संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| निर्णयप्रकारः बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - निर्णयप्रकारः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः निर्णयप्रकारः Translation - भाषांतर धर्मेण व्यवहारेण चारित्रेण नृपाज्ञया ।चतुष्प्रकारोऽभिहितः संदिग्धेऽर्थे विनिर्णयः ॥१॥एकैको द्विविधः प्रोक्तः क्रियाभेदान्मनीषिभिः ।अपराधानुरूपं तु दण्डं च परिकल्पयेत् ॥२॥सम्यग्विचार्य कार्यं तु युक्त्या संपरिकल्प्तम् ।परीक्षितं तु शपथैः स ज्ञेयो धर्मनिर्णयः ॥३॥प्रतिवादी प्रपद्येद्यत्र धर्मः स निर्णयः ।दिव्यैर्विशोधितः सम्यङ् निर्णयः समुदाहृतः ॥४॥प्रमाणनिश्चितो यस्तु व्यवहारः स उच्यते ।वाक्छलानुत्तरत्वेन द्वितीयः परिकीर्तितः ॥५॥अनुमानेन निर्णीतं चारित्रं इति कथ्यते ।देशस्थित्या तृतीयस्तु शास्त्रविद्भिरुदाहृतः ॥६॥प्रमाणसमतायां तु राजाज्ञा निर्णयः स्मृतः पृष्ठ ९५ ।शास्त्रसभ्याविरोधेन चतुर्थः परिकीर्तितः ॥७॥धर्मशास्त्रविरोधे तु युक्तियुक्तो विधिः स्मृतः ॥८॥वधादृते ब्राह्मणस्य दण्डो भवति कर्हि चित् ।अवध्या ब्राह्मणा गावो लोकेऽस्मिन्वैदिकी स्मृतिः ॥९॥महापातकयुक्तोऽपि न विप्रो वधं अर्हति ।निर्वासनाङ्कने मौण्ड्यं तस्य कुर्यान्नराधिपः ॥१०॥महापराधयुक्तांश्च वधदण्डेन शासयेत् ॥११॥स्वल्पेऽपराधे वाग्दण्डो धिग्दण्डः पूर्वसाहसे ।मध्योत्तमेऽर्धदण्डस्तु राजद्रोहे च बन्धनम् ॥१२॥निर्वासनं वधो वापि कार्यं आत्महितैषिणा ।व्यस्ताः समस्ता एकस्य महापातककारिणे ॥१३॥मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक्तपस्विनाम् ।विवादिनो नरांश्चापि द्वेषिणोऽर्थेन दण्डयेत् ॥१४॥पिताचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः ।नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥१५॥ऋत्विक्पुरोहितामात्याः पुत्राः संबन्धिबान्धवाः ।धर्माद्विचलिता दण्ड्या निर्वास्या राजभिः पुरात् ॥१६॥गुरून्पुरोहितान्पूज्यान्वाग्दण्डेनैव दण्डयेत् ।विवादिनो नरांश्चान्यान्धिग्धनाभ्यां च दण्डयेत् ॥१७॥प्रतिलोमास्तथा चान्त्याः पुरुषाणां मलाः स्मृताः ।ब्राह्मणातिक्रमे वध्या न दातव्या दमं क्व चित् ॥१८॥वधार्हकः स्वर्णशतं दमं दाप्यस्तु पूरुषः ।अङ्गच्छेदार्हकस्त्वर्धं सदंशशश्तदर्धकम् ॥१९॥ताडनं बन्धनं चैव तथैव च विडन्नकं पृष्ठ ९७ ।एष दण्डो हि शूद्रस्य नार्थदण्डो बृहस्पतिः ॥२०॥प्रतिज्ञा भावनाद्वादी प्राड्विवाकादिपूजनात् ।जयपत्त्रस्य चादनाज्जयी लोके निगद्यते ॥२१॥पलायनादनुत्तरादन्यपक्षाश्रयेण च ।हीनस्य गृह्यते वादो न स्ववाक्यजितस्य च ॥२२॥कुलादिभिर्निश्चितेऽपि न संतोषं गतस्तु यः ।विचार्य तत्कृतं राजा कुकृतं पुनरुद्धरेत् ॥२३॥निश्चित्य बहुभिः सार्धं ब्राह्मणैः शास्त्रपारगैः ।दण्डयेज्जयिना साकं पूर्वसभ्यांस्तु दोषिणः ॥२४॥अपराधानुरूपश्च दण्डोऽत्र परिकल्पितः ।साक्षिलेख्यानुमानेन सम्यग्दिव्येन वा जितः ॥२५॥यो न दद्याद्देयदमं स निर्वास्यस्ततः पुरात् ॥२६॥ललाटाङ्कं ब्राह्मणस्य नान्यो दण्डो विधीयते ।महापातकयुक्तोऽपि न विप्रो वधं अर्हति ।निर्वासनाङ्ककरणे मौण्ड्यं कुर्यान्नराधिपः ॥२७॥प्रमाणं तत्कृतं सर्वं लाभालाभव्ययोदयम् ।स्वदेशे वा विदेशे वा न स्वातन्त्र्यं विसंवदेत् ॥२८॥यः स्वामिना नियुक्तस्तु धनायस्यापलापने ।कुसीदकृषिवाणिज्ये निसृष्टार्थस्तु स स्मृतः ॥२९॥राज्ञा यत्नेन कर्तव्यं संदिग्धार्थविचारणम् ।त्रयस्तत्रोपचीयन्ते हानिरेकस्य जायते ॥३०॥जेताप्नोति धनं पूजां जितो विनयनिग्रहम् ।जयं दानं दमं राजा सभ्याः पुण्यं अवाप्नुयुः ॥३१॥एवं शास्त्रोदितं राजा कुर्वन्निर्णयपालनम् ।वितत्येह यशो लोके महेन्द्रसदृशो भवेत् ॥३२॥साक्षिलेख्यानुमानेन प्रकुर्वन्कार्यनिर्णयम् ।वितत्येह यशो राजा ब्रध्नस्याप्नोति विष्टपम् ॥३३॥यत्रैवं वेत्ति नृपतिः निर्णयं तु बताध्वरम् ।सोऽस्मिन्लोके यशः प्राप्य याति शक्रसलोकताम् ॥३४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP