संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| लिखितम् बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - लिखितम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः लिखितम् Translation - भाषांतर साक्षिणां एष निर्दिष्टः संख्यालक्षणनिश्चयः ।लिखितस्याधुना वच्मि विधानं अनुपूर्वशः ॥१॥ऋणादिकेऽपि समये भ्रान्तिः संजायते यतः ।धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥२॥१ लेख्यलक्षणम्देशाचारहुतं वर्ष मासपक्षादिवृद्धिमत् ।ऋणिसाक्षिलेखकानं हस्ताङ्कं लेख्यं उच्यते ॥३॥२ लेख्यभेदाःराजलेख्यं स्थानकृतं स्वहस्तलिखितं तथा ।लेख्यं तत्त्रिविधं प्रोक्तं भिन्नं तद्बहुधा पुनः ॥४॥भागदानक्रयाधिनां संविद्दासऋणादिभिः ।सप्तधा लौकिकं लेख्यं त्रिविधं राजशासनम् ॥५॥विभागपत्रं इत्येतद्भागानां निर्णये कृतम् ।सीमाविवादे निर्णीते सीमापत्रं इति स्मृतम् ॥६॥दानलेख्यं भागलेख्यं सीमालेख्यं तथैव च ।क्रयलेख्यं दासलेख्यं आधिलेख्यं ततः परम् ॥७॥संविदुद्दाम्लेख्यं च जयपत्रकं एव च ।सन्धिपत्रं तथैवैतत्क्रियाभेदादनेकधा ॥८॥आध्यर्थं आधिलेख्यं स्याद्दासार्थं दासपत्रकम् ॥९॥समीहितार्थसिद्ध्यर्थं ग्रामश्रेणिगणादिभिः ।शास्त्राविरोधि धर्मार्थे कृतं संवित्तिपत्रकम् ॥१०॥भ्रातरः संविभक्ता ये स्वरुच्या तु परस्परम् ।विभागपत्रं कुर्वन्ति भागलेख्यं तदुच्यते ॥११॥भूमिं दत्त्वा यस्तु पत्रं कुर्याच्चन्द्रार्ककालिकं पृष्ठ ६१ ।अनाच्छेदां अनाहार्यं दानलेख्यं तु तद्विधुः ॥१२॥गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् ।पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते ॥१३॥जङ्गमं स्थावरं बन्धं दत्त्वा लेख्यं करोति यत् ।गोप्यभोग्यक्रियायुक्तं आधिलेख्यं तु तत्स्मृतम् ॥१४॥ग्रामो देशश्च यत्कुर्यान्मत्तलेख्यं परस्परम् ।राजाविरोधि धर्मार्थे संवित्पत्रं वदन्ति तत् ॥१५॥वस्त्रान्नहीनः कान्तारे लिखितं कुरुते तु यत् ।कर्माहं ते करिष्यामि दासपत्रं तदिष्यते ॥१६॥धनं वृध्या गृहीत्वा तु स्वयं कुर्याच्च कारयेत् ।उद्धारपत्रं तत्प्रोक्तं ऋणलेख्यं मनीषिभिः ॥१७॥पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता ।तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥१८॥पूगश्रेण्यादिकानां तु समयस्य स्थितेः कृतम् ।स्थितिपत्रं तु तत्प्रोक्तं मन्वादिस्मृतिवेदिभिः ॥१९॥३ राज्ञो दानशासनम्दत्त्वा भ्य्य्म्यादिकं राजा ताम्रपत्रे पटेऽथ वा ।शासनं कारयेद्धर्मं स्थानवंशादिसंयुतम् ॥२०॥मातापित्रोरात्मनश्च पुण्यायामुकसूनवे ।दत्तं मयामुकायाद्य दानं सब्रह्मचारिणे ॥२१॥अनाच्छेद्यं अनाहार्यं सर्वं भाव्यविवर्जितं पृष्ठ ६३ ।चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयानुगम् ॥२२॥दातुः पालयितुः स्वर्गं हर्तुर्नरकं एव च ।षष्टिवर्षसहस्राणि दानच्छेदफलं लिखेत् ॥२३॥समुद्रावर्षमासादि धनाध्यक्षाक्षरान्वितम् ।ज्ञातं मयेति लिखितं सन्धिविग्रहलेखकैः ॥२४॥एवंविधं राजकृतं शासनं तदुदाहृतम् ।४ प्रसादलिखितम्देशादिकं यस्य राजा लिखितं तु प्रयच्छति ॥२५॥सेवाशौर्यादिना तुष्टः प्रसादलिखितं हि तत् ।५ जयपत्रम्पूर्वोत्तरक्रियावाद निर्णयान्ते यदा नृपः ।प्रदद्याज्जयिने लेख्यं जयपत्रं तदुच्यते ॥२६॥यद्वृत्तं व्यवहारे तु पूर्वपक्षोत्तरादिकम् ।क्रियावदधारणोपेतं जयपत्रोऽखिलं लिखेत् ॥२७॥साधयेत्साध्यं अर्थं तु चतुष्पादन्वितं जये ।राजमुद्रान्वितं चैव जयपत्रकं इष्यते ॥२८॥अन्यवाद्यादिहीनेभ्य इतरेषां प्रदीयते ।वृत्तानुवादसंसिद्धं तच्च स्याज्जयपत्रकम् ॥२९॥६ लेख्यदूषणानिमुमूरुषुहीनलुप्तार्थैरुन्मातव्यसनातुरैः ।विषोपधिबलात्कार कृतं लेख्यं न सिध्यति ॥३०॥दूषितो गर्हितः साक्षी यत्रैको विनिवेशितः पृष्ठ ६५ ।कूटलेख्यं तु तत्प्राह लेखको वापि तादृशः ॥३१॥यदुज्वलं चिरकृतं मलिनं स्वल्पकालिकम् ।भग्नं म्लिष्ताक्षरयुतं लेख्यं कूटत्वं आप्नुयात् ॥३२॥दर्पणस्थं यथा बिम्बं असत्सदिव दृश्यते ।तथा लेख्यसबिम्बानि कुर्वन्ति कुशला जनाः ॥३३॥तथ्येन हि प्रमाणं तु दोषेणैव तु दूषणम् ।एवं दुष्टं नृपस्थाने यस्मिंस्तद्धि विचार्यते ॥३४॥विमृश्य ब्राह्मणैः सार्धं वक्तृदोषं निरूपयेत् ॥३५॥येन ते कूटतां यान्ति साक्षिलेखककारकाः ।तेन दुष्टं भवेल्लेख्यं शुद्धैः शुद्धं विनिर्दिशेत् ॥३६॥दत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निह्नुते ।पत्रस्थैः साक्षिभिर्वाचा लेखकस्य मतेन च ॥३७॥स्थानभ्रष्टास्त्वकान्तिस्थाः संदिग्धा लक्षणच्युताः ।यत्रैवं स्युः स्थिता वर्णा लेख्यं दुष्टं तदा भृगुः ॥३८॥उद्धरेल्लेख्यं आहर्ता तत्पुत्रो भुक्तिं एव तु ।अभियुक्तः प्रमीतश्चेत्तत्पुत्रस्तत्समुद्धरेत् ॥३९॥ज्ञात्वा कार्यं देशकाल कुशलाः कूटकारकाः ।कुर्वन्तिसदृशं लेख्यं तद्यत्नेन विचारयेत् ॥४०॥लेख्यं आलेख्यवत्केचिल्लिखन्ति कुशला जनाः ।तस्मान्न लेख्यसामर्थ्यात्सिद्धिरैकान्तिकी मता ॥४१॥स्त्रीबालार्तान्लिप्यविज्ञान्वञ्चयन्ति स्वबान्धवाः ।लेख्यं कृत्वा स्वनामाङ्कं ज्ञेयं युक्त्यागमैस्तु तत् ॥४२॥त्रिविधस्यास्य लेख्यस्य भ्रान्तिः संजायते यदा ।ऋणिसाक्षिलेखकानां हस्तोक्त्या शोधयेत्ततः ॥४३॥उद्यामं उदयादानादाधानं फलसंग्रहात्पृष्ठ ६७ ।प्रतियोगिधनाढ्यत्वाज्ज्ञेयं यत्रोपधिः कृतः ॥४४॥दर्शितं प्रतिकालं यच्छ्रावितं स्मारितं च यत् ।लेख्यं सिध्यति सर्वत्र मृतेष्वपि हि साक्षिषु ॥४५॥वाचकैर्यत्र सामर्थ्यं अक्षराणां विहन्यते ।क्रियाणां सर्वनाशः स्यादनवस्था च जायते ॥४६॥लेख्यं त्रिंशत्समातीतं अदृष्टाश्रावितं च यत् ।न तत्सिद्धिं अवाप्नोति तिष्ठत्स्वपि हि साक्षिषु ॥४७॥प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् ।न याचते च ऋणिकं तत्संदेहं अवाप्नुयात् ॥४८॥कुलश्रेणिगणादीनां यथाकालं प्रदर्शितम् ।श्रावयेत्स्मारयेच्चैव तथा स्याद्बलवत्तरम् ॥४९॥यदि लब्धं भवेत्किञ् चित्प्रज्ञप्तिर्वा तथा भवेत् ।प्रमाणं एव लिखितं मृता यद्यपि साक्षिणः ॥५०॥आढ्यस्य निकटस्थस्य यच्छक्तेन न याचितम् ।शुद्धर्णाशङ्कया तत्र लेख्यं दुर्बलतां इयात् ॥५१॥उन्मत्तजडबलानां राजभीतप्रवासिनाम् ।अप्रगल्भभयार्तानां न लेख्यं हानिं आप्नुयात् ॥५२॥अथ पञ्चत्वं आपन्नो लेखकः साक्षिभिः सह ।तत्स्वहस्तादिभिस्तेषां विशुध्यते न संशयः ॥५३॥ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा ।तत्स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिऋणयः ॥५४॥लेख्ये संशयं आपन्ने साक्षिलेखककर्तृभिः ।दुष्टेषु तेषु तद्धस्त कृतपूर्वाक्षरादिभिः ॥५५॥न जातु हीयते लेख्यं साक्षिभिः शपथेन वा ।अदर्शनाश्राविताभ्यां हानिं प्राप्नोत्युपेक्षया ॥५६॥अतः परीक्ष्यं उभयं एतद्राज्ञा विशेषतः ।एकं एव भवेल्लेख्यं एकस्यार्थस्य सिद्धये ॥५७॥अनेकेषु तु लेख्येषु दोषं उत्पादयेदपि ।देशाचारविरुद्धं यत्संदिग्धं क्रमवर्जितम् ।कृतं अस्वामिना यच्च साध्यहीनं च दुष्यति ॥५८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP