उत्तरभागः - अध्यायः ३६

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


हयग्रीव उवाच
चिन्तामणिगृहस्याग्निदिग्भागे कुन्दमानकम् ।
योजनायामविस्तारं योजनोच्छासचातकम् ॥१॥

तत्र ज्वलति चिद्वह्निः सुधाधाराशतार्चितः ।
परमैश्वर्यजनकः पावनो ललिताज्ञया ॥२॥

अनिन्धनो महाज्वालः सुधया तर्पिताकृतिः ।
कङ्कोलीपल्लवच्छायस्तत्र ज्वलति चिच्छिखी ॥३॥

तत्र होत्री महादेवी होता कामेश्वरः परः ।
उभौ तौ नित्यहोतारौ रक्षतः सकलं जगत् ॥४॥

अनुत्तरपराधीना ललिता संप्रवर्तिता ।
ललिताचोदितः कामः शङ्करेण प्रवर्तितः ॥५॥

चिन्तामणिगृहेन्द्रस्य रक्षोभागेम्बुजाटवौ ॥६॥

चक्रराजरथश्रेष्ठस्तिष्ठत्युन्नतविग्रहः ।
नवभिः पर्वभिर्युक्तः सर्वरत्नमयाकृतिः ॥७॥

चतुर्योजनविस्तारो दशयोजनमुन्नतः ।
यथोत्तरे ह्रासयुक्तः स्थूलतः कूबरोज्ज्वलः ॥८॥

चतुर्वेदमहाचक्रः पुरुषार्थमहाहयः ।
तत्त्वैरु पचरद्भिश्च चामरैरभिमण्डितः ॥९॥

पूर्वोक्तलक्षणैर्युक्तो मुक्ताच्छत्रेण शोभितः ।
भण्डासुरमहायुद्धे कृतसाहसिकक्रियः ॥१०॥

वर्तते रथमूर्धन्यः श्रीदेव्यासनपाटितः ।
चिन्तामणिगृहेन्द्रस्य वायुभागेम्बुजाटवौ ॥११॥

गेयचक्ररथेन्द्रस्तु मन्त्रिण्याः प्रान्ततिष्ठति ।
चिन्तामणिगृहेन्द्रस्य रुद्रभागेम्बुजाटवौ ॥१२॥

वल्लभो दण्डनाथायाः किरिचक्रे महारथः ।
एतद्रथत्रयं सर्वक्षेत्रश्रीपुरपक्तिषु ।
समानमेव विज्ञेयमङ्गस्था देवता यथा ॥१३॥

आनलं कुण्डमाग्नेये यत्तिष्ठति सदा ज्वलत् ।
तप्तमेतत्तु गायत्री तप्तं स्याद भयङ्करम् ॥१४॥

घृणिसूर्यस्तु तत्पश्चादोंकारस्य च मन्दिरम् ।
देवी तुरीयगायत्री चक्षुष्मत्यपि तापस ॥१५॥

अथ गन्धर्वराजश्च परिषद्रुद्र एव च ।
तारांबिका भगवती तत्पश्चाद्भागतः स्थिताः ॥१६॥

चिन्तामणिगृहेन्द्रस्य रक्षोभागं समाश्रितः ।
नामत्रय पहामन्त्रवाच्योऽस्ति भगवान्हरिः ॥१७॥

महागणपतिस्तस्योत्तरसंश्रितकेतनः ।
पञ्चाक्षरीमन्त्रवाच्यस्तस्य चाप्युत्तरे शिवः ॥१८॥

अथ मृत्युञ्जयेशश्च वाच्यर्त्र्यक्षरमात्रतः ।
सरस्वती धारणाख्या ह्यस्य चोत्तरवासिनी ॥१९॥

अकारादिक्षकारान्तवर्णमूर्तेस्तु मन्दिरम् ।
मातृकाया उत्तरतस्तस्यां विन्ध्यनिषूदन ॥२०॥

उत्तरे सम्पदेशी वै कालसंकर्षणी तथा ।
श्रीमहाशम्भुनाथा च देव्याविर्भावकारणम् ॥२१॥

श्रीः परांबा च विशदज्योत्स्ना निर्मलविग्रहा ।
उत्तरोत्तरमेतास्तु देवताः कृतमन्दिराः ॥२२॥

बालाचैवान्नपूर्णा च हयारूढा तथैव च ।
श्रीपादुकाचतस्रस्तदुत्तरोत्तरमन्दिराः ॥२३॥

चिन्तामणिगृहेन्द्रस्य वायव्यवसुधादितः ।
महापद्माटवौ त्वन्या देवताः कृतमन्दिराः ॥२४॥

उन्मत्तभैरवी चैव स्वप्नवाराहिका परा ।
तिरस्करणिकांबा च तथान्या पञ्चमी परा ॥२५॥

यथापूर्वं कृतगृहा एता देव्यो महोदयाः ।
श्रीपूर्तिश्च महादेवी श्रीमहापादुकापि च ॥२६॥

यथापूर्वं कृतगृहे द्वे एते देवतोत्तमे ।
शङ्करेण षडाम्नायसागरे प्रतिपादिताः ।
या विद्यास्ताः समस्ताश्च महापद्माटवीस्थले ॥२७॥

इत्थं श्रीरश्मिमालाया मणिकॢप्ता गहागृहाः ।
उच्चध्वजा उच्चशालास्ससोपानास्तपोधन ॥२८॥

चिन्तामणिगृहेन्द्रस्य पूर्वद्वारे समुद्रप ।
दक्षिणे पार्श्वभागेतु मन्त्रिनाथागृहं महत् ॥२९॥

वामभागे दण्डनाथाभवनं रत्ननिर्मितम् ।
ब्रह्मविष्णुमहेशानामर्ध्यस्थानम्य पूर्वतः ॥३०॥

भवनं दीपिताशेषदिक्चक्रं रत्नरश्मिभिः ।
समस्ता देवता एता ललिताभक्तिनिर्भराः ।
ललितामन्त्रजाप्याश्च श्रीदेवीं समुपासते ॥३१॥

पूर्वोक्त मर्ध्यस्थानं च पूर्वोक्तं चार्ध्यकल्पनम् ।
याम्यद्वारप्रभृतिषु सर्वेष्वपि समं स्मृतम् ॥३२॥

अथ चिन्तामणिगृहं वक्ष्ये शृणु महामुने ।
तच्छ्रीपट्टनमध्यस्थं योजनद्वयविस्मृतम् ॥३३॥

तस्य चिन्तामणिभयी भित्तिः कोशसुविस्तृता ।
चिन्तामणिशिलाभिश्च च्छादिनीभिस्तथोपरि ॥३४॥

संवृता कूटरूपेण तत्रतत्र समुन्नता ।
गृहभित्तिस्तथोन्नम्रा चतुर्योजनमानतः ॥३५॥

विंशतिर्योजनं तस्याश्चोन्नम्रा भूमिरुच्यते ।
ततोर्ध्वं ह्राससंयुक्तं स्थौल्यत्रिमुकुटोज्ज्वला ॥३६॥

तानि चेच्छाक्रियाज्ञानरूपाणि मुकुटान्यृषे ।
सदा देदीप्यमानानि चिन्तामणिमयान्यपि ॥३७॥

चिन्तामणिगृहे सर्वं चिन्तामणिमयं स्मृतम् ।
यस्य द्वाराणि चत्वारि क्रोशार्धायामभाञ्जि च ॥३८॥

क्रोशार्द्धार्द्धं च विस्तारो द्वाराणां कथितो मुने ।
द्वारेषु सर्वेषु पुनश्चिन्तामणिगृहान्तरे ॥३९॥

पिहिता ललिता देव्या मूतर्लोहितसिन्धुवत् ।
तरुणार्कसहस्राभा चन्द्रवच्छीतला ह्यपि ।
मुहुः प्रवाहरूपेण प्रसरन्ती महामुने ॥४०॥

पूर्वाम्नाय मयं चैव पूर्वद्वारं प्रकीर्तितम् ।
दक्षिणद्वारदेशस्तु दक्षिणाम्नायलक्षणः ॥४१॥

पश्चिमद्वारदेशस्तु पश्चिमाम्नायलक्षणः ।
उत्तरद्वारदेशः स्यादुत्तराम्नायलक्षणः ॥४२॥

गृहराजस्यान्तराले भित्तौ खचितदण्डकाः ।
रत्नप्रदीपा भास्वन्तः कोट्यर्कसदृशत्विषः ।
परितस्तत्र वर्तन्ते भासयन्तो गृहान्तरम् ॥४३॥

चिन्तामणिगृहस्यास्य मध्यस्थाने महीयसि ।
अत्युच्चैर्वेदिकाभागे बिन्दुचक्रं महात्तरम् ॥४४॥

चिन्तारत्नगृहोत्तुङ्गभिन्त्तेर्बिन्दोश्च मध्यभूः ।
भित्तिः क्रोशं परित्यज्य क्रोशत्रयमुदाहृतम् ॥४५॥

तत्र क्रोशत्रयस्थाने ह्यणिमाद्यात्मरोचिषा ।
क्रोशत्रयं समस्तं तद्धस्तसंख्याप्रकारतः ।
चतुर्विंशतिसाहस्रहस्तैः संमितमुच्यते ॥४६॥

बिन्दुपीठेशपर्यम्तं चतुर्दशविभेदतः ।
अन्तरे भेदिते जाते हस्तसंख्या मयोच्यते ॥४७॥

पद्माटवीस्थलाच्चिन्तामणिवेश्मान्तरं मुने ।
हस्तविंशतिरुन्नम्रं तत्र स्युरणिमादयः ॥४८॥

अणिमान्तरविस्तारश्चतुर्नल्वसमन्वितः ।
किष्कुश्चतुःशती नल्वकिष्कुर्हस्त उदीर्यते ॥४९॥

तत्रान्तरेऽणिमाद्यास्तु पूर्वादिकृतमन्दिराः ।
अणिमा महिमा चैव लघिमा गरिमा तथा ॥५०॥

ईशित्वं च वशित्वं च प्राकाम्यं मुक्तिरेव च ।
इच्छा प्राप्तिः सर्वकामेत्येताः सिद्धय उत्तमाः ॥५१॥

रससिद्धिर्मोक्षसिद्धिर्बलसिद्धिस्तथैव च ।
खड्गसिद्धिः पादुकाया सिद्धिरञ्जनसिद्धिकः ॥५२॥

वाक्सिद्धिर्लोकसिद्धिश्च देहसिद्धिरनन्तरम् ।
एता अष्टौ सिद्धयस्तु बह्व्योऽन्या योगिसंमताः ॥५३॥

तत्रान्तरे तु परितः सेवते परमेश्वरीम् ।
कोटिशः सिद्धयस्तस्मिन्नणिमाद्यन्तरे मुने ॥५४॥

नवलावण्यसंपूर्णाः स्मयमानमुखांबुजाः ।
ज्वलच्चिन्तामणि कराः मदा षोडशवर्षिकाः ।
अत्युदारप्रकृतयः खेलन्ति मदविह्वलाः ॥५५॥

तस्याणिमाद्यन्तरस्योपरिष्टात्सुमनोहरम् ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥५६॥

चतुर्दिक्षु च सोपानपङ्क्तिभिः सुमनोहरम् ।
ब्रह्माद्यंबरधिष्ण्यं स्यात्तत्रदेवीः स्थिताः शृणु ॥५७॥

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डाप्यथ सप्तमी ।
महालक्ष्मीरष्टमी तु तत्रैताः कृतमन्दिराः ॥५८॥

नानाविधायुधाढ्याश्च नानाशक्तिपरिच्छदाः ।
पूर्वादिदिशमारभ्य प्रादक्षिण्यकृतालयाः ॥५९॥

अथ ब्राह्यन्तरा तस्योपरिष्टात्कुम्भसंभव ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
मुद्रान्तरमिति त्रैधं तत्र मुद्राः कृतालयाः ॥६०॥

संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः ।
खेचरी बीजयोन्याख्या त्रिखण्डा दशमी पुनः ॥६१॥

पूर्वादिदिशमारभ्य मुद्रा एताः प्रतिष्ठिताः ।
अत्यन्तसुन्दराकारा नवयौवनविह्वलाः ॥६२॥

कान्तिभिः कमनीयाभिः पूरयन्त्यो गृहान्तरम् ।
सेवन्ते मुनिशार्दूल ललितापरमेश्वरीम् ॥६३॥

अन्तरं त्रयमेतत्तु चक्रं त्रैलोक्यमोहनम् ।
एतस्मिञ्छक्तयो यासु ता उक्ताः प्रकटाभिधाः ॥६४॥

एतसां समधिष्ठात्री त्रिपुरा चक्रनायिका ।
तच्चक्रपालनकरी मुद्रासंक्षोभणात्मिका ॥६५॥

अथ मुद्रान्तरस्योर्ध्वं प्रोक्ता नित्याकलां तरम् ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
पर्वतश्चैव सोपानमुत्तरोत्तरमिष्यते ॥६६॥

नित्याकलान्तरे तस्मिन्कामाकर्षणिकासुखाः ।
परितः कृतसंस्थानाः षोडशेन्दुकलात्मिकाः ॥६७॥

तर्पयन्त्यो दिशां चक्रं सुधास्यन्दैः सुशीतलैः ।
तासां नामानि मत्तस्त्वमवधारय कुम्भज ॥६८॥

कामाकर्षिणिका नित्या बुद्ध्याकर्षणिकापरा ।
रसाकर्षणिका नित्या गन्धाकर्षणिका कला ॥६९॥

चित्ताकर्षणिका नित्या धैर्याकर्षणिका कला ।
स्मृत्याकर्षणिका नित्या नामाकर्षणिका कला ॥७०॥

बीजाकर्षणिका नित्या चार्थाकर्षणिका कला ।
अमृताकर्षणी चान्या शरीराकर्षणी कला ॥७१॥

एतास्तु गुप्तयोगिन्यस्त्रिपुरेशी तु चक्रिणी ।
सर्वाशापूरिकाभिख्या चक्राधिष्ठानदेवता ॥७२॥

एतच्चक्रे पालिका तु मुद्रा द्राविणिकाभिधा ।
नित्या कलान्तरादूर्ध्वं धिष्ण्य मत्यन्तसुन्दरम् ॥७३॥

हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
प्राग्वत्सोपानसंयुक्तं सर्वसंक्षोभणाभिधम् ॥७४॥

तत्राष्टौ शक्तयस्तीव्रा मदारुणविलोचनाः ।
नवतारुण्यमच्चाश्च सेवन्ते परमेश्वरीम् ॥७५॥

कुसुमा मेखला चैव मदना मदनातुरा ।
रेखा वेगिन्यङ्कुशा च मालिन्यष्टौ च शक्तयः ॥७६॥

कोटिशस्तत्परीवारः शक्तयोऽनङ्गपूर्विकाः ।
सर्वसंक्षोभमिदं चक्रं तदधिदेवता ॥७७॥

सुंदरी नाम विज्ञेया नाम्ना गुप्ततरापि सा ।
तच्चक्रपालनकरी मुद्राकर्षणिका स्मृता ॥७८॥

अनङ्गशक्त्यन्तरस्योपरिष्टात्कुंभसंभव ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
संक्षोभिण्याद्यन्तरं स्यात्सर्वसौभाग्यदायकम् ॥७९॥

सर्वसंक्षोभिणीमुख्यास्तत्र शक्तय उद्धताः ।
चतुर्दश वसंत्येव तासां नामानि मच्छृणु ॥८०॥

सर्वसंक्षोभिणी शक्तिः सर्वविद्राविणी तथा ।
सर्वाकर्षणिका शाक्तिः सर्वाह्लादनिका तथा ॥८१॥

सर्वसंमोहिनी शक्तिः सर्वस्तंभनशक्तिका ।
सर्वजृंभिणिका शक्तिस्तथा सर्ववशङ्करी ॥८२॥

सर्वरञ्जनशक्तिश्च सर्वोन्मादनिशक्तिका ।
सर्वार्थसाधिका शक्तिः सर्वसंपत्तिपूरिणी ॥८३॥

सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी ।
एताश्च संप्रदायाख्याश्चक्रिणीपुरवासिनीः ॥८४॥

मुद्राश्च सर्ववश्याख्यास्तच्चक्रे रक्षिका मताः ।
कोटिशः शक्तयस्तत्र तासां किङ्कर्य्य उद्धृताः ॥८५॥

संक्षोभिण्याद्यन्तरस्योपरिष्टात्कुंभसंभव ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
सर्वसिद्धादिकानां तु मन्दिरं विष्ट्यमुच्यते ॥८६॥

सर्वसिद्धिप्रदा चैव सर्वसंपत्प्रदा तथा ।
सर्वप्रियङ्करी देवी सर्वमङ्गलकारिणी ॥८७॥

सर्वकामप्रदा देवी सर्वदुःखविमोचनी ।
सर्वमृत्युप्रशमिनी सर्वविघ्ननिवारिणी ॥८८॥

सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ।
एता देव्यः कलोत्कीर्णा योगिन्यो नामतः स्मृताः ॥८९॥

चक्रिणी श्रीश्च विज्ञेया चक्रं सर्वार्थसाधकम् ।
सर्वोन्मादनमुद्राश्च चक्रस्य परिपालिकाः ॥९०॥

सर्वसिद्ध्याद्यन्तरस्योपरिष्टात्कुम्भसम्भव ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥९१॥

सर्वज्ञाद्यन्तरं नाम्ना सर्वरक्षाकरं स्मृतम् ।
चक्रं महत्तरं दिव्यं सर्वज्ञाद्याः प्रकीर्तिताः ॥९२॥

सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदायिनी ।
सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ॥९३॥

सर्वाधारस्वरूपा च सर्वपापहरी तथा ।
सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ॥९४॥

सर्वेप्सितप्रदा चैता निर्गर्वा योगिनीश्वराः ॥९५॥

मालिनी चक्रिणी प्रोक्ता मुद्रा सर्वमहाङ्कुशा ।
इति चिन्तामणि गृहे सर्वज्ञाद्यन्तरावधि ।
चक्राणि कानिचित्प्रोक्तान्यन्यान्यपि मुने शृणु ॥९६॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने चिन्तामणिगृहान्तरकथनं नाम षट्त्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP