संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| निक्षेपः बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - निक्षेपः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः निक्षेपः Translation - भाषांतर ऋणादानं प्रयोगादि दापनान्तं प्रकीर्तितम् ।निक्षेपस्याधुना सम्यग् विधानं श्रूयतां इति ॥१॥१ औपनिधिकम्पृष्ठ १२०)अनाख्यातं व्यवहितं असंख्यातं अदर्शितम् ।मुद्राङ्कितं च यद्दत्तं तदोपनिधिकं स्मृतम् ॥२॥२ न्यासस्वरूपम्राजचौरारातिभयाद्दायादानां च वञ्चनात् ।स्थाप्यतेऽन्यगृहे द्रव्यं न्यासस्तत्परिकीर्तितम् ॥३॥३ स्थापनप्रकारःस्थानं गृहं स्थलं चैव तदृणं विविधान्गुणान् ।सत्यं शौचं बन्धुजनं परीक्ष्य स्थापयेन्निधिम् ॥४॥४ तस्य द्वैविध्यम्स पुनर्द्विविधः प्रोक्तः साक्षिमानितरस्तथा ।प्रतिदानं तथैवास्य प्रत्ययः स्याद्विपर्यये ॥५॥समाक्षिकं रहोदत्तं द्विविधं तदुदाहृतम् ।पुत्रवत्परिपाल्यं तु विनश्यत्यनवेक्षया ॥६॥५ निक्षेपादिरक्षणं यत्नेन कर्तव्यम्ददतो यद्भवेत्पुण्यं हेमकुप्याम्बरादिकम् ।तत्स्यात्पालयतो न्यासं तथा च शरणागतम् ॥७॥भर्तुर्द्रोहे यथा नार्याः पुंसः पुत्रसुहृद्वधे ।दोषो भवेत्तथा न्यासे भक्षितोपेक्षिते नृणाम् ॥८॥न्यासद्रव्यं न गृह्णीयात्तन्नाशस्त्वयशःकरः ।गृहीतं पालयेद्यत्नात्सकृद्याचितं अर्पयेत् ॥९॥स्थापितं येन विधिना येन यच्च विभावितम् ।तथैव तस्य दातव्यं अदेयं प्रत्यनन्तरम् ॥१०॥६ निक्षेपनाशे व्यवस्थादेवराजोपघातेन यदि तन्नाशं आप्नुयात् ।ग्रहीतृद्रव्यसहितं तत्र दोषो न विद्यते ॥११॥भेदेनोपेक्षया न्यासं ग्रहीता यदि नाशयेत् ।याच्यमानो न दद्याद्वा दाप्यस्तत्सोदयं भवेत् ॥१२॥७ तस्य भोगदण्डःन्यासद्रव्येण यः कश्चित्साधयेत्कार्यं आत्मनः ।दण्ड्यः स राज्ञो भवति दाप्यस्तच्चापि सोदयम् ॥१३॥८ अपह्नवे निर्णयःगृहीत्वापह्नुते यश्च साक्षिभिः शपथेन वा ।विभाव्य दापयेन्न्यासं तत्समं विनयं तथा ॥१४॥रहो दत्ते निधौ यत्र विसंवादः प्रजायते ।विभावकं तत्र दिव्यं उभयोरपि च स्मृतम् ॥१५॥मिथो दायः कृतो येन गृहीतो मिथ एव वा ।मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ॥१६॥समुद्रे नाप्नुयात्किंचिद्यदि तस्मान्न संहरेत् ॥१७॥अन्वाहिते याचितके शिल्पिन्यासे सबन्धके ।एष एवोदितो धर्मस्तथा च शरणागते ॥१८॥यस्तु संस्क्रियते न्यासो दिवसैः परिनिष्ठितैः ।तदूर्ध्व स्थापयञ् शिल्पी दाप्यो दैवहतोऽपि तत् ॥१९॥याचितं स्वाम्यनुज्ञातं प्रददन्नापराध्नुयात् ॥२०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP