संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| अस्वामिविक्रयः बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - अस्वामिविक्रयः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः अस्वामिविक्रयः Translation - भाषांतर निक्षेपानन्तरं प्रोक्तो भृगुणास्वामिविक्रयः ।श्रूयतां तं प्रयत्नेन सविशेषं ब्रवीम्यहम् ॥१॥१ अस्वामिलक्षणम्निक्षेपान्वाहितन्यास हृतयाचितबन्धकम् ।उपांशुजनविक्रीतं अस्वामी सोऽभिधीयते ॥२॥२ अध्यक्षनिवेदितक्रयेण दोषःयेन क्रीतं तु मूल्येन प्रागध्यक्षनिवेदितम् ।न विद्यते तत्र दोषः स्तेन स्यादुपधिक्रयात् ॥३॥३ उपविक्रयलक्षणम्अन्तर्गृहे बहिर्ग्रामान्निशायां असतो जनात् ।हीनमूल्यं च यत्क्रीतं ज्ञेयोऽसावुपविक्रयः ॥४॥४ तत्र क्रेतृशुद्धिनिर्णयःपूर्वस्वामी तु तद्द्रव्यं यदागत्य विचारयेत् ।तत्र मूल्यं दर्शनीयं क्रेतुः शुद्धिस्ततो भवेत् ॥५॥मूले समाहृते क्रेता नाभियोज्यः कथंचन ।मूलेन सह वादस्तु नाष्टकस्य विहीयते ॥६॥विक्रेता दर्शितो यत्र हीयते व्यवहारतः ।क्रेत्रे राज्ञे मूल्यदण्डौ प्रदद्यात्स्वामिने धनम् ॥७॥परद्रव्येऽभिलषति योऽस्वामी लोभसंयुतः ।अभावयंस्ततः पश्चाद्दाप्यः स्याद्द्विगुणं दमम् ॥८॥प्रमाणहीने वादे तु पुरुषापेक्षया नृपः ।समन्यूनाधिकत्वेन स्वयं कुर्याद्विनिर्णयम् ॥९॥वणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः ।अविज्ञाताश्रयात्क्रीतं विक्रेता यत्र वा मृतः ॥१०॥स्वामी दत्त्वार्धमूल्यं तु प्रकृह्णीत स्वकं धनम् ।अर्धं द्वयोरपि हृतं तत्र स्याद्व्यवहारतः ॥११॥अविज्ञातक्रयो दोषस्तथा चापरिपालनम् ।एतद्द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः ॥१२॥वणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः ।दिवा गृहीतं सत्क्रेता समृद्धो लभते धनम् ॥१३॥विक्रीयोर्वीं तु यत्क्रेतुर्भुक्तिं यो न च साधयेत् ।स तस्मै तद्धनं दद्यादन्यथा चोरदण्डभाक् ॥१४॥एतद्द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः ।अविज्ञातविशेषत्वाद्यत्र मूल्यं न लभ्यते ॥१५॥हानिस्तत्र समा कल्प्या क्रेतृनास्तिकयोर्द्वयोः ॥१६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP