उत्तरभागः - अध्यायः ३

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


सूत उवाच
प्रत्याहारं प्रवक्ष्यामि परस्यान्ते स्वयंभुवः ।
ब्रह्मणः स्थितिकाले तु क्षीणे तस्मिंस्तदा प्रभोः ॥१॥

यथेदं कुरुते व्यक्तं सुसूक्ष्मं विश्वमीश्वरः ।
अव्यक्तं ग्रसते व्यक्तं प्रत्याहारे च कृत्स्नशः ॥२॥

पुरान्तद्व्यणुकाद्यानां संपूर्णे कल्पसंक्षये ।
उपस्थिते महाघोरे ह्यप्रत्यक्षे तु कस्यचित् ॥३॥

अन्ते द्रुमस्य संप्राप्ते पश्चिमास्य मनोस्तदा ।
अन्ते कलियुगे तस्मिन्क्षीणे संहार उच्यते ॥४॥

संप्रक्षाले तदा वृत्ते प्रत्याहारे ह्युपस्थिते ।
प्रत्याहारे तदा तस्मिन्भूततन्मात्रसंक्षये ॥५॥

महदादिविकारस्य विशेषान्तस्य संक्षये ।
स्वभावकारिते तस्मिन्प्रवृत्ते प्रतिसंचरे ॥६॥

आपो ग्रसंति वै पूर्वं भूमेर्गन्धात्मकं गुमम् ।
आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥७॥

प्रणष्टे गन्धतन्मात्रे तोयावस्था धरा भवेत् ।
आपस्तदा प्रविष्टास्तु वेगवत्यो महास्वनाः ॥८॥

सर्वमापूरयित्वेदं तिष्ठन्ति विचरन्ति च ।
अपामपि गणो यस्तु ज्योतिःष्वालीयते रसः ॥९॥

नश्यन्त्यापस्तदा तत्र रसतन्मात्रसंक्षयात् ।
तीव्रतेजोहृतरसाज्योतिष्ट्वं प्राप्नुवन्त्युत ॥१०॥

ग्रस्ते च सलिले तेजः सर्वतोमुखमीक्षते ।
अथाग्निः सर्वतो व्याप्त आदत्ते तज्जलं तदा ॥११॥

सर्वमापूर्यतेऽर्चिर्भिस्तदा जगदिदं शनैः ।
अर्चिर्भिः संतते तस्मिंस्तर्यगूर्ध्वमधस्ततः ॥१२॥

ज्योतिषोऽपि गुणं रूपं वायुरत्ति प्रकाशकम् ।
प्रलीयते तदा तस्मिन्दीपार्चिरिव मारुते ॥१३॥

प्रनष्टे रूपतन्मात्रे हृतरूपो विभावसुः ।
उपशाम्यति तेजो हिवायुराधूयते महान् ॥१४॥

निरालोके तदा लोके वायुभूते च तेजसि ।
ततस्तु मूलमासाद्य वायुः संबन्धमात्मनः ॥१५॥

ऊर्ध्वञ्चाधश्च तिर्यक्च दोधवीति दिशो दश ।
वायोरपि गुणं स्पर्शमाकाशं ग्रसते च तत् ॥१६॥

प्रशाम्यति तदा वायुः खन्तु तिष्ठत्यनावृतम् ।
अरूपमरसस्पर्शमगन्धं न च मूर्तिमत् ॥१७॥

सर्वमापूरयच्छब्दैः सुमहत्तत्प्रकाशते ।
तस्मिंल्लीने तदा शिष्टमाकाशं शब्दलक्षणम् ॥१८॥

शब्दमात्रं तदाकाशं सर्वमावृत्य तिष्ठति ।
तत्र शब्दं गुमं तस्य भूतदिर्ग्रसते पुनः ॥१९॥

भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै ।
अभिमानात्मको ह्येष भूतादिस्तामसः स्मृतः ॥२०॥

भूतादिर्ग्रसते चापि महान्वै बुद्धिलक्षणः ।
महानात्मा तु विज्ञेयः संकल्पो व्यवसायकः ॥२१॥

बुद्धिर्मनश्च लिङ्गं च महानक्षर एव च ।
पर्यायवाचकैः शब्दैस्तमाहुस्तत्त्व चिन्तकाः ॥२२॥

संप्रलीनेषु भूतेषु गुणसाम्ये ततो महान् ।
लीयन्ते गुणसाम्यं तु स्वात्मन्येवावतिष्ठते ॥२३॥

लीयन्ते सर्वभूतानां कारणानि प्रसंगमे ।
इत्येष संयमश्चैव तत्त्वानां कारणैः सह ॥२४॥

तत्त्वप्रसंयमो ह्येष स्मृतो ह्यावर्तको द्विजाः ।
धर्माधर्मौं तपो ज्ञानं शुभं सत्यानृते तथा ॥२५॥

ऊर्ध्वभावो ह्यधोभावः सुखदुःखे प्रियाप्रिये ।
सर्वमेतत्प्रपञ्चस्थं गुणमात्रात्मकं स्मृतम् ॥२६॥

निरिन्द्रियाणां च तदा ज्ञानिनां यच्छुभाशुभम् ।
प्रकृत्यां चैव तत्सर्वं पुण्यं पापं प्रतिष्ठति ॥२७॥

यात्यवस्था तु साचैव देहिनां तु निरुच्यते ।
जन्तूनां पापपुण्यं तु प्रकृतौ यत्प्रतिष्ठितम् ॥२८॥

अवस्थास्थानि तान्येव पुण्यपापानि जन्तवः ।
योजयन्ते पुनर्देहान्परत्वेन तथैव च ॥२९॥

धर्माधर्मौं तु जन्तूनां गुणमात्रात्मकावुभौ ।
कारणैः स्वैः प्रचीयेते कायत्वेनेह जन्तुभिः ॥३०॥

सचेतनाः प्रलीयन्ते क्षेत्रज्ञाधिष्ठिता गुणाः ।
सर्गे च प्रतिसर्गे च संसारे चैव जन्तवः ॥३१॥

संयुज्यन्ते वियुज्यन्ते कारणैः संचरन्ति च ।
राजसी तामसी चैव सात्त्विकी चैव वृत्तयः ॥३२॥

गुणमात्राः प्रवर्तन्ते पुरुषाधिष्ठता स्त्रिधा ।
उर्द्ध्वदेशात्मकं सत्त्वमधोभागात्मकं तमः ॥३३॥

तयोः प्रवर्त्तकं मध्ये इहैवावर्त्तकं रजः ।
इत्येवं परिवर्तन्तेत्रयश्चेतोगुणात्मकाः ॥३४॥

लोकेषु सर्वभूतानां तन्न कार्यं विजानता ।
अविद्याप्रत्ययारंभा आरभ्यन्ते हि मानवैः ॥३५॥

एतास्तु गतयस्तिस्रः शुभात्पापात्मिकाः स्मृताः ।
तमसोऽभिभवाज्जन्तुर्याथातथ्यं न विन्दति ॥३६॥

अतत्त्वदर्शनात्सोऽथ विविधं वध्यते ततः ।
प्राकृतेन च बन्धेन तथ्यावैकारिकेण च ॥३७॥

दक्षिणाभिस्ततीयेन बद्धोऽत्यन्तं विवर्त्तते ।
इत्येते वै त्रयः प्रोक्ता बन्धा ह्यज्ञानहेतुकाः ॥३८॥

अनित्ये नित्यसंज्ञा च दुःखे च सुखदर्शनम् ।
अस्वे स्वमिति च ज्ञानमशुचौ शुचिनिश्चयः ॥३९॥

येषामेते मनोदोषा ज्ञानदोषा विपर्ययात् ।
रागद्वेषनिवृत्तिश्च तज्ज्ञानं समुदाहृतम् ॥४०॥

अज्ञानं तमसो मूरं कर्मद्वयफलं रजः ।
कर्म जस्तु पुनर्देहो महादुःखं प्रवर्त्तते ॥४१॥

श्रोत्रजा नेत्रजा चैव त्वग्जिह्वाघ्राणजा तथा ।
पुनर्भवकरी दुःखात्कर्मणा जायते तृषा ॥४२॥

सतृष्णोऽभिहितो बालः स्वकृतैः कर्मणः फलैः ।
तैलवीडकवज्जीवस्तत्रैव परिवर्त्तते ॥४३॥

तस्मान्मूलमनर्थानामज्ञान मुपदिश्यते ।
तं शत्रुमवधार्यैकं ज्ञाने यत्नं समाचरेत् ॥४४॥

ज्ञानाद्धि त्यजते सर्वं त्यागाद्बुद्धिर्विरज्यते ।
वैराग्याच्छुध्यते चापि शुद्धः सत्त्वेन मुच्यते ॥४५॥

अत ऊर्द्ध्वं प्रवक्ष्यामि रागं भूतापहारिणम् ।
अभिष्वङ्गाय योगः स्याद्विषयेष्ववशात्मनः ॥४६॥

अनिष्टमिष्टमप्रीतिप्रीतितापविषादनम् ।
दुःखलाभे न तापश्च सुखानुस्मरणं तथा ॥४७॥

इत्येष वैषयो रागः संभूत्याः कारणं स्मृतः ।
ब्रह्मादौ स्थावरान्ते वै संसारेह्यादिभौतिके ॥४८॥

अज्ञानपूर्वकं तस्मादज्ञानं तु विवर्जयेत् ।
यस्य चार्षे न प्रमाणं शिष्टाचारं तथैव च ॥४९॥

वर्णाश्रमविरुद्धो यः शिष्टशास्त्रविरोधकः ।
एष मार्गो हि निरये तिर्य्यग्योनौ च कारणम् ॥५०॥

तिर्य्यग्यो निगतं चैव कारणं तत्त्ररुच्यते ।
त्रिविधो यातनास्थाने तिर्य्यग्योनौ च षड्विधे ॥५१॥

कारणे विषये चैव प्रतिघातस्तु सर्वशः ।
अनैश्वर्यं तु तत्सर्वं प्रतिघातात्मकं स्मृतम् ॥५२॥

इत्येषा तामसी वृत्तिर्भूतादीनां चतुर्विधा ।
सत्त्वस्थमात्रकं चित्तं यथासत्त्वं प्रदर्शनात् ॥५३॥

तत्त्वानां च यथातत्त्वं दृष्ट्वा वै तत्त्वदर्शनात् ।
सत्त्वक्षेत्रज्ञनानात्वमेतन्नानार्थदर्शनम् ॥५४॥

नानात्वदर्शनं ज्ञानं ज्ञानाद्वै योग उच्यते ।
तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च ॥५५॥

संसारे विनिवृत्ते तु मुक्तो लिङ्गेन मुच्यते ।
निःसंबन्धो ह्यचैतन्यः स्वात्मन्येवावतिष्ठते ॥५६॥

स्वात्मन्यवस्थितश्चापि विरूपाख्येन लिख्यते ।
इत्येतल्लक्षणं प्रोक्तं समासाज्ज्ञान मोक्षयोः ॥५७॥

स चापि त्रिविधः प्रोक्तो मोक्षो वै तत्त्वदर्शिभिः ।
पूर्वं वियोगो ज्ञानेन द्वितीये रागसंक्षयात् ॥५८॥

तृष्णाक्ष यात्तृतीयस्तु व्याख्यातं मोक्षकारणम् ।
लिङ्गाभावात्तु कैवल्यं कैवल्यात्तु निरञ्जनम् ॥५९॥

निरञ्जनत्वाच्छुद्धस्तु नितान्यो नैव विद्यते ।
अत ऊर्द्ध्वं प्रवक्ष्यामि वैराग्यं दोषदर्शनात् ॥६०॥

दिव्ये च मानुषे चैव विषये पञ्चलक्षणे ।
अप्रद्वेषोऽनभिष्वङ्गः कर्त्तव्यो दोषदर्शनात् ॥६१॥

तपप्रीतिविषादानां कार्यं तु परिवर्जनम् ।
एवं वैराग्यमास्थाय शरीरी निर्ममो भवेत् ॥६२॥

अनित्यमशिवं दुःखमिति वुद्ध्यानुचिन्त्य च ।
विशुद्धं कार्यकरणं सत्त्वस्यातिनिषैवया ॥६३॥

परिपक्वकषायो हि कृत्स्नान्दोषान्प्रपश्यति ।
ततः प्रयाणकाले हि दोषैर्नैमित्तिकैस्तथा ॥६४॥

ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
स शरीरमुपाश्रित्य कृत्स्नान्दोषान्रुणद्धि वै ॥६५॥

प्राणक्थानानि भिन्दन्हि छिन्दन्मर्माण्यतीत्य च ।
शैत्यात्प्रकुपितो वायुरूर्द्ध्वं तूत्क्रमते ततः ॥६६॥

स चायं सर्वभूतानां प्राणस्थानेष्ववस्थितः ।
समासात्संवृते ज्ञाने संचृत्तेषु च कर्मसु ॥६७॥

स जीवो नाभ्यधिष्ठानः कर्मभिः स्वैः पुराकृतैः ।
अष्टाङ्गप्रणवृत्तिं वै स विच्यावयते पुनः ॥६८॥

शरीरं प्रजहन्सोंऽते निरुच्छ्वासस्ततो भवेत् ।
एवं प्राणैः परित्यक्तो मृत इत्यभिधीयते ॥६९॥

यथेह लोके स्वप्ने तं नीयमानमितस्ततः ।
रञ्जनं तद्विधेयस्य ते तान्यो न च विद्यते ॥७०॥

नृष्णाक्षयस्तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ।
शब्दाद्ये विषये दोषदृष्टिर्वै पञ्चलक्षणे ॥७१॥

अप्रद्वेषोऽनभिष्वङ्गः प्रीतितापविवर्जनम् ।
वैराग्यकारणं ह्येते प्रकृतीनां लयस्य च ॥७२॥

अष्टौ प्रकृतयो ज्ञेयाः पूर्वोक्ता वै यथाक्रमम् ।
अव्यक्ताद्यास्तु विज्ञेया भूतान्ताः प्रकृतेर्भवाः ॥७३॥

वर्णाश्रमाचारयुक्तः शिष्टः शास्त्राविरोधनः ।
वर्णाश्रमाणां धर्मोऽयं देवस्थानेषु कारणम् ॥७४॥

ब्रह्मादीनि पिशाचान्तान्यष्टौ स्थानानि देवता ।
ऐश्वर्यमाणिमाद्यं हि कारणं ह्यष्टलक्षणम् ॥७५॥

निमित्तमप्रतीघाते दृष्टे शब्दादिलक्षणे ।
अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ॥७६॥

क्षेत्रज्ञेष्वनुसज्जन्ते गुणमात्रत्मकानि तु ।
प्रावृट्काले पृथग्मेघं पश्यन्तीव सचक्षुषः ॥७७॥

पश्यन्त्येवं विधाः सिद्धा जीवं दिव्येन चक्षुषा ।
खादतश्चान्नपानानि योनीः प्रविशतस्तथा ॥७८॥

तिर्यगूर्ध्वमधस्ताच्च धावतोऽपि यथाक्रमम् ।
जीवः प्राणस्तथा लिङ्गं करणं च चतुष्टयम् ॥७९॥

पर्यायवाचकैः शब्दैरेकार्थैः सोऽभिलष्यते ।
व्यक्ताव्यक्तप्रमाणोऽयं स वै भुङ्क्ते तु कृत्स्नशः ॥८०॥

अव्यक्तानुग्रहान्तं च क्षेत्रज्ञाधिष्ठितं च यत् ।
एवं ज्ञात्वा शुचिर्भूत्वा ज्ञानाद्वै विप्रमुच्यते ॥८१॥

नष्टं चैव यथा तत्त्वं तत्त्वानां तत्त्वदर्शने ।
यथेष्टं परिनिर्याति भिन्ने देहे सुनिर्वृते ॥८२॥

भिद्यते करणं चापि ह्यव्यक्तज्ञानिनस्ततः ।
मुक्तो गुणशरीरेण प्रणाद्येन तु सर्वशः ॥८३॥

नान्यच्छरीरमादत्ते दग्धे वीजे यथाङ्कुरः ।
ज्ञानी च सर्वसंसाराविज्ञशारीरमानसः ॥८४॥

ज्ञानाच्चतुर्द्दशाबुद्धः प्रकृतिस्थो निवर्तते ।
प्रकृतिं सत्यमित्याहुर्विकारोऽनृतमुच्यते ॥८५॥

असद्भावोऽनृतं ज्ञेयं सद्भावः सत्य मुच्यते ।
अनामरूपं क्षेत्रज्ञनामरूपं प्रचक्षते ॥८६॥

यस्मात्क्षेत्रं विजानाति तत्मात्क्षेत्रज्ञ उच्यते ।
क्षेत्रं प्रत्ययते यस्मात्क्षेत्रज्ञः शुभ उच्यते ॥८७॥

क्षेत्रज्ञः स्मर्यते तस्मात्क्षेत्रं तज्ज्ञैर्विभाष्यते ।
क्षेत्रं त्वत्प्रत्ययं दृष्टं क्षेत्रज्ञः प्रत्ययः सदा ॥८८॥

क्षपणात्कारणाच्चैव क्षतत्राणात्तथैव च ।
भोज्यत्वविषयत्वाच्च क्षेत्रं क्षेत्रविदो विदुः ॥८९॥

महदाद्यं विशेषान्तं सर्वैरूप्यं विलक्षणम् ।
विकारलक्षणं तद्वै सोऽक्षरः क्षरमेति च ॥९०॥

तमेवानुविकारं तु यस्माद्वै क्षरते पुनः ।
तस्माच्च कारणाच्चैव ज्ञरमित्यभिधीयते ॥९१॥

संसारे नरकेभ्यश्च त्रायते पुरुषं च यत् ।
दुःखत्राणात्पुनश्चापि क्षेत्रमित्यभिधीयते ॥९२॥

सुखदुःखमहंभावाद्भोज्यमित्यभिधीयते ।
अचेतनत्वाद्विषयस्तद्विधर्मा विभुः स्मृतः ॥९३॥

न क्षीयते न क्षरति विकारप्रसृतं तु तत् ।
अक्षरं तेन वाप्युक्तम क्षीणत्वात्तथैव च ॥९४॥

यस्मात्पूर्यनुशेते च तस्मात्पुरुष उच्यते ।
पुरप्रत्ययिको यस्मात्पुरुषेत्यभिधीयते ॥९५॥

पुरुषं कथयस्वाथ कथितोऽज्ञैर्विभाष्यते ।
शुद्धो निरञ्जनाभासो ज्ञाता ज्ञानविवर्जितः ॥९६॥

अस्तिनास्तीति सोऽन्यो वा बद्धो मुक्तो गतःस्थितः ।
नैर्हेतुकात्त्वनिर्देश्यादहस्तस्मिन्न विद्यते ॥९७॥

शुद्धत्वान्न तु दृश्यो वै द्रष्टृत्वात्समदर्शनः ।
आत्मप्रत्ययकारित्वादन्यूनं वाप्यहेतुकम् ॥९८॥

भावग्राह्यमनुमानाच्चिन्तयन्न प्रमुह्यते ।
यदा पश्यति ज्ञातारं शान्तार्थं दर्शनात्मकम् ॥९९॥

दृश्यादृश्येषु निर्देश्यं तदा तद्दुर्द्धरं वरम् ।
विज्ञाता न च दृश्येत वृथक्त्वेनेह सर्वशः ॥१००॥

स्वेनात्मना तथात्मानं कारणात्मा नियच्छति ।
प्रकृतौ कारणे तत्र स्वात्मन्येवोपतिष्ठति ॥१०१॥

अस्तिनास्तीति सोऽन्यो वा इहामुत्रेति वा पुनः ।
एकत्वं वा पृथक्वं वा क्षेत्रज्ञः पुरुषोऽपि वा ॥१०२॥

आत्मा वा स निरात्मा वा चेतनोऽचेतनोऽपि वा ।
कर्त्ता वा सोऽप्यकर्त्ता वा भोक्ता वा भोज्यमेव च ॥१०३॥

यद्गत्वा न निवर्त्तन्ते क्षेत्रज्ञं तु निरञ्जनम् ।
अवाच्यं तदनाख्यानादग्राह्यं वादहेतुभिः ॥१०४॥

अप्रतर्क्यमचिन्त्यत्वादवा येत्वाच्च सर्वशः ।
नालप्य वचसा तत्त्वमप्राप्य मनसा सह ॥१०५॥

क्षेत्रज्ञे निर्गुणे शुद्धे शान्ते क्षीणे निरञ्जने ।
व्यपेतसुखदुःखे च निरुद्धे शान्तिमागते ॥१०६॥

निरात्मके पुनस्तस्मिन्वाच्यावाच्यं न विद्यते ।
एतौ संहारविस्तारौ व्यक्ताव्यक्तौ ततः पुनः ॥१०७॥

सृज्यते ग्रसते चैव व्यक्तौ पर्यवतिष्ठते ।
क्षेत्रज्ञाधिष्ठितं सर्वं पुनः सर्गे प्रवर्त्तते ॥१०८॥

अधिष्ठानं प्रपद्येत तस्यान्ते बुद्धिपूर्वकम् ।
साधर्म्यवैधर्म्यकृतः संयोगो विदितस्तयोः ।
अनादिमांश्च संयोगो महापुरुषजः स्मृतः ॥१०९॥

यावच्च सर्गप्रति सर्गकालस्तावज्जगत्तिष्ठति संनिरुध्य ।
पूर्वं हि तस्यैव च बुद्धिपूर्वं प्रवर्त्तते तत्पुरुषार्थंमेव ॥११०॥

एषा निसर्गप्रतिसर्गपूर्वा प्राधानिकी चेश्वरकारिता वा ।
अनाद्यनन्ता ह्यभिमानपूर्वकं वित्रासयन्ती जगदभ्युपैति ॥१११॥

इत्येष प्राकृतः सर्गस्तृतीयो हेतुलक्षणः ।
उक्तो ह्यस्मिंस्तदात्यन्तं कालं ज्ञात्वा प्रमुच्यते ॥११२॥

इत्येष प्रतिसर्गो वस्त्रिविदः कीर्त्तितो मया ।
विस्तरेणानुपूर्व्याच भूयः किं वर्त्तयाम्यहम् ॥११३॥

इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते उत्तरभागे चतुर्थ उपसंहारपादे प्रतिसर्गो नाम तृतीयोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP