उत्तरभागः - अध्यायः २२

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अथ श्रीललितासेनानिस्साणप्रतिनिस्वनः ।
उच्चचालसुरेन्द्राणां योद्धतो दुन्दुभिध्वनिः ॥१॥

तेन मर्दितदिक्केन क्षुभ्यद्गर्भपयोधिना ।
बधिरीकृतलोकेन चकम्पे जगतां त्रयी ॥२॥

मर्दयन्ककुभां वृन्दं भिन्दन्भूधरकन्दराः ।
पुप्रोथे गगनाभोगे दैत्य निःसाणनिस्वनः ॥३॥

महानरहरिक्रुद्धहुङ्कारोद्धतिमद्ध्वनिः ।
विरसं विररासोच्चैर्विबुधद्वेषिझल्लरी ॥४॥

ततः किलकिलारावमुखरा दैत्यकोटयः ।
समनह्यन्त संक्रुद्धाः प्रति तां परमेश्वरीम् ॥५॥

कश्चिद्रत्नविचित्रेण वर्मणाच्छन्नविग्रहः ।
चकाशे जङ्गम इव प्रोत्तुङ्गो रोहणाचलः ॥६॥

कालरात्रिमिवोदग्रां शस्त्रकारेण गोपिताम् ।
अधुनीत भटः कश्चिदतिधौतां कृपाणिकाम् ॥७॥

उल्ला सयन्कराग्रेण कुन्तपल्लवमेकतः ।
आरूढतुरगो वीथ्यां चारिभेदं चकार ह ॥८॥

केचिदारुरुहुर्योधा मातङ्गांस्तुङ्गवर्ष्मणः ।
उत्पात वातसंपातप्रेरितानिव पर्वतान् ॥९॥

पट्टिशैर्मुद्गरैश्चैव भिदुरैर्भिण्डिपालकैः ।
द्रुहणैश्च भुशुण्डीभिः कुठारैर्मुसलैरपि ॥१०॥

गदाभिश्च शतघ्नीभिस्त्रिशिखैर्विशिखैरपि ।
अर्धचक्रैर्महाचक्रैर्वक्राङ्गैरुरगाननैः ॥११॥

फणिशीर्षप्रभेदैश्च धनुर्भिः शार्ङ्गधन्विभिः ।
दण्डैः क्षेपणिकाशस्त्रैर्वज्रबाणैर्दृषद्वरैः ॥१२॥

यवमध्यैर्मुष्टिमध्यैर्वललैः खण्डलैरपि ।
कटारैः कोणमध्यैश्च फणिदन्तैः परःशतैः ॥१३॥

पाशायुधैः पाशतुण्डैः काकतुण्डैः सहस्रशः ।
एवमादिभिरत्युग्रैरायुधैर्जीवहारिभिः ॥१४॥

परिकल्पितहस्ताग्रा वर्मिता दैत्यकोटयः ।
अश्वारोहा गजारोहा गर्दभारोहिणः परे ॥१५॥

उष्ट्रारोहा वृकारोहा शुनकारोहिणः परे ।
काकादिरोहिणो गृध्रारोहाः कङ्कादिरोहिणः ॥१६॥

व्याघ्रादिरोहिणश्चान्ये परे सिंहादिरोहिणः ।
शरभारोहिणश्चान्ये भेरुण्डारोहिणः परे ॥१७॥

सूकरारोहिणो व्यालारूढाः प्रेतादिरोहिणः ।
एवं नानाविधैर्वाहवाहिनो ललितां प्रति ॥१८॥

प्रचेलुः प्रबलक्रोधसंमूर्च्छितनिजाशयाः ।
कुटिलं सैन्यभर्त्तारं दुर्मदं नाम दानवम् ।
दशाक्षौहिणिकायुक्तं प्राहिणोल्ललितां प्रति ॥१९॥

दिधक्षुभिरिवाशेषं विश्वं सह बलोत्कटैः ।
भटैर्युक्तः स सेनानी ललिताभिमुखे ययौ ॥२०॥

भिन्दन्पटहसंरावैश्चतुर्दश जगन्ति सः ।
अट्टहासान्वितन्वानो दुर्मदस्तन्मुखो ययौ ॥२१॥

अथ भण्डासुराज्ञप्तः कुटिलाक्षो महाबलः ।
शून्यकस्य पुरद्वारे प्रचीने समकल्पयत् ।
रक्षणार्थं दशाक्षौ हिण्युपेतं तालजङ्घकम् ॥२२॥

अवाचीने पुरद्वारे दशाक्षौहिणिकायुतम् ।
नाम्ना तालभुजं दैत्यं रक्षणार्थमकल्पयत् ॥२३॥

प्रतीचीने पुरद्वारे दशाक्षौहिणिकायुतम् ।
तालग्रीवं नाम दैत्यं रक्षार्थं समकल्पयत् ॥२४॥

उत्तरे तु पुरद्वारे तालकेतुं महा बलम् ।
आदिदेश स रक्षार्थं दशाक्षौहिणिकायुतम् ॥२५॥

पुरस्य सालवलये कपिशीर्षकवेश्मसु ।
मण्डलाकारतो वस्तुन्दशाक्षौहिणिमादिशत् ॥२६॥

एवं पञ्चाशता कृत्वाक्षौहिण्या पुररक्षणम् ।
शून्यकस्य पुरस्यैव तद्वृत्तं स्वामिनेऽवदत् ॥२७॥

कुटिलाक्ष उवाच
देव त्वदाज्ञया दत्तं सैन्यं नगररक्षणे ।
दुर्मदः प्रेषितः पूर्वं दुष्टां तां ललितां प्रति ॥२८॥

अस्मत्किङ्कर मात्रेण सुनिराशा हि साबला ।
तथापि राज्ञामाचारः कर्त्तव्यं पुररक्षणम् ॥२९॥

इत्युक्त्वा भण्डदैत्येन्द्रं कुबिलाक्षोऽतिगर्वितः ।
स्वसैन्यं सज्जयामास सेनापतिभिरन्वितः ॥३०॥

दूतस्तु प्रेषितः पूर्वं कुटिलाक्षेण दानवः ।
स ध्वनन्ध्वजिनीयुक्तो ललितासैन्य मावृणोत् ॥३१॥

कृत्वा किलकिलारावं भटास्तत्र सहस्रशः ।
दोधूयमानैरसिभिर्निपेतुः शक्तिसैनिकैः ॥३२॥

ताश्च शक्त्य उद्दण्डाः स्फुरिताट्टहसस्वनाः ।
देदीप्यमानशस्त्राभाः समयुध्यन्त दानवैः ॥३३॥

शक्तीनां दानवानां च संशोभितजगत्त्रयः ।
समवर्तत संग्रामो धूलिग्रामतताम्बरः ॥३४॥

रथवंशेषु मूर्च्छन्त्यः करिकण्ठैः प्रपञ्चिताः ।
अश्वनिःश्वासविक्षिप्ता धूलयः रवं प्रपेदिरे ॥३५॥

तमापतन्तमालोक्य दशाक्षौहिणिकावृतम् ।
संपत्सरस्वती क्रोधादभिदुद्राव संगरे ॥३६॥

सम्पत्करीसमानाभिः शक्तिभिः समधिष्ठिताः ।
अश्वाश्च दन्तिनो मत्ता व्यमर्दन्दानत्रीं चमुम् ॥३७॥

अन्योन्यतुमुले युद्धे जाते किलिकिलारवे ।
धूलीषु धूयमानासु ताड्यमानासु भेरिषु ॥३८॥

इतस्ततः प्रववृधे रक्तसिन्धुर्महीयसी ।
शक्तिभिः पात्यमानानां दानवानां सहस्रशः ॥३९॥

ध्वजानि लुठितान्यासन्विलूनानि शिलीमुखैः ।
विस्रस्ततत्तच्छिह्नानि समं छत्रकदम्बकैः ॥४०॥

रक्तारुणायां युद्धोर्व्यां पतितैश्छत्रमण्डलैः ।
आलंबि तुलना संध्यारक्ताभ्रहिमरोचिषा ॥४१॥

ज्वालाकपालः कल्पाग्निरिव चारुपयोनिधौ ।
दैत्यसैन्यानि निवहाः शक्तीनां पर्यवारयन् ॥४२॥

शक्तिच्छन्दोज्ज्वलच्छस्त्रधारानिष्कृत्तकन्धराः ।
दानवानां रणतले निपेतुर्मुण्डराशयः ॥४३॥

दष्टौष्ठैर्भ्रुकुटीक्रूरैः क्रोधसंरक्तलोचनैः ।
मुण्डैरखण्डमभवत्संग्रामधरणीतलम् ॥४४॥

एवं प्रवृत्ते समये जगच्चक्रभयङ्करे ।
शक्तयो भृशसंक्रुद्धा दैत्यसेनाममर्दयन् ॥४५॥

इतस्ततः शक्तिशस्त्रैस्ताडिता मूर्च्छिता इति ।
विनेशुर्दानवास्तत्र संपद्देवीबलाहताः ॥४६॥

अथ भग्नं समाश्वास्य निजं बलमरिन्दमः ।
उष्ट्रमारुह्य सहसा दुर्मदोऽभ्यद्रवच्चमुम् ॥४७॥

दीर्घग्रीवः समुन्नद्धः पृष्ठे निष्ठुरतोदनः ।
अधिष्ठितो दुर्मदेन वाहनोष्ट्रश्चचाल ह ॥४८॥

तमुष्ट्रवाहनं दुष्टमन्वीयुः क्रुद्धचेतसः ।
दानावनश्वसत्सर्वान्भीताञ्छक्तियुयुत्सया ॥४९॥

अवाकिरद्दिशो भल्लैरुल्लसत्फलशालिभिः ।
संपत्करीचमूचक्रं वनं वार्भिरिवांबुदः ॥५०॥

तेन दुःसहसत्त्वेन ताडिता बहुभिः शरैः ।
स्तंभितेवाभवत्सेना संपत्कर्याः क्षणं रणे ॥५१॥

अथ क्रोधारुणं चक्षुर्दधाना संपदंबिका ।
रणकोलाहलगजमारूढायुध्यतामुना ॥५२॥

आलोलकङ्कणक्वाणरमणीयतरः करः ।
तस्याश्चाकृष्य कोदण्डमौर्वीमाकर्णमाहवे ॥५३॥

लघुहस्ततयापश्यन्नाकृष्टन्न च मोक्षणम् ।
ददृशे घनुषश्चक्रं केवलं शरधारणे ॥५४॥

आश्वर्काबरसंपर्कस्फुटप्रतिफलत्फलाः ।
शराः सम्पत्करीचापच्युताः समदहन्नरीन् ॥५५॥

दुर्मदस्याथ तस्याश्च समभूद्युद्धमुद्धतम् ।
अभूदन्योन्यसंघट्टाद्विस्फुलिङ्गशिलीमुखैः ॥५६॥

प्रथमं प्रसृतैर्बाणैः सम्पद्देवीसुरद्विषोः ।
अन्धकारः समभवत्तिरस्कुर्वन्नहस्करम् ॥५७॥

तदन्तरे च बाणानामतिसंघट्टयोनयः ।
विष्फुलिङ्गा विदधिरे दधिरे भ्रमचातुरीम् ॥५८॥

तयाधिरूढः संश्रोण्यारणकोलाहलः करी ।
पराक्रमं बहुविधं दर्शयामास संगरे ॥५९॥

करेण कतिचिद्दैत्यान्पादघातेन कांश्चन ।
उदग्रदन्तमुसलघातैरन्यांश्च दानवान् ॥६०॥

वालकाण्डहतैरन्यान्फेत्कारैरपरान्रिपून् ।
गात्रव्यामर्द्दनैरन्यान्नखघातैस्तथापरान् ॥६१॥

पृथुमानाभिघातेन कांश्चिद्दैत्यन्व्यमर्दयत् ।
चतुरं चरितं चक्रे संपद्देवीमतङ्गजः ॥६२॥

सुदुर्मदः क्रुधा रक्तो दृढेनैकेन पत्रिणा ।
संपत्करीमुकुटगं मणिमेकमपाहरत् ॥६३॥

अथ क्रोधारुणदृशा तया मुक्तैः शिलीमुखैः ।
विक्षतो वक्षसि क्षिप्रं दुर्मदो जीवितं जहौ ॥६४॥

ततः किलकिला रावं कृत्वा शक्तिचमूवरैः ।
तत्सैनिकवरास्त्वन्ये निहता दानवोत्तमाः ॥६५॥

हतावशिष्टा दैत्यास्तु शक्तिबाणैः खिलीकृताः ।
पलायिता रणक्षोण्याः शून्यकं पुरमाश्रयन् ॥६६॥

तद्वृत्तान्तमथाकर्ण्य संक्रुद्धो दानवेश्वरः ॥६७॥

प्रचण्डेन प्रभावेण दीप्यमान इवात्मनि ।
स पस्पर्श नियुद्धाय खड्गमुग्रविलोचनः ।
कुटिलाक्षं निकटगं बभाषे पृतनापतिम् ॥६८॥

कथं सा दुष्टवनिता दुर्मदं बलशालिनम् ।
निपातितवती युद्धे कष्ट एव विधेः क्रमः ॥६९॥

न सुरेषु न यक्षेषु नोरगेन्द्रेषु यद्बलम् ।
अभूत्प्रतिहतं सोऽपि दुर्मदोऽबलया हतः ॥७०॥

तां दुष्टवनितां जेतुमाक्रष्टुं च कचं हठात् ।
सेनापतिं कुरण्डाख्यं प्रेषयाहवदुर्मदम् ॥७१॥

एति संप्रोषितस्तेन कुटिलाक्षो महापलम् ।
कुरण्डं चण्डदोर्द्दण्डमाजुहाव प्रभोः पुरः ॥७२॥

स कुरण्डः समागत्य प्रणाम स्वामिनेऽदिशत् ।
उवाच कुटिलाक्षस्तं गच्छ सज्जय सैनिकान् ॥७३॥

मायायां चतुरोऽसि त्वं चित्रयुद्धविशारद ।
कूटयुद्धे च निपुणस्तां स्त्रियं परिमर्दय ॥७४॥

इति स्वामिपुरस्तेन कुटिलाक्षेण देशितः ।
निर्जगाम पुरात्तूर्णं कुरण्डश्चण्डविक्रमः ॥७५॥

विंशत्यक्षौहिणीभिश्च समन्तात्परिवारितः ।
मर्दयन्स महीगोलं हस्तिवाजिपदातिभिः ।
दुर्मदस्याग्रजश्चण्डः कुरण्डः समरं ययौ ॥७६॥

दूलीभिस्तुमुलीकुर्वन्दिगन्तं धीरमानसः ।
शोकरोषग्रहग्रस्तो जवनाश्वगतो ययौ ॥७७॥

शार्ङ्गं धनुः समादाय घोरटङ्कारमुत्स्वनम् ।
ववर्ष शरधारभिः संपत्कर्या महाचमूम् ॥७८॥

पापे मदनुजं हत्वा दुर्मदं युद्धदुर्मदम् ।
वृथा वहसि विक्रान्तिलवलेशं महामदम् ॥७९॥

इदानीं चैव भवतीमेतैर्नाराचमण्डलैः ।
अन्तकस्य पुरीमत्र प्रापयिष्यामि पश्य माम् ॥८०॥

अतिहृद्यमतिस्वादु त्वद्वपुर्बिलनिर्गतम् ।
अपूर्वमङ्गनारक्तं पिबन्तु रणपूतनाः ॥८१॥

ममानुजवधोत्थस्य प्रत्यवायस्य तत्फलम् ।
अधुना भोक्ष्यसे दुष्टे पश्य मे भुजयोर्बलम् ॥८२॥

इति संतर्जयन्संपत्करीं करिवरस्थिताम् ।
सैन्यं प्रोत्साहयामास शक्तिसेनाविमर्दने ॥८३॥

अथ तां पृतनां चण्डी कुरण्डस्य महौजसः ।
विमर्दयितुमुद्युक्ता स्वसैन्यं प्रोदसीसहत् ॥८४॥

अपुर्वाहवसंजातकौतुकाथ जगाद ताम् ।
अश्वरूढा समागत्य सस्नेहार्द्रमिदं वचः ॥८५॥

सखि संपत्करि प्रीत्या मम वाणी निशम्यतम् ।
अस्य युद्धमिदं देहि मम कर्तुं गुणोत्तरम् ॥८६॥

क्षणं सहस्व समरे मयैवैष नियोत्स्यते ।
याचितासि सखित्वेन नात्र संशयमाचर ॥८७॥

इति तस्या वचः श्रुत्वा संपद्देव्या शुचिस्मिता ।
निवर्तयामास चमूङ्कुरुण्डाभिमुखोत्थिताम् ॥८८॥

अथ बालार्कवर्णाभिः शक्तिभिः समधिष्ठिताः ।
तरङ्गा इव सैन्याब्धेस्तुरङ्गा वातरंहसः ॥८९॥

खरैः खुरपुटैः क्षोणीमुल्लिखन्तो मुहुर्मुहुः ।
पेतुरेकप्रवाहेण कुरण्डस्य चमूमुखे ॥९०॥

वल्गाविभागकृत्येषु संवर्तनविवर्तने ।
घतिभेदेषु चारेषु पञ्चधा खुरपातने ॥९१॥

प्रोत्साहने च संज्ञाभिः करपादाग्रयोनिभिः ।
चतुराभिस्तुरङ्गस्य हृदयज्ञाभिराहवे ॥९२॥

अश्वारूढांबिकासैन्यशक्तिभिः सह दानवाः ।
प्रोत्साहिताः कुरण्डेन समयुध्यन्त दुर्मदाः ॥९३॥

एवं प्रवृत्ते समरे शक्तीनां च सुरद्विषाम् ।
अपराजितनामानं हयमारुह्य वेगिनम् ।
अभ्यद्रवद्दुराचारमश्वारूढाः कुरण्डकम् ॥९४॥

प्रचलद्वेणिसुभगा शरच्चन्द्रकलोज्ज्वला ।
संध्यानुरक्तशीतांशुमण्डलीसुंदरानना ॥९५॥

स्मयमानेव समरे गृहीतमणिकार्मुका ।
अवाकिरच्छरासारैः कुरण्डं तुरगानना ॥९६॥

तुरगारूढयोत्क्षिप्ताः समाक्रामन्दिगन्तरान् ।
दिशो दश व्यानशिरे रुक्मपुङ्खाः शिलीमुखाः ॥९७॥

दुर्मदस्याग्रजः क्रुद्धः कुरण्डश्चण्डविक्रमः ।
विशिखैः शार्ङ्गनिष्ठ्यूतैरश्वारूढा मवाकिरत् ॥९८॥

चण्डैः खुरपुटैः सैन्यं खण्डयन्नतिवेगतः ।
अश्वारूढातुरङ्गोऽपि मर्दयामास दानवान् ॥९९॥

तस्या हेषारवाद्दूरमुत्पातांबुधिनिःस्वनः ।
अमूर्च्छयन्ननेकानि तस्यानीतानि वैरिणः ॥१००॥

इतस्ततः प्रचलितैर्दैत्यचक्रे हयासना ।
निजं पाशायुधं दिव्यं मुमोच ज्वलिताकृति ॥१०१॥

तस्मात्पाशात्कोटिशोऽन्ये पाशा भुजगभीषणाः ।
समस्तमपि तत्सैन्यं बद्ध्वाबद्ध्वा व्यमूर्छयन् ॥१०२॥

थ सैनिकबन्धेन क्रुद्धः स च कुरण्डकः ।
सरेणैकेन चिच्छेद तस्या मणिधनुर्गुणम् ॥१०३॥

छिन्नमौर्वि धनुस्त्यक्त्वा भृशङ्क्रुद्धा हयासना ।
अङ्कुशं पातयामास तस्य वक्षसि दुर्मतेः ॥१०४॥

तेनाङ्कुशेन ज्वलता पीतजीवितशोणितः ।
कुरण्डो न्यपतद्भूमौ वज्ररुग्ण इव द्रुमः ॥१०५॥

तदङ्कुशविनिष्ठ्यूताः पुतनाः काश्चिदुद्भटाः ।
तत्सैन्यं पाशनिष्यन्दं भक्षयित्वा क्षयं गताः ॥१०६॥

इत्थं कुरुण्डे निहते विंशत्यक्षौहिणीपतौ ।
हतावशिष्टास्ते दैत्याः प्रपलायन्त वै द्रुतम् ॥१०७॥

कुरण्डं सानुजं युद्धे शक्तिसैन्यैर्निपातितम् ।
श्रुत्वा शून्यकनाथोऽपि निशश्वास भुजङ्गवत् ॥१०८॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने दुर्मदकुरण्डवधो नाम द्वाविंशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP