संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| प्रकीर्णकम् बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - प्रकीर्णकम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः प्रकीर्णकम् Translation - भाषांतर एष वादिकृतः प्रोक्तो व्यवहारः समासतः ।नृपाश्रयं प्रवक्ष्यामि व्यवहारं प्रकीर्णकम् ॥१॥वाग्धिग्दण्डं वधं चैव चतुर्धा कल्पितं दमम् ।पुरुषं दोषविभवं ज्ञात्वा संपरिकल्पयेत् ॥२॥सुवर्णशतं एकं तु वधार्हो दण्डं अर्हति ।अङ्गच्छेदे तदर्धं तु विवासे पञ्चविंशतिम् ॥३॥हस्ताङ्घ्रिलिङ्गनयनं जिह्वाकर्णौ च नासिका ।जिह्वा पादार्धसंदंश ललाटौष्ठगुदं कटिः ॥४॥स्थानान्येतानि दण्डस्य निर्दिष्टानि चतुर्दश ।ललाटाङ्को ब्राह्मणस्य नान्यो दण्डो विधीयते ॥५॥अधार्मिकांस्त्रिभिर्न्यायैर्निगृह्णीयात्प्रयत्नतः ।निरोधनेन बन्धेन विविधेन भयेन च ॥६॥वेधेनापि यदा त्वेतान्निगृहीतुं न शक्नुयात् ।तदैषु सर्वं अप्येतत्प्रयुञ्जीत चतुष्टयम् ॥७॥वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम् ।तृतीयं धनदण्डं तु वधदण्डं अतः परम् ॥८॥बन्धनानि च सर्वाणि राजमार्गे निवेशयेत् ।दुःखिता यत्र दृश्यन्ते विकृताः पापकारिणः ॥९॥दशमांशं हरेदर्थं पञ्चमं सर्वं एव वा ।मृतस्य वित्तादादद्यादज्ञातिः शवदहकः ॥१०॥बहुरक्षस्य दशमं अल्परक्षस्य पञ्चमम् ।अपुत्रपितृभार्यस्य सर्वं एवेति शौनकः ॥११॥षड्भागस्तरशुल्कं च गते देयस्तथैव च ।संग्रामचौरभेदी च सस्यघातनकृत्तथा ॥१२॥निष्कृतीनां अकरणं आज्ञासेधव्यतिक्रमः ।वर्णाश्रमाणां लोपश्च वर्णसंकरलोपनम् ॥१३॥निधिर्निष्कुलवित्तं च दरिद्रस्य धनागमः ।अनाम्नातानि कार्याणि क्रियावादाश्च वादिनाम् ॥१४॥प्रकृतीनां प्रकोपश्च संकेतश्च परस्परम् ।अशास्त्रविहितं यच्च प्रजायां संप्रकीर्त्यते ॥१५॥साक्षिसभ्यार्थसन्नानां दूषणे दर्शनं पुनः ।स्ववाचैव जितानां तु नोक्तः पौनर्भावो विधिः ॥१६॥वेदार्थोपनिबद्धत्वात्प्राधान्यं तु मनोः स्मृतम् ।मन्वर्थविपरीता या स्मृतिः सा न प्रशस्यते ॥१,॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP