उत्तरभागः - अध्यायः ३३

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


हयग्रीव उवाच
कथितं सप्तशालानां लक्षणं शिल्पिभिः कृतम् ।
अथ रत्नमयाः शालाः प्रकीर्त्यन्तेऽवधारय ॥१॥

सुवर्णमयशालस्य पुष्परागमयस्य च ।
सप्तयोजनमात्रं स्यान्मध्येन्तरमुदात्दृतम् ॥२॥

तत्र सिद्धाःसिद्धनार्यः खेलन्ति मदविह्वलाः ।
रसै रसायनैश्चापि खड्गैः पादाञ्जनैरपि ॥३॥

ललितायां भक्तियुक्तास्तर्पयन्तो महाजनान् ।
वसंति विविधास्तत्र पिबन्ति मदिरारसान् ॥४॥

पुष्परागादिशालानां पूर्ववद्द्वारकॢप्तयः ।
पुष्परागादिशालेषु कवाटार्गलगोपुरम् ।
पुष्परागादिजं ज्ञेयमुच्चेन्द्वादित्यभास्वरम् ॥५॥

हेमप्राकारचक्रस्य पुष्परागमयस्य च ।
अन्तरे या स्वली सापि पुष्परागमयी स्मृता ॥६॥

वक्ष्यमाणमहाशालाकक्षासु निखिलास्वपि ।
तद्वर्णाः पक्षिणस्तत्र तद्वर्णानि सरांसि च ॥७॥

तद्वर्मसलिला नद्यस्तद्वर्णाश्च मणिद्रुमाः ।
सिद्धजातिषु ये देवीमुपास्य विविधैः क्रमै ।
त्यक्तवन्तो वपुः पूर्वं ते सिद्धास्तत्र सांगनाः ॥८॥

ललितामन्त्रजप्तारो ललिताक्रमतत्पराः ।
ते सर्वे ललितादेव्या नामकीर्तनकारिणः ॥९॥

पुष्परागमहाशालान्तरे मारुतयोजने ।
पद्मरागमयः शालश्चतुरस्रः समन्ततः ॥१०॥

स्थली च पद्मरागढ्या गोपुराद्यं च तन्मयम् ।
तत्र चारणदेशस्थाः पूर्वदेहविनाशतः ।
सिद्धिं प्राप्ता महाराज्ञीचरमाम्भोजसेवकाः ॥११॥

चारणीनां स्त्रियश्चापि चार्वङ्ग्यो मदलालसाः ।
गायन्ति ललितादेव्या गीतिबन्धान्मुहुर्मुहुः ॥१२॥

तत्रैव कल्पवृक्षाणां मध्यस्थवेदिकास्थिताः ।
भर्तृभिः सहचारिण्यः पिबन्ति मधुरं मधु ॥१३॥

पद्मरागमहाशालान्तरे मरुतयोजने ।
गोमेदकमहाशालः पूर्वशालासमाकृतिः ।
अतितुङ्गो हीरशालस्तयोर्मध्ये च हीरभूः ॥१४॥

तत्र देवीं समभ्यर्च्य पूर्वजन्मनि कुम्भज ।
वसन्त्यप्सरसां वृन्दैः साकं गन्धर्वपुङ्गवाः ॥१५॥

महाराज्ञीगुणगणान्गायन्तो वल्लकीस्वनैः ।
कामभोजैकरसिकाः कामसन्निभविग्रहाः ।
सुकुमारप्रकृतयः श्रीदेवीभक्तिशालिनः ॥१६॥

गोमेदकस्य शालस्तुपूर्वशालसमाकृतिः ।
तदन्तरे योगिनीनां भैरवाणां च कोटयः ।
कालसङ्कर्षणीमंबां सेवन्ते तत्र भक्तितः ॥१७॥

गोमेदकमहाशालान्तरे मारुतयोजने ।
उर्वशी मेनका चैव रम्भा चालंबुषा तथा ॥१८॥

मञ्जुघोषा सुकेशी च पूर्वचित्तिर्घृताचिका ।
कृतस्थला च विश्वाची पुञ्जिकस्थलया सह ॥१९॥

तिलोत्तमेति देवानां वेश्या एतादृशोऽपराः ।
गन्धर्वैः सह नव्यानि कल्पवृक्षम धूनि च ॥२०॥

पिबन्त्यो ललितादेवीं ध्यायन्त्यश्च मुहुर्मुहुः ।
स्वसौभाग्यविवृद्ध्यर्थं गुणयन्त्यश्च तन्मनुम् ॥२१॥

चतुर्दशसुचोत्पन्ना स्थानेष्वप्सरसोऽखिलाः ।
तत्रैव देवीमर्चन्त्यो वसंति मुदिताशयाः ॥२२॥

अगस्त्य उवाच
चतुर्दशापि जन्मानि तासामप्सरसां विभो ।
कीर्तय त्वं महाप्राज्ञ सर्वविद्यामहानिधे ॥२३॥

हयग्रीव उवाच
ब्राह्मणो हृदयं कामो मृत्युरुर्वी च मारुतः ।
तपनस्य कराश्चन्द्रकरो वेदाश्च पावकः ॥२४॥

सौदामिनी च पीयूषं दक्षकन्या जलं तथा ।
जन्मनः कारणान्येतान्या मनन्ति मनीषिणः ॥२५॥

गीर्वाणगण्यनारीणां स्फुरत्सौभाग्यसंपदाम् ।
एताः समस्ता गन्धर्वैः सार्धमर्चन्ति चक्रिणीम् ॥२६॥

किन्नराः सह नारीभिस्तथा किंपुरुषा मुने ।
स्त्रीभिः सह मदोन्मत्ता हीरकस्थलमाश्रिताः ॥२७॥

महाराज्ञीमन्त्रजापैर्विधूताशेष कल्मषाः ।
नृत्यन्तश्चैव गायन्तो वर्तन्ते कुंभसंभव ॥२८॥

तत्रैव हीरकक्षोण्यां वज्रा नाम नदी मुने ।
वज्रकारैर्निबिडिता भासमाना तटद्रुमैः ॥२९॥

वज्ररत्नैकसिकता वज्रद्रवमयोदका ।
सदा वहति सा सिंधुः परितस्तत्र पावनी ॥३०॥

ललितापरमेशान्यां भक्त ये मानवोत्तमाः ।
ते तस्या उदकं पीत्वा वज्ररूपकलेवराः ।
दीर्घायुषश्च नीरोगा भवन्ति कलशोद्भव ॥३१॥

भण्डासुरेण गलिते मुक्ते वज्रे शतक्रतुः ।
तरयास्तीरे तपस्तेपे वज्रेशीं प्रति भक्तिमान् ॥३२॥

तज्जलादुदिता देवी वज्रं दत्त्वा बलद्विषे ।
पुनरन्तर्दधेसोऽपि कृतार्थःस्वर्गमेयिवान् ॥३३॥

अथ वज्राख्यशालस्यान्तरे मारुतयोजने ।
वैदूर्यशाल उत्तुङ्गः पूर्ववद्गोपुरान्वितः ।
स्थाली च तत्र वैदृर्यनिर्मिता भास्वराकृतिः ॥३४॥

पातालवासिनो येये श्रीदेव्यर्चनसाधकाः ।
ते सिद्धमूर्तयस्तत्र वसन्ति सुखमेदुराः ॥३५॥

शेषकर्केटकमहापद्मवासुकिशङ्खकाः ।
तक्षकः शङ्खचूडश्च महादन्तो महाफणः ॥३६॥

इत्येवमादयस्तत्र नागा नागास्त्रयोऽपि च ।
बलीन्द्रप्रमुखानां च दैत्यानां धर्मवर्तिनाम् ।
गणस्तत्र तथा नागैः सार्धं वसति सांगनाः ॥३७॥

ललितामन्त्र जप्तारो ललिताशास्त्रदीक्षिताः ।
ललितापूजका नित्यं वसन्त्यसुरभोगिनः ॥३८॥

तत्र वैदूर्यकक्षायां नद्यः शिशिरपाथसः ।
सरांसिविमलांभांसि सारसालङ्कृतानि च ॥३९॥

भवनानि तु दिव्यानि वैदूर्यमणिमन्ति च ।
तेषु क्रीडन्ति ते नागा असुराश्च सहाङ्गनाः ॥४०॥

वैदूर्याख्यमहाशालान्तरे मारुतयोजने ।
इन्द्रनीलमयः शालश्चक्रवाल इवापरः ॥४१॥

तन्मध्यकक्षाभूमिश्च नीलरत्नमयी मुने ।
तत्र नद्यश्च मधुराः सरांसि शिशिराणि च ।
नानाविधानि भोग्यानि वस्तूनि सरसान्यपि ॥४२॥

ये भूलोकगता मर्त्या ललितामन्त्रसाधकाः ।
ते देहान्ते शक्रनीलकक्ष्यां प्राप्य वसंति वै ॥४३॥

तत्र दिव्यानि वस्तूनि भुञ्जाना वनितासखाः ।
पिबन्तो मधुरं मद्यं नृत्यन्तो भक्तिनिर्भराः ॥४४॥

सरस्सु तेषु सिंधूनां कुलेषु कलशोद्भव ।
लतागृहेषु रम्येषु मन्दिरेषु महर्द्धिषु ॥४५॥

सदा जपन्तः श्रीदेवी पठन्तश्चापि तद्गुणान् ।
निवसंति महाभागा नारीभिः परिवेष्टिताः ॥४६॥

कर्मक्षये पुनर्यान्ति भूलोके मानुषीं तनुम् ।
पूर्ववासनया युक्ताः पुनरर्चन्ति चक्रिणीम् ।
पुनर्यान्ति श्रीनगरे शक्रनीलमहास्थलीम् ॥४७॥

तत्स्थलस्यैव संपर्काद्रागद्वेषसमुद्भवैः ।
नीलैर्भावैः सदा युक्ता वर्तन्ते मनुजा मुने ॥४८॥

ये पुनर्ज्ञानिनो मर्त्या निर्द्वन्द्वा नियतेन्द्रियाः ।
ते मुने विस्मयाविष्टाः संविशन्ति महेश्वरीम् ॥४९॥

इन्द्रनीलाख्यशालस्यान्तरे मारुतयोजने ।
मुक्ताफलमयःशालः पूर्ववद्गोपुरान्वितः ॥५०॥

अत्यन्तभास्वरा स्वच्छा तयोर्मध्ये स्थली मुने ।
सर्वापि मुक्ताखचिताः शिशिरातिमनोहराः ॥५१॥

ताम्रपर्णी महापर्णी सदा मुक्ताफलोदका ।
एवमाद्या महानद्यः प्रवरन्ति महास्थले ॥५२॥

तासां तीरेषु सर्वेऽपि देवलोकनिवासिनः ।
वसंति पूर्वजनुषि श्रीदेवीमन्त्रसाधकाः ॥५३॥

पूर्वाद्यष्टसु भागेषु लोकाः शक्रादिगोचराः ।
मुक्ताशालस्य परितः संयुज्य द्वारदेशकान् ॥५४॥

मुक्ताशालस्य नीलस्य द्वारयोर्मध्यदेशतः ।
पूर्वभागे शक्रलोकस्तत्कोणे वह्निलोकभूः ॥५५॥

याम्यभागे यमपुरं तत्र दण्डधरः प्रभुः ।
सर्वत्र ललितामन्त्रजापी तीव्रस्वभाववान् ॥५६॥

आज्ञाधरो यमभटैश्चित्रगुप्तपुरोगमैः ।
सार्धं नियमयत्येव श्रीदेवीसमयं गुहः ॥५७॥

गुहशप्तान्दुराचाराल्लंलिताद्वेषकारिणः ।
कूडभक्तिपरान्मूर्खांस्तब्धानत्यन्तदर्पितान् ॥५८॥

मन्त्रचोरान्कुमन्त्रांश्च कुविद्यानघसंश्रयान् ।
नास्तिकान्पापशीलांश्च वृथैव प्राणिहिंसकान् ॥५९॥

स्त्रीद्विष्टांल्लोकविद्विष्टान्पाषण्डानां हि पालिनः ।
कालसूत्रे रौरवे च कुम्भीपाके च कुम्भज ॥६०॥

असिपत्रवने घोरे कृमिभक्षे प्रतापने ।
लालाक्षेपे सूचिवेधे तथैवाङ्गारपातने ॥६१॥

एवमादिषु कष्टेषु नरकेषु घटोद्भव ।
पातयत्याज्ञया तस्याः श्रीदेव्याः स महौजसः ॥६२॥

तस्यैव पश्चिमे भागे निरृतिः खड्गधारकः ।
राक्षसं लोकमाश्रित्य वर्तते ललितार्चकः ॥६३॥

तस्य चोत्तरभागे तु द्वारयोरन्तस्यले ।
वारुणं लोकमाश्रित्य वरुणे वर्तते सदा ॥६४॥

वारुण्यास्वादनोन्मत्तः शुभ्राङ्गो झषवाहनः ।
सदा श्रीदेवतामं त्रजापी श्रीक्रमसाधकः ॥६५॥

श्रीदेवतादर्शनस्य द्वेषिणः पाशबन्धनैः ।
बद्ध्वा नयत्यधोमार्गं भक्तानां बन्धमोचकः ॥६६॥

तस्य चोत्तरकोणेषु वायुलोको महाद्युतिः ।
तत्र वायुशरीराश्च सदानन्दमहोदयाः ॥६७॥

सिद्धा दिव्यर्षयश्चैव पवनाभ्यासिनोऽपरे ।
गोरक्षप्रमुखाश्चान्ये योगिनो योगतत्पराः ॥६८॥

एतैः सह महासत्त्वक्तत्र श्रीमारुतेश्वरः ।
सर्वथा भिन्नमूर्तिश्च वर्तते कुम्भसम्भव ॥६९॥

इडा च पिङ्गला चैव सुषुम्णा तस्य शक्तयः ।
तिस्रो मारुतनाथस्य सदा मधुमदालसाः ॥७०॥

ध्वजहस्तो मृगवरे वाहने महति स्थितः ।
ललितायजनध्यानक्रमपूजनतत्परः ॥७१॥

आनन्दपूरिताङ्गीभिरन्याभिः शक्तिभिर्वृतः ।
स मारुतेश्वरः श्रीमान्सदा जपति चक्रिणीम् ॥७२॥

तेन सत्त्वेन कल्पान्ते त्रैलोक्यं सचराचरम् ।
परागमयतां नीत्वा विनोदयति तत्क्षणात् ॥७३॥

तस्य सत्त्वस्य सिद्ध्यर्थं तामेव ललितेश्वरीम् ।
पूजयन्भावयन्नास्ते सर्वाभरणभूषितः ॥७४॥

तल्लोकपूर्वभागस्थे यक्षलोके महाद्युतिः ।
यक्षेन्द्रो वसति श्रीमांस्तद्द्वारद्वन्द्वमध्यगः ॥७५॥

निधिभिश्च नवाकारैरृद्धिवृद्ध्यादिशक्तिभिः ।
सहितो ललिताभक्तान्पूरयन्धनसम्पदा ॥७६॥

यक्षीभिश्च मनोज्ञाभिरनुकूलप्रवृत्तिभिः ।
विविधैर्मधुभेदैश्च सम्पूजयति चक्रिणीम् ॥७७॥

मणिभद्रः पूर्णभद्रो मणिमान्माणिकन्धरः ।
इत्येवमादयो यक्षसेनान्यस्तत्र संति वै ॥७८॥

तल्लोकपूर्वभागे तु रुद्रलोको महोदयः ।
अनर्ध्यरत्नखचितस्तत्र रुद्रोऽधिदेवता ॥७९॥

सदैव मन्युना दीप्तः सदा बद्धमहेषुधिः ।
स्वसमानैर्महासत्त्वैलोङ्कनिर्वाहदक्षिणैः ॥८०॥

अधिज्यकार्मुकैर्दक्षैः षोडशावरणस्थितैः ।
आवृतः सततं वक्त्रैर्जपञ्छीदेवतामनुम् ॥८१॥

श्रीदेवीध्यानसम्पन्नः श्रीदेवीपूजनोत्सुकः ।
अनेककोटिरुद्राणीगणमण्डितपार्श्वभूः ॥८२॥

ताश्च सर्वाः प्रदीप्ताङ्ग्यो नवयौवनगर्विताः ।
ललिताध्याननिरनाः सदासवमदालसाः ॥८३॥

ताभिश्च साकं स श्रीमान्महारुद्रस्त्रिशूलभृत् ।
हिरण्यबाहुप्रमुशै रुद्रैरन्यैर्निषेवितः ॥८४॥

ललितादर्शनभ्रष्टानुद्धतान्गुरुधिक्कृतान् ।
शूलकोट्या विनिर्भिद्य नेत्रोत्थैः कटुपावकैः ॥८५॥

दहंस्तेषा वधूभृत्यान्प्रजाश्चैव विनाशयन् ।
आज्ञाधरो महावीरो ललिताज्ञाप्रपालकः ॥८६॥

रुद्रलोकेऽतिरुचिरे वर्तते कुम्भसम्भव ।
महारुद्रस्य तस्यर्षे परिवाराः प्रमाथिनः ॥८७॥

ये रुद्रास्तानसंख्यातान्को वा वक्तुं पटुर्भवेत् ।
ये रुद्रा अधिभूम्यां तु सहस्राणां सहस्रशः ॥८८॥

दिवियेऽपि च वर्तन्ते सहस्राणां सहस्रशः ।
येषामन्नमिषश्चव येषां वातास्तथेषवः ॥८९॥

येषां च वर्षमिषवः प्रदीप्ताः पिङ्गलेक्षणाः ।
अर्णवे चान्तरिक्षे च वर्तमाना महौजसः ॥९०॥

जटावन्तो मधुष्मन्तो नीलग्रीवा विलोहिताः ।
ये भूतानामधिभुवो विशिखासः कपर्दिनः ॥९१॥

ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
ये पथां रथका रुद्रा ये च तीर्थनिवासिनः ॥९२॥

सहस्रसंख्या ये चान्ये सृकावन्तो निषङ्गिणः ।
ललिताज्ञाप्रणेतारो दिशो रुद्रा वितस्थिरे ॥९३॥

ते सर्वे सुमहात्मानः क्षणाद्विश्वत्रयीवहाः ।
श्रीदेव्या ध्याननिषणाताञ्छ्रीदेवीमन्त्रजापिनः ॥९४॥

श्रीदेवतायां भक्ताश्च पालयन्ति कृपालवः ।
षोडशावरणं चक्रं मुक्ताप्राकारमण्डले ॥९५॥

आश्रित्य रुद्रास्ते सर्वे महारुद्रं महोदयम् ।
हिरण्यबाहुप्रमुखा ज्वलन्मन्युमुपासते ॥९६॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने पुष्परागप्रकारादिभुक्ताकरान्तसप्तकक्षान्तरकथनं नाम त्रयस्त्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP