संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| स्तेयम् बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - स्तेयम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः स्तेयम् Translation - भाषांतर प्रकाशाश्चाप्रकाशाश्च तस्करा द्विविधा स्मृताः ।प्रज्ञासामर्थ्यं आयाभिः प्रभिन्नास्ते सहस्रधा ॥१॥१ प्रकाशाप्रकाशतस्कराःनैगमा वैद्यकितवाः सभ्योत्कोचकवञ्चकाः ।दैवोत्पातविदो भद्राः शिल्पज्ञाः प्रतिरूपकाः ॥२॥अक्रियाकारिणश्चैव मध्यस्थाः कूटसाक्षिणः ।प्रकाशतस्करा ह्येते तथा कुहकजीविनः ॥३॥सन्धिच्छिदः पान्थमुषो द्विचतुष्पदहारिणः ।उत्क्षेपकाः सस्यहराः ज्ञेयाः प्रच्छन्नतस्कराः ॥४॥२ तेषां दण्डःसंसर्गचिह्नरूपैश्च विज्ञाता राजपूरुषैः ।प्रदाप्यापहृतं दण्ड्या दमैः शास्त्रप्रचोदितैः ॥५॥उत्क्षेपकस्तु संदंशैर्भेत्तव्यो राजपूरुषैः ।धान्यहर्ता दशगुणं दाप्यः स्याद्द्विगुणं दमम् ॥६॥एकस्मिन्यत्र निधनं प्रापिते दुष्टचारिणि ।बहूनां भवति क्षेमः तस्य पुण्यप्रदो वधः ॥७॥तथा पान्थं उषो वृक्षे गले बध्वावलम्बयेत् ॥८॥अङ्गुलीग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे ।द्वितीये हस्तचरणौ तृतीये वधं अर्हति ॥९॥अज्ञातौषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित् ।रोगिभ्योऽर्थं समादत्ते स दण्ड्यश्चोरवद्भिषक् ॥१०॥ग्लहः प्रकाशः कर्तव्यो निर्वास्याः कूटदेविनः ॥११॥कूटाक्षदेविनः क्षुद्रा राजभार्याहराश्च ये ।गणका वञ्चकाश्चैव दण्ड्यास्ते कितवा स्मृताः ॥१२॥प्रच्छन्नदोषव्यामिश्रं पुनः संस्कृतविक्रयी ।पण्ये तद्द्विगुणं दाप्यो वणिग्दण्डं च तत्समम् ॥१३॥अन्यायवादिनः सभ्यास्तथैवोत्कोचजीविनः ।विश्वस्तवञ्चकाश्चैव निर्वास्याः सर्व एव ते ॥१४॥ज्योतिर्ज्ञानं तथोत्पातं अविदित्वा तु ये नृणाम् ।श्रावयन्त्यर्थलोभेन विनेयास्ते प्रयत्नतः ॥१५॥दण्डाजिनादिभिर्युक्तं आत्मानं दर्शयन्ति ये ।हिंसन्तश्च्छद्मना नृणां वध्यास्ते राजपूरुषैः ॥१६॥अल्पमूल्यं तु संस्कृत्य नयन्ति बहुमूल्यताम् ।स्त्रीबालकान्वञ्चयन्ति दण्ड्यास्तेऽर्थानुरूपतः ॥१७॥हेममुक्ताप्रबालाद्यं कृत्रिमं कुर्वते तु ये ।क्रेत्रे मूल्यं प्रदाप्यास्ते राज्ञा तद्द्विगुणं दमम् ॥१८॥मध्यस्था वञ्चयन्त्येकं स्नेहलोभादिना यदा ।साक्षिणश्चान्यथा ब्रूयुर्दाप्यास्ते द्विगुणं दमम् ॥१९॥मन्त्रौषधिबलात्किंचित्संभ्रान्तिं दर्शयन्ति ये ।मूलकर्म च कुर्वन्ति निर्वास्यास्ते महीभुजा ॥२०॥सन्धिच्छेदो हृतं त्याज्याः शूलं आरोपयेत्ततः ।तथा पान्थं उषो वृक्षे गले बद्ध्वावलम्बयेत् ॥२१॥मनुष्यहारिणो राज्ञा दग्धव्यास्ते कटाग्निना ।गोहर्तुर्नासिकां छिन्द्यात्बध्वा वाम्भसि मज्जयेत् ॥२२॥धान्यं दशभ्यः कुम्भेभ्यो हरणेऽभ्यधिकं वधः ।शेषेष्वेकादशगुणं दाप्यस्तस्य च तद्धनम् ॥२३॥धान्यहारी दशगुणं दाप्यस्तद्द्विगुणं दमम् ॥२४॥तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् ।अनापृच्छ्य तु गृह्णानो हस्तच्छेदनं अर्हति ॥२५॥वृत्तस्वाध्यायवान्स्तेयी बन्धने क्लेश्यते चिरम् ।स्वामिने तद्धनं दाप्यः प्रायश्चित्तं न कार्यते ॥२६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP