संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| स्त्रीसंग्रहणम् बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - स्त्रीसंग्रहणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः स्त्रीसंग्रहणम् Translation - भाषांतर पारुष्यं द्विविधं प्रोक्तं साहसं च द्विलक्षणम् ।पापमूलं संग्रहणं त्रिप्रकारं निबोधत ॥१॥बलोपाधिकृते द्वे तु तृतीयं अनुरागजम् ।तत्पुनस्त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ॥२॥अनिच्छन्त्या यत्क्रियते सुप्तोन्मत्तप्रमत्तया ।प्रलपन्त्या वा रहसि बलात्कारकृतं तु तत् ॥३॥छद्मना गृहं आनीय दत्त्वा वा मद्यकार्मणम् ।संयोगः क्रियते यस्यास्तदुपाधिकृतं विदुः ॥४॥अन्योन्यचक्षूरागेण दूतीसंप्रेषणेन च ।कृतं रूपार्थलोभेन ज्ञेयं तदनुरागजम् ॥५॥तत्पुनस्त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ।अपाङ्गप्रेक्षणं हास्यं दूतीसंप्रेषणं तथा ।स्पर्शो भूषणवस्त्राणां संग्रहः प्रथमः स्मृतः ॥६॥प्रेषणं गन्धमाल्यानां धूपं अध्वन्नवाससाम् ।संभाषणं च रहसि मध्यमं संग्रहं विदुः ॥७॥एकशाय्यासनं क्रीडा चुम्बनालिङ्गनं तथा ।एतत्संग्रहणं प्रोक्तं उत्तमं शास्त्रवेदिभिः ॥८॥प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ।प्रलोभनं चान्नपानैर्मध्यमः संग्रहः स्मृतः ॥९॥प्रेषणं गन्धमाल्यानां फलमद्यान्नवाससाम् ।संभाषणं च रहसि मध्यमं संग्रहं विदुः ॥१०॥त्रयाणां अपि चैतेषां प्रथमो मध्य उत्तमः ।विनयः कल्पनीयः स्यादधिको द्रविणाधिके ॥११॥परपत्न्या तु पुरुषः संभाषां योजयन्रहः ।पूर्वं आक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम् ॥१२॥सहमायः कामयते धनं तस्याखिलं हरेत् ।उत्कृत्य लिङ्गवृषणौ भ्रामयेद्गर्दभेन तु ॥१३॥छद्मना कामयेद्यस्तु तस्य सर्वहरो दमः ।अङ्कयित्वा भगाङ्गेन पुरान्निर्वासयेत्ततः ॥१४॥दमो नेयः सभायां यो हीनायां अधिकस्ततः ।पुंसः कार्योऽधिकायां तु गमने संप्रमापणम् ॥१५॥गृहं आगत्य या नारी प्रलोभ्य स्पर्शनादिना ।कामयेत्तत्र सा दण्ड्या नरस्यार्धदमः स्मृतः ॥१६॥छिन्ननासौष्ठकर्णानां परिभ्राम्याप्सु मज्जयेत् ।खादयेद्वा सारमेयैः संस्थाने बहुसंस्थिते ॥१७॥अनिच्छन्ती तु या भुक्ता गुप्तां तां वासयेद्गृहे ।मलिनाङ्गीं अधः शय्यां पिण्डमात्रोपजीविनीम् ॥१८॥कारयेन्निष्कृतिं कृच्छ्रं पराकं वा समे गताम् ।हीनवर्णोपभुक्ता या त्याज्या वध्याथ वा भवेत् ॥१९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP