथस्य च बलात्पुण्यख्यातिबलेन च ।
निवृत्तवृत्त्यः सर्वेऽत्रस्थाः सुमनसस्तथा ॥५९॥

वैराजमुपपद्यन्ते लोकानुत्सृज्य तं गताः ।
ततोऽनेनैव कालेन नित्ययुक्तास्तपस्विनः ॥६०॥

कथनाच्चैव धर्मस्य तेषां ते जज्ञिरेऽन्वये ।
इहोत्पन्नास्ततस्ते वै स्थानान्यापूरयन्त्युत ॥६१॥

देवत्वे च ऋषित्वे च मनुष्यत्वे च सर्वशः ।
एवं देवगणाः सर्वे दशकृत्वो निवर्त्यवै ॥६२॥

वैराजेषूपपन्नास्ते दश तिष्ठन्त्युपप्लवान् ।
पूर्णोपूर्णो ततः कल्पेस्थित्वा वैराजके पुनः ॥६३॥

ब्रह्मलोके विवर्त्तन्ते पूर्वपूर्वक्रमेण तु ।
एतस्मिन्ब्रह्मलोके तु कल्पे वैराजके गते ॥६४॥

वैराजः पुनरव्यक्ते कल्पस्थानमकल्पयत् ।
एवं पूर्वानुपूर्व्येण ब्रह्मलोकगतेन वै ॥६५॥

वैराजेषूपपद्यन्ते दशकृत्वो विवर्त्यत ।
एवं देवयुगानीह व्यतीतानि सहस्रशः ॥६६॥

निधनं ब्रह्मलोके तु गतानामृषिभिः सह ।
न शक्यमानुपूर्व्येण तेषां वक्तुं प्रविस्तरम् ॥६७॥

अनादित्वाच्च कालस्य ह्यसंख्यानाच्च सर्वशः ।
एवमेव न संदेहो यथावत्कथितं मया ॥६८॥

तदुपश्रुत्य वाक्यार्थमृषयः संशयान्विताः ।
सूतमाहुः पुराणज्ञं व्यासशिष्यं महामतिम् ॥६९॥

ऋषय ऊचुः
वैराजास्ते यदाहारा यत्सत्त्वाश्च यदाश्रयाः ।
तिष्ठन्ति चैव यत्कालं तन्नो ब्रूहि यथातथम् ॥७०॥

तदुक्तमृषिभिर्वाक्यं श्रुत्वा लोकार्थतत्त्ववित् ।
सूतः पौराणिको वाक्यं विनयेनेदम ब्रवीत् ॥७१॥

ततः प्राप्य तु सर्वेशं शुद्धबुद्धिं तमाश्रयत् ।
आभूतसंप्लवास्तत्र दश तिष्ठन्ति तेऽज्वराः ॥७२॥

सर्वे सूक्ष्मशरीरास्ते विद्वांसो घनमूर्तयः ।
स्थितलोकस्थितत्वाच्च तेषां भूतं न विद्यते ॥७३॥

ऊचुः सनत्कुमाराद्याः सिद्धास्ते योगधर्मिणः ।
एवमेव महाभागाः प्रणवं संप्रविश्य ह ॥७४॥

ब्रह्मलोके प्रवर्त्तामस्तन्नः श्रेयो भविष्यते ।
एवमुक्त्वा तदा सर्वे ब्रह्माण्डाध्यवसायि नः ॥७५॥

याजयित्वा तदात्मानो वर्त्तन्ते योगधर्मिणः ।
तत्रैव संप्रलीयन्ते शान्ता दीपर्चिषो यथा ॥७६॥

ब्रह्मकायमवर्त्तन्त पुन रावृत्तिदुर्लभम् ।
लोकं तं समनुप्राप्य सर्वे ते भावनामयम् ॥७७॥

आनन्दं ब्रह्मणः प्राप्य अमृतत्वाय ते गताः ।
वैराजेभ्यस्तथैवोर्द्ध्व मन्तरे षड्गुणे ततः ॥७८॥

ब्रह्मलोकः समाख्यातो यत्र ब्रह्मा पुरोहितः ।
ते सर्वे प्रणवात्मानो बुद्धिशुद्धतया स्थिताः ॥७९॥

आनन्दं ब्रह्मणः प्राप्य ह्यमृतत्वं भजन्त्युत ।
द्वन्द्वैस्ते नाभिभूयन्ते भावत्रयविवर्जिताः ॥८०॥

आधिपत्यं विना तुल्या ब्रह्मणस्ते महौजसः ।
प्रभावविजयैश्वर्यस्थितिवैराग्यदर्शनः ॥८१॥

ते ब्रह्मलौकिकाः सर्वे गतिं प्राप्यानिवर्त्तिनीम् ।
ब्रह्मणा सहदेवैश्च संप्राप्ते प्रतिसंचरे ॥८२॥

तपसोंऽते क्रियात्मानो बुद्धावस्था मनीषिणः ।
अव्यक्ते संप्रलीयन्ते सर्वे ते क्षणदर्शिनः ॥८३॥

इत्येतदमृतं शुक्रं नित्यमक्षयव्ययम् ।
देवर्षयो ब्रह्मसत्रं सनातनमुपासते ॥८४॥

अपुनर्मारकादीनां तेषां चैवोद्ध्वरेतसाम् ।
कर्माभ्यासकृतां श्रद्धां वेदान्तेषूपलक्ष्यते ॥८५॥

तत्र तेऽभ्यासिनो युक्ताः परां काष्ठामुपासते ।
हित्वा शरीरं पाप्मानममृतत्वाय ते गाताः ॥८६॥

वीतरागा जितक्रोधा निर्मोहाः सत्यवादिनः ।
शान्ताः प्रणिहितात्मानो दयावन्तो जितेन्द्रियाः ॥८७॥

निःसंगाः शुचयश्चैव ब्रह्मसायुज्यगाः स्मृताः ।
अकामयुक्तैर्ये वीरास्तपोभिर्दग्धकिल्बिषाः ॥८८॥

तेषांमभ्रंशिनो लोका अप्रमेयसुखाः स्मृताः ।
एतद्ब्रह्मपदं दिव्यं परमे व्योम्नि भास्वरम् ।
यत्र गत्वा न शोचन्ति ह्यमरा ब्रह्मणा सह ॥८९॥

ऋषय ऊचुः
कस्मादेषु परार्द्धंश्च कश्चैव पर उच्यते ।
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम ॥९०॥

सूत उवाच
शृणुध्वं मे परार्द्धस्य परिसंख्यां परस्यच ॥९१॥

एकं दशशतं चैव सहस्रं चैव संख्याया ।
विज्ञेयमासहस्रं तु सहस्राणि दशायुतम् ॥९२॥

एकं शतसहस्रं तु नियुतं प्रोच्यते बुधैः ।
तथा शतसहस्राणां दशप्रयुतमुच्यते ॥९३॥

तथा दशसहस्राणामयुतं कोटिरुच्यते ।
अर्बुदं दशकोट्यस्तु ह्यब्जं कोटिशतं विदुः ॥९४॥

सहस्रमापि कोटीनां खर्वमाहुर्मनीषिणः ।
दशकोटिसहस्राणि निखर्वमिति तं विदुः ॥९५॥

शतं कोटि सहस्राणां शङ्कुरित्यभिधीयते ।
सहस्रं तु सहस्राणां कोटीनां पद्ममुच्यते ॥९६॥

सहस्राणि सहस्राणां कोटीनां दशधा पुनः ।
गुणितानि समुद्रं वै प्राहुः संख्याविदो जनाः ॥९७॥

कोटीसहस्रनियुतमन्त्यमित्यभिधीयते ।
कोटीसहस्रप्रयुतं मध्यमित्यभिसंज्ञितम् ॥९८॥

कोटिकोटिसहस्रं तु परार्द्ध इति कीर्त्यते ।
परार्द्धं द्विगुणं चापि परमाहुर्मनीषिणः ॥९९॥

शतमाहुः परिवृढं सहस्रं परिपद्मकम् ।
विज्ञेयमयुतं तस्मान्नियुतं प्रयुतं ततः ॥१००॥

अर्बुदं न्यर्बुदं चैव खर्बुदं च ततः स्मृतम् ।
खर्वं चैव निखर्वं च शङ्कुः पद्मन्तथैव च ॥१०१॥

समुद्रमन्त्यं मध्यं च परार्द्धं च परं ततः ।
एवमष्टादशैतानि स्थानानि गणनाविधौ ॥१०२॥

शतादीनि विजानीयात्संज्ञितानि महर्षिभिः ।
कल्पसंख्याप्रवृत्तस्य परार्द्धो ब्रह्ममः स्मृतः ॥१०३॥

तावच्छेषोऽपि कालोऽस्य तस्यान्ते प्रतितिष्ठते ।
पर एव परार्द्धश्च संख्यातः संख्याया मया ॥१०४॥

यस्मादस्य परं विर्यं परमायुः परं तपः ।
परा शक्तिः परो धर्मः पराविद्या परा धृतिः ॥१०५॥

परं ब्रह्म परं ज्ञानं परमैश्वर्यमेव च ।
तस्मात्परतरं भूतं ब्रह्मणो यन्न विद्यते ॥१०६॥

परे स्थितो ह्येष परः सर्वार्थेवु ततः परम् ।
संख्यातस्तु परो ब्रह्मा तस्यार्द्धस्य परार्द्धता ॥१०७॥

संख्येयं चाप्यसंख्येयं सततं चापि तान्त्रिकम् ।
संख्येयं संख्यया दृष्टमपरार्द्धाद्विभाष्यते ॥१०८॥

राशौ दृष्टे न संख्यास्ति तदसंख्यास्तु लक्ष्णम् ।
आनन्त्यं सिकता द्येषु हृष्टं चान्यं त्वलक्षणम् ॥१०९॥

ईश्वरैस्तत्प्रसंख्यानं शुद्धत्वाद्दिव्यदृष्टिभिः ।
एवं ज्ञानप्रतिष्ठत्वात्सर्वं ब्रह्मानुपश्यति ॥११०॥

एतच्छ्रुत्वा तु ते सर्वे नैमिषेयास्तपस्विनः ।
बाष्पपर्याकुलाक्षास्तु प्रहर्षाद्गद्गदस्वराः ॥१११॥

पप्रच्छुर्मातारिश्वानं सर्वे ते ब्रह्मवादिनः ।
ब्रह्मलोकस्तु भगवन्यावन्मात्रान्तरे प्रभो ॥११२॥

योजनाग्रेण संख्यातः साधनं योजनस्य तु ।
क्रोशस्य च परीमाणं श्रोतुमीच्छाम तत्त्वतः ॥११३॥

तेषां तद्वचनं श्रुत्वा मातरिश्वा विनीतवत् ।
उवाच मधुरं वाक्यं यथादृष्टं यथाक्रमम् ॥११४॥

वायुरुवाच
एतद्वोऽहं प्रवक्ष्यामि श्रुणुध्वं मे विवक्षितम् ।
अव्यक्ताद्व्यक्तभागो वै महान्स्थूलो विभाष्यते ॥११५॥

दशैव महतो भागा भूतादिः स्थूल उच्यते ।
दशभागाधिकं चापि भूतादिपरिमाणकम् ॥११६॥

परमाणुः सुसूक्ष्मस्तु भावग्राह्यो न चक्षुषा ।
यदभेद्यतमं लोके विज्ञेयं परमाणुवत् ॥११७॥

जालान्तरगते भानैं यत्सूक्ष्मं दृश्यते रजः ।
प्रथमं तत्प्रमाणानां परमाणुं प्रचक्षते ॥११८॥

अष्टानां परमाणूनां समावायो यदा भवेत् ।
त्रसरेणुः समाख्यातस्तत्पद्मरज उच्यते ॥११९॥

त्रसरेणवोऽथ येऽप्यष्टौ रथरेणुस्तु सस्मृतः ।
तेऽप्यष्टौ समवायस्था बालाग्रं तत्स्मृतं बुधैः ॥१२०॥

बालाग्राण्यष्टलिक्षा स्याद्यूकालिक्षाष्टकं भवेत् ।
यूकाष्टकं यवप्राहुरङ्गुलं तु यवाष्टकम् ॥१२१॥

द्वादशाङ्गुलपर्वाणि वितस्तिस्थानमुच्यते ।
रत्निश्चागुलिपर्वाणि विज्ञेयो ह्येकविंशतिः ॥१२२॥

चत्वारो विंशतिश्चैव हस्तः स्यादङ्गुलानि तु ।
किष्कुर्द्विरत्निर्विज्ञेयो द्विचत्वारिंशदङ्गुलः ॥१२३॥

षण्णवत्यङ्गुलं चैव धनुराहुर्मनीषिणः ।
एतद्गव्यूतिसंख्यायामादानं धनुषः स्मृतम् ॥१२४॥

धनुर्दण्डयुगं नाली तुल्यान्यस्तैस्तथाङ्गुलैः ।
धनुषां त्रिशतं नल्वमाहुः संख्याविदो जनाः ॥१२५॥

धनुः सहस्रे द्वे चापि गव्यूतिरुपदिश्यते ।
अष्टौ धनुः सहस्राणि योजनं तु विधीयते ॥१२६॥

एतेन धनुषा चैव योजनं तु समाप्यते ।
एतत्सहस्रं विज्ञेयं शक्रकोशान्तरं तथा ॥१२७॥

योजनानां च संख्यातं संख्याज्ञानविशारदैः ।
एतेन योजनाग्रेण शृणुध्वं ब्रह्मणोंऽतरे ॥१२८॥

महीतलात्सहस्राणां रातादूर्ध्वं दिवाकरः ।
दिवाकरात्सहस्रे तु शते चौर्द्ध्वं निशाकरः ॥१२९॥

पूर्णं शतसहस्रं तु योजनानां निशाकरात् ।
नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशत ॥१३०॥

शतं सहस्रं संख्यातमेतद्द्विगुणितं पुनः ।
ग्रहान्तरमथैकैकमूर्द्ध्वं नक्षत्रमण्डरात् ॥१३१॥

ताराग्रहाणां सर्वेषामध्यस्ताच्चरते बुधः ।
तस्योर्द्ध्वं चरते शुक्रस्तस्मादूर्द्ध्वं च लोहितः ॥१३२॥

ततो बृहस्पतिश्चोर्द्ध्वं तस्मादूर्द्ध्वं शनैश्चरः ।
उर्द्ध्वं शतसहस्रं तु योजनानां शनैश्चरात् ॥१३३॥

सप्तर्षिमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ।
ऋषिभ्यस्तु सहस्राणां शतादूर्द्ध्वं विभाष्यते ॥१३४॥

योऽसौ तारामये दिव्ये विमाने ह्रस्वरूपके ।
उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि ॥१३५॥

त्रैलोक्यस्यैष उत्सेधो व्याख्यातो योजनैर्मया ।
मन्वन्तरेषु देवानामिज्या यत्रैव लौकिकी ॥१३६॥

वर्णाश्रमेभ्य इष्टा तु लोकेऽस्मिन्संप्रवर्त्तते ।
सर्वासां देवयोनीनां स्थितिहेतुः स वै स्मृतः ॥१३७॥

त्रैलोक्यमेतद्व्याख्यातमत ऊर्द्ध्वं निबोधत ।
ध्रुवादूर्द्ध्वं महर्लोको यस्मिंस्ते कल्पवासिनः ॥१३८॥

एकायोजनकोटीशा इत्येवं निश्चयोगतः ।
द्वीकोट्यां तु महर्लोकाज्जनलोको व्यवस्थितः ॥१३९॥

यत्र ते ब्रह्मणः पुत्रा दक्षाद्याः साधकाः स्मृताः ॥१४०॥

वै राजा यत्र ते देवा भूतदाहविवर्जिताः ।
षड्गुणं तु तपोलोकात्सत्यलोकान्तरं स्मृतम् ॥१४१॥

अपुनर्मारको नाम ब्रह्मलोकः स उच्यते ।
यस्मिन्न च्यवते भूयो ब्रह्मणं य उपासते ॥१४२॥

एककोटिर्योजनानां पञ्चाशन्नियुतानि तु ।
ऊर्द्ध्वभागस्ततोंऽडस्य ब्रह्मलोकात्परः स्मृतः ॥१४३॥

चतुर्दशैव कोट्यस्तु नियुतानि च पञ्च षट् ।
स चौर्द्ध्व संप्रचारोऽस्य गत्यन्तश्चपरः स्मृतः ॥१४४॥

ध्रुवाग्रमेतद्व्याख्यातं योजनग्राद्यथाश्रुतम् ।
अधोगतीनां वक्ष्यामि भूतानां स्थानकल्पनाम् ॥१४५॥

गच्छन्ति घोरकर्माणः प्राणिनो यत्र कर्मभिः ।
नरको रौरवो घोरः शूकरस्ताल एवं च ॥१४६॥

तप्तकुम्भो महाज्वालः शबलोऽथ विमोहनः ।
कृमी च कृमिभक्षश्च लालाभक्षो विशंसनः ॥१४७॥

अधःशिराः पूयवहो रुधिरान्धुस्तथैवच ।
विष्टाकीर्णश्च नरको मूत्रकीर्ण स्तथैव च ॥१४८॥

तथा वैतरणी कृष्णमसिपत्रवनं तथा ।
अग्निज्वालो महाघोरः संदंशोऽथाश्वभोजनः ॥१४९॥

तमश्चकृष्णसूत्रश्च लोहश्चाप्यभिजस्तथा ।
अप्रतिष्ठोऽथ वीचिश्च नरका ह्येवमादयः ॥१५०॥

तामसा नरकाः सर्वे यमस्य विषये स्थिताः ।
येषु दुष्कृतकर्माणः पतन्तीह वृथक्पृथक् ॥१५१॥

भूमेरधस्तात्ते सर्वे रौरवाद्यः प्रकीर्त्तिताः ।
रौरवे कूटसाक्षे तुमिथ्या यश्चाभिशसति ॥१५२॥

क्रूरग्रह पक्षवादी ह्यसक्तः पतते नरः ।
राधो गोध्रो भ्रूणहा च ह्यग्निदाता पुरस्य च ॥१५३॥

शूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः ।
ताले पतेत्क्षत्रियहा हत्वा वैश्यं च मज्जति ॥१५४॥

ब्रह्महत्या च यः कुर्याद्यश्च स्याद्गुरुतल्पगः ।
सप्तकुम्भेष्वसौ गामी तथा राजभटश्च यः ॥१५५॥

संताप्यते वाश्वणिक्तथाच धनरक्षिता ।
साध्वीविक्रयकर्त्ता च यस्तु भक्तं परित्यजेत् ॥१५६॥

महाज्वाले दुहितरं स्नुषां गच्छति यस्तु वै ।
वेदं विक्रीणतेये च वेदं वै दूषयन्ति ये ॥१५७॥

गुरुंश्चैवावमन्यन्ते वाक्शरैस्ताडयन्ति च ।
अगम्यगामी च नरो नरकं शबलं व्रजेत् ॥१५८॥

विमोहे पतते घोरे मर्यादां योभिनत्ति वै ।
दुरिष्टं कुरुते यस्तु कीडलोहं प्रपद्यते ॥१५९॥

देवब्राह्मणविद्वेष्टा गुरूणां वाप्यपूजकः ।
रत्नं दूषयते यस्तु कृमिभक्षे प्रपद्यते ॥१६०॥

पर्यश्नाति य एकोऽन्नं ब्राह्मणान्सुहृदो विना ।
लालाभक्षे स तिष्ठेत्तु दुर्गन्धे नरके गतः ॥१६१॥

काण्डकर्त्ता कुलालश्च निष्कहर्ता चिकित्सकः ।
आरामेऽप्यग्निदाता यः पतते स विशंसनि ॥१६२॥

असत्प्रतिग्रही यश्च तथैवायाज्ययाजकः ।
नक्षत्रैर्जीवते यश्च नरो गच्छत्यधोमुखम् ॥१६३॥

क्षीरं सुरां च लवणं लाक्षां गन्धं रसं तिलानेवमादीनि विक्रीणन्घोरे पूयवहे पतेत् ॥१६४॥

यः कुक्कुटान्निबद्नाति मार्जारान्सूकरांस्तथा ।
पक्षिणश्च मृगाञ्छागान्सोऽप्येनं नरकं व्रजेत् ॥१६५॥

अजाविको माहिषिकस्तथा चक्रध्वजी च यः ।
रङ्गोपजीवको विप्रः शाकनिर्ग्रामयाजकः ॥१६६॥

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
सुरापो मासभक्षश्च तथा च पशुघातकः ॥१६७॥

विशस्ता महिषादीनां मृगहन्ता तथैव च ।
पर्वकारश्च मूची च यश्च स्यान्मित्रघातकः ॥१६८॥

रुधिरान्धौ पतन्त्येते ह्येवमाहुर्मनीषिणः ।
उपविष्टं भोक्तुमथ पङ्क्त्यां वै वञ्चयन्ति ये ॥१६९॥

पतन्ति नरके घोरे विड्भुजे नात्र संशयः ।
मृषावादी नरो यश्च तथा प्राक्रोशकोऽशुभः ॥१७०॥

पतते नरके घोरे मूत्राकीर्णे स पापकृत ।
मधुग्राहाभिहन्तारो यान्ति वैतग्णीं नराः ॥१७१॥

उन्मत्ताश्चित्तभग्नाश्चशौचाचारविवर्जिताः ।
क्रोधना दुःखदा ये च कुहकाः कृष्णगामिनः ॥१७२॥

असिपत्र वनच्छदकृतो ह्योरभ्रिकाश्च ये ।
कर्त्तनषु विकृत्यन्त मृगव्याधः सुदारुणैः ॥१७३॥

आश्रम प्रत्यवसिता ह्यग्निज्वाले पतन्ति वै ।
भक्ष्यन्ते श्यामशबलैरयस्तुडश्व वायसैः ॥१७४॥

इष्टापूर्तव्रतालोपात्संदंशे नरके पतेत् ।
स्कन्दन्ते ये दिवास्वप्ने व्रतिनो ब्रह्मचारिणः ॥१७५॥

पुत्रैरध्यापिता ये च पुत्रैराक्षापिताश्च ये ।
ते सर्व नरकं यान्ति नियतं तु श्वभोजनम् ॥१७६॥

वर्णाश्रमविरुद्धा ये क्रोधहर्षसमन्विताः ।
कर्माणि ये तु कुर्वन्ति सर्वे निरयवासिनः ॥१७७॥

उपरिष्टात्स्थितो घोर उष्णात्मा रौरवो महान् ।
सुदारुणस्तु शीतात्मा तस्याधस्तात्तपः स्मृतः ॥१७८॥

एवमादिक्रमेणैव वर्ण्यमानान्निबोधत ।
भूमेरधस्तात्सप्तैव नरकाः परिकीर्त्तिताः ॥१७९॥

अधर्मसूतयस्ते स्युरन्धतामिस्रकादयः ।
रौरवः प्रथमस्तेषां महारौरव एव च ॥१८०॥

अस्याधः पुनरप्यन्यः शीतस्तप इति स्मृतः ।
तृतीयः कालसूत्रः स्यान्महाहिर्विविधः स्मृतः ॥१८१॥

अप्रतिष्ठश्चतुर्थः स्याद वीचिः पञ्चमः स्मृतः ।
लोहः षष्ठः स्मृतस्तेषामविधेयस्तु सप्तमः ॥१८२॥

घोरात्वाद्रौरवः प्रोक्तः सोष्णको दहनः स्मृतः ।
सुदारुणस्तु शीतात्मा त्स्याधस्तात्तपोऽधमः ॥१८३॥

सवां निकृन्तनः प्रोक्तो कालसूत्रोऽतिदारुणः ।
अप्रतिष्ठे स्थितिर्नास्ति भ्रमस्तस्मिन्सदा स्मृतः ॥१८४॥

अवीचिर्दारुणः प्रोक्तो यन्त्रसंपीडनाच्च सः ।
तस्मात्सुदारुणो लोहः कर्मणां श्रयणाच्च सः ॥१८५॥

तथाभूतशरीत्वादविधेयस्तु स स्मृतः ।
पीडाबन्धवधासंगादप्रतीकारलक्षणः ॥१८६॥

ऊर्द्ध्वाधः संगतास्ते तु निरालोकाश्च ते स्मृताः ।
दुःखोत्कर्षस्तु सर्वेषु ह्यधर्मस्य निमित्ततः ॥१८७॥

ऊर्द्ध्वलोकैः समावेतौ निरालोकौ च तावुभौ ।
कूटागारप्र माणैश्च शरीरैस्तत्र नारकाः ॥१८७॥

उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः ।
दुःखप्रकर्षश्चोग्रस्तु तेषु सर्वेषु वै स्मृतः ॥१८८॥

उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः ।
दुःखप्रकर्षश्चोग्रस्तु तेषु सर्वेषु वै स्मृतः ॥१८९॥

यातनाश्चाप्यसंख्येया नारकाणां तथा स्मृताः ।
तत्रानुभूयते दुःखं क्षीणे कर्मणि वै पुनः ॥१९०॥

तिर्यग्योनौ प्रसूयन्ते कर्मशेषेण तेंऽततः ।
देवांश्च तारकाश्चैव ह्यूर्द्ध्वं चाधश्च संस्थिताः ॥१९१॥

धर्माधर्मनिमित्तेन सद्यो जायन्ति मूर्त्तयः ।
उपभोगार्थमुत्पत्तिरौपपत्तिककर्मतः ॥१९२॥

पश्यन्ति नारकान्देवा ह्यधोवक्त्रा ह्यघोगतान् ।
नारकांश्च तथा देवान्सर्वान्पश्यं त्यधेमुखान् ॥१९३॥

अनयोस्तुल्यता यस्माद्धारमाश्च स्वभावतः ।
तस्मादूर्द्ध्वमधोभावो लोकालोके न विद्यते ॥१९४॥

एषा स्वाभाविकी संज्ञा लोकालोके प्रवर्त्तते ।
अथाब्रुवन्पुनर्वायुंब्राह्मणाः सत्रिणस्तदा ॥१९५॥

ऋषय ऊचुः
सर्वेषामेव भूतानां लोकालोकनिवासिनाम् ।
संसारे संसरन्तीह यावन्तः प्राणिनश्च ते ॥१९६॥

संख्याया परिसंख्याय तान्नः प्रब्रूहि कृत्स्नशः ।
ऋषीणां तद्वचः श्रुत्वा मरुतो वाक्यमब्रवीत् ॥१९७॥

वायुरुवाच
न शक्यं दिव्यया दृष्ट्या ज्ञातुं ज्ञानेन वा पुनः ।
चक्षुषा वै प्रसंख्यातुमतो ह्यन्ते न च द्विजाः ॥१९८॥

अनाध्यानादमेयत्वान्नैव प्रश्नो विधीयते ।
ब्रह्मणा संज्ञितं यत्तु संख्यया तन्निबोधत ॥१९९॥

यः सहस्रतमो भागः स्थावराणां भवेदिह ।
पार्थिवाः कृमयस्तावत्संसेकाद्येषु संभवः ॥२००॥

संसेकजानां भागेन सहस्रेणैव संमिताः ।
औदका जन्तवः सर्वे निश्चयात्तन्निधार्यताम् ॥२०१॥

सहस्रेणैव भागेन सत्त्वानां सलिलौकसाम् ।
विहङ्गमास्तु विज्ञेया लौकिकास्ते च सर्वशः ॥२०२॥

यः सहस्रतमो भागस्तेषां वै पक्षिमां भवेत् ।
पशवस्तत्समा ज्ञेया लौकिकास्तु चतुष्पदाः ॥२०३॥

चतुष्पदानां सर्वेषां सहस्रेणैव संमिताः ।
द्विपदास्तत्सहस्रेण संमिता धार्मिकाः पुनः ॥२०४॥

सहस्रेणैव भागेन धार्मिकेभ्यो दिवं गताः ।
यः सहस्रतमो भागो धार्मिकाणां भवेद्दिवि ॥२०५॥

संमितास्तेन भागेन मोक्षिणस्तावदेव हि ।
स्वर्गोपपादकैस्तुल्या यातनास्थानवासिनः ॥२०६॥

पतिताधर्मविद्वेषाद्दुरात्मानो म्रियन्ति ये ।
रौरवे तमसि ह्येते शीतोष्णं प्राप्नुवन्ति ते ॥२०७॥

वेदनाः कटुकाः स्तब्धा यातनास्थानमागताः ।
उष्णस्तु रौरवो ज्ञेयस्तेजोघोररसात्मकः ॥२०८॥

ततोंऽधनामकश्चापि शीतान्मा सततं तपः ।
एवं सुदुर्लभाः संतः स्वर्गे वा धार्मिका नराः ॥२०९॥

एषा संज्ञीकृता संख्या चेश्वरेण स्वयंभुवा ।
गणाना दिनिवृत्तैषा संख्या ब्राह्मी त्वमानुषी ॥२१०॥

ऋषय ऊचुः
महाञ्जनस्तपः सत्यो भूतो भव्यो भवस्तथा ।
उक्ता ह्येते त्वया लाका लाकानामन्तरण च ॥२११॥

लोकान्तरं च यादृक्च तन्नो ब्रूहि यथा तथा ।
तेषां तद्वचन श्रुत्वा ऋषीणामूर्द्ध्वरेतसाम् ।
स वायुर्दृष्टतत्त्वार्थ इदं तत्त्वमुवाच ह ॥२१२॥

वायुरुवाच
व्यक्तं तर्केण पश्यन्ति योगात्प्रत्यक्षदर्शिनः ॥२१३॥

प्रत्याहारेण ध्यानेन तपसा क्षयमात्मनः ।
ऋभुः सनत्कुमाराद्याः संबुद्धाः शुद्धबुद्धयः ॥२१४॥

व्यपेतकोशा विरजाः संतो ब्रह्मैव सत्तमाः ।
अक्षयाः प्रीतिसंयुक्ता ब्राह्मे तिष्ठन्ति योगिनः ॥२१५॥

ऋषीणां बालशिल्यानां तैर्यथाकृतमीश्वरैः ।
यथात्रैव सया दृष्टं सांनिध्यं तत्र कुर्वता ॥२१६॥

अग्राह्यमकृतार्थानामालयं चेश्वरस्य यत् ।
ईश्वरः परमाणुत्वाद्भावग्राह्यो मनीषिणाम् ॥२१७॥

ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ।
द्रष्टृत्वमात्मसंबन्धमधिष्टातृत्वमेव च ॥२१८॥

अव्ययानि दशैतानि तस्मिस्तिंष्ठन्ति शङ्करे ।
विभुत्वात्खलु योगाढ्यो ब्रह्मणोऽनुग्रहे रतः ॥२१९॥

स लोकविग्रहो भूत्वा साहाय्यमुपतिष्ठते ।
अक्षरं ध्रुवमव्यग्रमष्टमं त्वौपसर्गिकम् ॥२२०॥

तस्येश्वरस्य चिन्मात्रं स्थानं मायामयं परम् ।
मायया कृतमाचष्टे मायी देवो महेश्वरः ॥२२१॥

देवानामुपसंहारस्तत्प्रमाणं हि कीर्त्यते ।
विस्तरेणानुपूर्व्या च ब्रुवतो मे निबोधत ॥२२२॥

त्रयोदशैव कोट्यस्तु नियुतानि दशेषवः ।
भूलोकाद्ब्रह्मलोको वै योजनैः संप्रकीर्त्यते ॥२२३॥

एका योजनकोटी तु पञ्चाशन्नियुतानि च ।
ऊर्द्ध्व भागवतोऽडं तु ब्रह्मलोकात्परं स्मृतम् ॥२२४॥

एषोर्द्ध्वगः प्रचारस्तु गत्यन्तश्च ततः स्मृतः ।
नित्या ह्यपरिसंक्षाताः परस्परगुणाश्रयात् ॥२२५॥

सूक्ष्माः प्रसवधर्मिण्यस्ततः प्रकृतयः स्मृताः ।
येभ्योऽधिकर्त्ता संजज्ञे क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥२२६॥

तासु प्रकृतिमत्सूक्ष्ममधिष्ठातृत्वमव्ययम् ।
अनुत्पाद्यं परं धाम परमाणु परेशयम् ॥२२७॥

अक्षयश्चाप्यनूह्यश्च त्वमूर्त्तिर्मूर्त्तिमानसौ ।
प्रादुर्भावस्तिरोभावः स्थितिश्चैवाप्यनुग्रहः ॥२२८॥

विधिरन्यैरनौपम्यः परमाणुमहेश्वरः ।
सतेजा एष तमसो यः पुरस्तात्प्रकाशकः ॥२२९॥

यदण्डमासीत्सौवर्मं प्रथमं त्वौपसर्गिकम् ।
बृहत्तु सर्वतो वृत्तमीश्वरात्तद्व्यजायते ॥२३०॥

ईश्वराद्बीजनिर्भेदः क्षेत्रज्ञो बीजमिष्यते ।
योनिं प्रकृति माचष्टे सा च नारायणात्मिका ॥२३१॥

विभुर्लोकस्य सृष्ट्यर्थं लोकसंस्थानमेव च ।
सन्निसर्गः सतत्त्वाच्च लोकधातुर्महात्मनः ॥२३२॥

पुरस्ताद्ब्रह्मलोकस्य ह्यण्डादर्वाक्च ब्रह्मणः ।
त्योर्मध्ये पुरं दिव्यं मन मयमनामयम् ॥२३३॥

तद्विग्रहवतः स्थानमीश्वरस्यामितौजसः ।
शिवं नाम पुरं तत्र शरणं जन्मभीरुणाम् ॥२३४॥

सहस्राणां शतं पूर्वं योजनानां द्विजोत्तमाः ।
अभ्यन्तरं तु विस्तीर्णं महीमण्डलसंस्थितम् ॥२३५॥

मध्याह्नार्कप्रकाशेन परतेजोऽभिमर्दिना ।
शात कैंभेन महता प्राकारेणार्कवर्चसा ॥२३६॥

द्वारैश्चतुर्भिः सौवर्णैर्मुक्तादामविभूषितैः ।
तपनीयनिभैः शुभ्रैर्गाढं सुकृतवेष्टनम् ॥२३७॥

तच्चाकाशे पुरं रम्यं दिव्यं घण्टादिनादितम् ।
रम्ये पुरवरश्रेष्ठे तस्मिन्वैहायभूमिषु ॥२३८॥

नानारत्नविचित्रेषु पताकाबहुलेषु च ।
सर्वकामसमृद्धेषु वनोपवनशोभिषु ॥२३९॥

राजतेषु गृहान्तेषु शातकैंभमयेषु च ।
संध्याभ्रसन्निकाशेषु कैलासप्रतिमेषु च ॥२४०॥

हृष्टैः शब्दादिभिर्भोगैर्ये भविष्यानुसारिणः ।
प्रासादवरपृष्ठेषु तेषु मोदन्ति सुव्रताः ॥२४१॥

ब्रह्मघोषैरविरताः कथाश्च विविधाः शुभाः ।
गीतवादित्रघोषाश्च संस्रवाश्च समन्ततः ॥२४२॥

संहताश्चैवमतुला जनाश्रयकृतस्तथा ।
एवमादीनि वर्तन्ते तेषां प्रासादमूर्द्धनि ॥२४३॥

सहस्रपादः प्रासादस्तपनीयमयः शुभः ।
अनौपम्यैर्वरै रत्नैः सर्वतः संविभूषितः ॥२४४॥

स्फाटिकैश्चन्द्रसंकाशैर्वैडूर्यमणिसप्रभैः ।
बालसुर्यमयैश्चापि सौवर्णैश्चाग्निसप्रभैः ॥२४५॥

चुक्रुशुर्मुनयः श्रुत्वा नैमिषेयास्तपस्विनः ।
आपन्नसंशयाश्चेमं वाक्यमूचुः समीरणम् ॥२४६॥

ऋषय ऊचुः
के तु तत्र महात्मानो ये भवस्यानुसारिणः ।
अनुग्राह्यतमाः सम्यक्प्रमोदन्ते पुरोत्तमे ॥२४७॥

ऋषीणां वचनं श्रुत्वा वायुर्वाक्यमुदैरयत् ।
वायुरुवाच
श्रूयतां देवदेवस्य भक्तिर्यैरनुकल्पिता ॥२४८॥

ह्रीमन्तस्फूर्जिता दान्ताः शौर्ययुक्ता ह्यलोलुपाः ।
कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना ॥२४९॥

अनन्यमनसो भूत्वा प्रपन्ना ये महेश्वरम् ।
तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ॥२५०॥

भवस्य रूपसादृश्यं गताश्चैव ह्यनुत्तमम् ।
वैश्वानारमुखाः सर्वे विश्वरूपाः कपर्दिनः ॥२५१॥

नीलकण्ठाः शितग्रीवास्तीक्ष्णदंष्टास्त्रिलोचनाः ।
अर्द्धचन्द्रकृतोष्णीषा जटामुकुट धारिणः ॥२५२॥

सर्वे दशभुजा वीराः पद्मान्तरसुगन्धिनः ।
तरुणादित्यसंकाशाः सर्वे ते पीतवाससः ॥२५३॥

पिनाकपाणयः सर्वेश्वेत गोवृषवाहनाः ।
श्रियान्विताः कुण्डलिनो मुक्ताहारविभूषिताः ॥२५४॥

तेजसाभ्यधिकैर्दहैः सर्वज्ञाः सर्वदर्शिनः ।
विभज्य बहुधात्मानं जरामृत्युविवर्जिताः ॥२५५॥

क्रीडन्ते विविधैर्भावैर्भोगान्प्राप्य सुदुर्लभान् ।
स्वच्छन्दगतयः सिद्धाः सिद्धैश्चन्यैर्विबोधिताः ॥२५६॥

एकादशानां रुद्राणां कोट्यो नैका महात्मनाम् ।
एभिः सह महात्मा वै देवदेवो महेश्वरः ॥२५७॥

भक्तानुकंपी भगवान्मोदते पार्वतीप्रियः ।
नाहं तेषां तु रुद्राणां भवस्य च महात्मनः ॥२५८॥

नानात्वमनुपश्यामि सत्यमेतद्ब्रवीमि वः ।
मातारिश्वाब्रवीत्पुण्यमित्येतामीश्वराच्छ्रुताम् ॥२५९॥

अथ ते ऋषयः सर्वे दिवाकरसमप्रभाः ।
श्रुत्वेमां परमां पुण्यां कथां त्रैयंबकीन्ततः ॥२६०॥

भृशं चानुग्रहं प्राप्य हर्षं चैवाप्यनुत्तमम् ।
संभाजयित्वा चाप्येनं वायुमूचुर्महाबलम् ॥२६१॥

ऋषय ऊचुः
समीरण महाभाग त्वस्माकं च त्वया विभो ।
ईश्वरस्योत्तमं पुण्यमष्टमं त्वौपसार्गिकम् ॥२६२॥

तस्य स्थानं प्रमाणं च चथावत्परिकीर्तितम् ।
योगधर्मसमृद्धं वै परमं परमात्मनः ॥२६३॥

महादेवस्य माहात्म्यं दुर्विज्ञेयं सुरैरपि ।
स्वेन माहात्म्ययोगेन सहस्रस्यामितौजसः ॥२६४॥

यस्य भक्तंषु संमोहो ह्यनुकंपार्थमेव च ।
ब्राह्मी लक्ष्म्या स्वयं जुष्टा या साप्रतिमशालिनी ॥२६५॥

व्याप्यज्योत्स्नेव चन्द्रस्य विन्यस्ता विश्वरूपिणः ।
विभूतिर्भ्राजतेऽत्यर्थं देवदेवस्य वेश्मनि ॥२६६॥

महादेवस्य तुल्यानां रुद्राणां तु महात्मनाम् ।
तत्सर्वं निखिलेनेदं वक्त्रादमृतनिस्रवः ॥२६७॥

आपीतं खलु शर्वस्य भक्त्यास्माभिस्तु सुव्रत ।
नास्ति किञ्चिदविज्ञेय मन्यच्चैवानुगामिनः ।
प्रश्नं देववरप्राण यथावद्वक्तुमर्हसि ॥२६८॥

सूत उवाच
स खलूवाच भगवान्किं भूयो वर्त्तयाम्यहम् ।
यन्मया चैव वक्तव्यं तद्वदिष्यामि सुव्रताः ॥२६९॥

ऋषय ऊचुः
आदित्याः परिपार्श्वे ये सिंहा वै क्रोधविक्रमाः ।
वैश्वानरा भूतगण व्याघ्रास्चैवानुगामिनः ॥२७०॥

आभुतसंप्लवे घोरे सर्वप्राणिभृतां क्षये ।
किमावस्था भवन्त्येते तन्नो ब्रूहि यथार्थवत् ॥२७१॥

विज्ञायेश्वरसद्भावमव्यक्तं प्रभवं तथा ।
वायुरुवाच
यत्र पूर्वं गतास्ते तु कुमारा ब्रह्मणः सुताः ॥२७२॥

सनन्दनश्च सनकस्तृतीयश्च सनातनः ।
वोढुश्च कपिलस्तेषामासुरिश्च महायशाः ॥२७३॥

मुनिः पञ्जशिखश्चैव ये चान्येऽप्येवमादयः ।
ततः काले व्यतिक्रान्ते कल्पानां पर्यये गते ॥२७४॥

महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते ।
अनेकरुद्रकोट्यस्तु या प्रसन्ना महेश्वरीम् ॥२७५॥

शब्दादीन्विषयान्भोगान्संत्यज्याष्टविधाश्रयात् ।
प्रविश्य सर्वभूतानि ज्ञानयुक्तेन तेजसा ॥२७६॥

विहाय पदमव्यग्रं भूतानाम नुकंपया ।
तत्र यान्ति महात्मानः परमाणुं महेश्वरम् ॥२७७॥

तरन्ति सुमहावर्त्तां जन्ममृत्यूदकां नदीम् ।
ततः पश्यन्त्यपर्वाणं परं ब्रह्माणामेव च ॥२७८॥

देव्या वै सहिताः सप्त या देव्यः परिकीर्त्तिताः ।
यत्तत्सहस्रं सिंहानामादित्यानां तथैव च ॥२७९॥

वैश्वानरा भूतगणा व्याघ्राश्चैवानुगामिनः ।
आवेश्यात्मनि तान्सर्वान् संख्यायोग्यभवांस्तथा ॥२८०॥

लोकान्सप्त इमान्भूयो महाभूतानि पञ्च च ।
विष्णुना सह संयुक्तः करोति विकरोति च ॥२८१॥

स रुद्रो यः साममयस्तथैव च यजुर्मयः ।
स एष ओतः प्रोतश्च बहिरन्तश्च निश्चयात् ॥२८२॥

एको हि भगवान्नाथः प्रभवश्चान्तकृद्द्विजाः ।
ततस्ते ऋषयः सर्वे दिवाकरसमप्रभाः ॥२८३॥

सुसत्यं श्रवसः सम्यगारोप्याग्निं तथात्मनि ।
कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना ॥२८४॥

अनन्यमनसो भूत्वा प्रपद्यन्ते महेश्वरम् ।
व्रतोपवासनिरताः सर्वभूतदयापराः ॥२८५॥

योगं त्वनुयमं दिव्यं प्राप्तन्तैश्छिन्नसंशयैः ।
प्रपद्य परया भक्त्याज्ञानयुक्तेन तेजसा ॥२८६॥

तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ।
यः पठेत्तपसा युक्तो वायुप्रोक्तामिमां श्रुतिम् ॥२८७॥

ब्राह्मणः क्षत्रियो वापिवैश्यो वा स्वक्रियापरः ।
लभते रुद्रलोकं वै कारणं लोककारणम् ॥२८८॥

विनिवृत्ते तदा सर्गे प्रकृत्या वस्थितेन वै ।
तदात्यन्तपरोक्षत्वाददृष्टत्वाच्च कस्यचित् ॥२८९॥

अनाख्यानादबोध्यत्वादज्ञानाज्ज्ञानिनामपि ।
आगतागतिकत्वाच्च ग्रहणं तन्न विद्यते ॥२९०॥

भावग्राह्यानुमानाच्च चिन्तयित्वेदमुच्यते ।
स्थिते तु कारणे तस्मिन्नित्ये सदसदात्मके ॥२९१॥

अनिर्देश्ये प्रवृत्तिर्वै स्वात्मिकाकारणेन तु ।
एवं सप्तद्विरभ्यस्ताः क्रमात्प्रकृतयस्तु वै ॥२९२॥

प्रत्याहारे तदा सर्गे प्रविशन्ति परस्परम् ।
येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ॥२९३॥

सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ।
उदकावरणं यच्च ज्योतिष्यालीयते तु यत् ॥२९४॥

यत्तेजसं चावरणं मारुतो ग्रसते नु यत् ।
यद्वायव्यं चावरणमाकाशग्रसते तु तत् ॥२९५॥

आकाशावरणं यच्च भूतादिर्ग्रसते तु तत् ।
भूतादिं ग्रसते चापि महान्वै बुद्धिलक्षमः ॥२९६॥

महान्तं ग्रसतेऽव्यक्तं गुणसाम्यं ततः परम् ।
एतौ संहारविस्तारौ ब्रह्मा व्यक्तौ ततः पुनः ॥२९७॥

सृजते ग्रसते चैव विकारात्सर्गसंयमे ।
संसिद्धकार्यकरणाः संसिद्धा ज्ञानिनस्तु ये ॥२९८॥

गत्वा जवं जवीभावे स्थाने स्वेषु प्रसंयमात् ।
प्रत्याहारेऽधियुज्यन्ते क्षेत्रज्ञाः करणैः पुनः ॥२९९॥

अव्यक्तं क्षेत्रमित्याहुर्ब्रह्मा क्षेत्रज्ञ उच्यते ।
साधर्म्यवैधर्म्यकृतः संयोगो नादिमास्तयोः ॥३००॥

एवं सर्गेषु विज्ञेयः क्षेत्रज्ञेष्विह ब्राह्मणाः ।
ब्रह्मविच्चैव विज्ञेयः क्षेत्रज्ञानात्पृथक् ॥३०१॥

विषयाविषयत्वं च क्षेत्रक्षेत्रज्ञयोः स्मृतम् ।
ब्रह्मा त्वविषयो ज्ञेयो विषयः क्षेत्रमुच्यते ॥३०२॥

क्षेत्रज्ञाधिष्ठितं क्षेत्रं क्षेत्रज्ञार्थं प्रचक्षते ।
बहुत्वाच्च शरीराणां शरीरी बहुधा स्मृतः ॥३०३॥

अव्यूहाशङ्कराच्चैव ज्योतिर्यच्च व्यवस्थितम् ।
यस्मात्प्रतिशरीरं हि सुखदुःखो पलब्धिता ॥३०४॥

तस्मात्पुरुषनानात्वं विज्ञेयं तु विजानता ।
यदा प्रवर्त्तते चैषां भेदानां चैव संयमः ॥३०५॥

स्वभावकारिताः सर्वे कालेन महता तदा ।
निवर्त्तन्ते तदा तस्मिन्स्थितरागाः स्वयंभुवः ॥३०६॥

सह सायुज्यकैः सर्वैर्ब्रह्मलोकनिवासिभिः ।
विनिवृत्तेस्तदा तेषां स्थितेरात्मनिवासिनाम् ॥३०७॥

तत्कालवासिनां तेषां तत्र वै दोषदर्शिनाम् ।
उत्पद्यतेऽथ वैराग्यमात्मवाद प्रणाशनम् ॥३०८॥

भोज्यभोक्तृत्वनानात्वैस्तेषां तद्भावदर्शिनाम् ।
पृथग्ज्ञानेन क्षेत्रज्ञास्ततस्ते ब्रह्मलौकिकाः ॥३०९॥

प्रकृतौ कारणातीताः सर्वे नानाप्रदर्शिनः ।
स्वात्मन्येवावतिष्ठन्ते प्रशान्तादर्शनात्मकाः ॥३१०॥

शुद्धा निरञ्जनाः सर्वे चेतनाचेतनास्तथा ।
तत्रैव परिनिर्वाणाः स्मृतानागामिनस्तु ते ॥३११॥

निर्गुणत्वाग्निरात्मानः प्रकृत्यन्ते व्यतिक्रमात् ।
इत्येवं प्राकृतः प्रोक्तः प्रतिसर्गः स्वयंभुवा ॥३१२॥

वर्णाश्रमाचारयुतः प्रतिसर्गं शृणोति यः ।
स व्रजेच्छिवसालोक्यं भक्तिमान्विगतज्वरः ॥३१३॥

अमद्यपश्च य शूद्रो भवभक्तो जितेद्रियः ।
आभूतसंप्लवस्थायी अप्रतीघातलक्षणः ॥३१४॥

गाणपत्यं स लभते स्थानं वा सार्वकालिकम् ।
मद्यपो मद्यपैः सार्द्धं भूतसंघैश्च मोदते ॥३१५॥

सेव्यमानो महीपृष्ठे मर्त्यानां वरदो भवः ।
इति होवाच भगवान्वायुर्वाक्यमिदवरम् ॥३१६॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते उत्तरभागे चतुर्थ उपसंहारपादे शिवपुरवर्णनं नाम द्वितीयोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP