संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| वेतनस्यानपाकर्म बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - वेतनस्यानपाकर्म स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः वेतनस्यानपाकर्म Translation - भाषांतर त्रिभागं पञ्चभागं वा गृह्णीयात्सीरवाहकः ।भक्ताच्छादभृतः सीराद्भागं गृणीत पञ्चमम् ॥१॥जातसस्यात्त्रिभागं तु प्रगृह्णीयादथाभृतः ॥२॥भृतकस्तु न कुर्वीत स्वामिनः शाठ्यं अण्वपि ।भृतिहानिं अवाप्नोति ततो वादः प्रवर्तते ॥३॥१ भृतस्य कर्माकरणनिर्णयःभृतोऽनार्तो न कुर्याद्यो दर्पात्कर्म यथेरितम् ।स दण्ड्यः कृष्णलानष्टौ न देयं चास्य वेतनम् ॥४॥२ गृहीतवेतनस्य दण्डःगृहीतवेतनः कर्म न करोति यदा भृतः ।समर्थश्चेद्दमं दाप्यो द्विगुणं तच्च वेतनम् ॥५॥गृहीतवेतनः कर्म त्यजन्द्विगुणं आवहेत् ।३ अगृहीतवेतनस्य दण्डःअगृहीते समं दाप्यो भृतै रक्ष्य उपस्करः ॥६॥४ प्रतिश्रुत्यकरणे दण्डःप्रतिश्रुत्य न कुर्याद्यः स कार्यः स्याद्बलादपि ।स चेन्न कुर्यात्तत्कर्म प्राप्नुयाद्विंशतिं दमम् ॥७॥स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥८॥५ भृत्यदोषाभावःप्रभुणा विनियुक्तः सन्भृतको विदधाति यत् ।तदर्थं अशुभं कर्म स्वामी तत्रापराध्नुयात् ॥९॥६ पालस्य दोषाभावसमयाःदैवराज्ञोस्तथा न्याये तथा राष्ट्रस्य विभ्रमे ।यत्प्रणष्टं भृतं वा स्यान्न पालस्तत्र किल्बिषी ॥१०॥७ स्वामिनो दण्डसमयःकृते कर्मणि यः स्वामी न दद्याद्वेतनं भृतेः ।राज्ञा दापयितव्यः स्याद्विनयं चानुरूपतः ॥११॥८ पालदोषदण्डःपालदोषाद्विनाशे तु पाले दण्डो विधीयते ।अर्धत्रयोदशपणः स्वामिने द्रव्यं एव च ॥१२॥व्याधिता सश्रमा व्यग्रा राजकर्मपरायणा ।आमन्त्रिता च नागच्छेतवाच्या बडबा स्मृता ॥१३॥९ स्वामिपालधर्माःतथा धेनुभृतः क्षीरं लभेतास्याष्टमेऽखिलम् ।सायं समर्पयेत्सर्वं .... .... ॥१४॥अव्यायच्छन्नविक्रोशन्स्वामिने चानिवेदयन् ।वोढुं अर्हति गोपस्तां विनयं चैव राजनि ॥१५॥कृमिचोरव्याघ्रभयाद्दरीश्वभ्राच्च पालयेत् ।आयच्छेच्छक्तितः क्रोशोत् स्वामिने वा निवेदयेत् ॥१६॥सस्यान्निवारयेद्गास्तु चीर्णे दोषद्वयं भवेत् ।स्वामी शतदमं दाप्यः पालस्ताडनं अर्हति ।शदश्च सदमं चीर्णे समूले कार्षभक्षिते ॥१७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP