संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| अभ्युपेत्याशुश्रूषा बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - अभ्युपेत्याशुश्रूषा स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः अभ्युपेत्याशुश्रूषा Translation - भाषांतर अदेयादिकं आख्यातं भृतानां उच्यते विधिः ।शुश्रूषां अभ्यूपेत्यैतत्पदं आदौ निगद्यते ॥१॥अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते ।अशुश्रूषाभ्युपेत्यैतद्विवादपदं उच्यते ॥२॥वेतनस्यानपाकर्म तदर्थं स्वामिपालयोः ।क्रमशः कल्प्यते वादो भृतभेदत्रयं त्विदम् ॥३॥अनेकधा त्वभिहिता जातिकर्मानुरूपतः ।विद्याविज्ञानकामार्थ निमित्तेन चतुर्विधा ॥४॥एकैकः पुनरेतेषां क्रियाभेदात्प्रभिद्यते ॥५॥विद्या त्रयी समाख्याता ऋग्यजुःसामलक्षणा ।तदर्थं गुरुशुश्रूषां प्रकुर्याच्च प्रचोदिताम् ॥६॥विज्ञानं उच्यते शिल्पं हेमरूप्यादिसंस्कृतिः ।नृत्यादिकं च तत्प्राप्तं कुर्यात्कर्म गुरोर्गृहे ॥७॥यो भुङ्क्ते परदासीं तु स ज्ञेयो वडबाभृतः ।कर्म तत्स्वामिनः कुर्याद्यथान्नेन भृतो नरः ॥८॥बहुधार्थभृतः प्रोक्तस्तथा भागभृतोऽपरः ।हीनमध्योत्तमत्वं च सर्वेषां एव चोदितम् ॥९॥दिनमासार्धषण्मास त्रिमासाब्दभृतस्तथा ।कर्म कुर्यात्प्रतिज्ञातं लभते परिभाषितम् ॥१०॥भृतकस्त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः ।शक्तिभक्त्यनुरूपैः स्यादेषां कर्माश्रया भृतिः ॥११॥उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः ।अधमो भारवाहः स्यादित्येष त्रिविधो भृतः ॥१२॥आयुधी तूत्तमः प्रोक्तो मध्यमस्तु कृषीवलः ।भारवाहोऽधमः प्रोक्तस्तथा च गृहकर्मकृत् ॥१३॥द्विप्रकारो भोगभृतः कृषिगोजीविनां स्मृतः ।जातसस्यात्तथा क्षीरात्स लभेत न संशयः ॥१४॥शुभकर्मकरा ह्येते चत्वारः समुदाहृताः ।चत्वारः शिष्योऽन्तेवासी भृतकः कर्मकरश्च ।जधन्यकर्मभाजस्तु शेषा दासास्त्रिपञ्चकाः ॥१५॥कर्मापि द्विविधं प्रोक्तं अशुभं शुभं एव च ।अशुभं दासकर्मोक्तं शुभं कर्मकरे स्मृतम् ॥१६॥गृहद्वाराशुचिस्थान रथ्यावस्करशोधनम् ।गृह्याङ्गस्पर्शनोच्छिष्ट विण्मूत्रग्रहणोज्झनम् ॥१७॥गच्छतः स्वामिनः स्वाङ्गैरुपस्थानं अथान्ततः ।अशुभं कर्म विज्ञेयं शुभं अन्यदतः परम् ॥१८॥ततः प्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः ।भोज्यान्नोऽथ प्रतिग्राह्यो भवत्यभिमतः सताम् ॥१९॥आविद्याग्रहणाच्शिष्यः शुश्रूषेत्प्रयतो गुरुम् ।तद्वृत्तिर्गुरुदारेषु गुरुपुत्रे तथैव च ॥२०॥समावृत्तश्च गुरवे प्रदाय गुरुदक्षिणाम् ।प्रतियाति गृहानेषा शिष्यवृत्तिरुदाहृतः ॥२१॥अत्र पुर्वश्चतुर्वर्गो दासत्वान्न विमुच्यते ।प्रसादात्स्वामिनोऽन्यत्र दास्यं एषां क्रमागतम् ॥२२॥विक्रीणीते स्वतन्त्रो यः समात्मानं नराधमः ।स जघन्यतमस्त्वेषां सोऽपि दास्यान्न मुच्यते ॥२३॥दासेनोढा त्वस्वदासी या सोऽपि दासीत्वं आप्नुयात् ।यस्माद्भर्ता प्रभुस्तस्याः स्वाम्यधीनप्रभुर्यतः ॥२४॥दासीसुताश्च ये जाताः तस्याः पत्या परेण वा ।उत्पादको यदि स्वामी न दासीं कारयेत्प्रभुः ॥२५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP