संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| दण्डपारुष्यम् बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - दण्डपारुष्यम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः दण्डपारुष्यम् Translation - भाषांतर हस्तपाषाणलगुडैर्भस्मकर्दमपांसुभिः ।आयुधैश्च प्रहरणैर्दण्डपारुष्यं उच्यते ॥१॥वाक्पारुष्ये कृते यस्य यथा दण्डो विधीयते ।तस्यैव द्विगुणं दण्डं कारयेन्मरणादृते ॥२॥द्वयोः प्रहरतोर्दण्डः समयोस्तु समः स्मृतः ।आरम्भकोऽनुबन्धी च दाप्यः स्यादधिकं दमम् ॥३॥पूर्वाक्रुष्टः समाक्रोशंस्ताडितः प्रतिताडयन् ।हत्वाततायिनं चैव नापराधी भवेन्नरः ॥४॥वाक्पारुष्यादिना नीचो यः सन्तं अभिलङ्घयेत् ।स एव ताडयंस्तस्य नान्वेष्टव्यो महीभुजा ॥५॥१ प्रथमं दण्डपारुष्यम्भस्मादीनां प्रक्षिपणं ताडनं च करादिना ।प्रथमं दण्डपारुष्यं दमः कार्योऽत्र माषिकः ॥६॥एष दण्डः समेषूक्तः परस्त्रीष्वधिकेषु च ।द्विगुणस्त्रिगुणो ज्ञेयः प्राधान्यापेक्षया बुद्धैः ॥७॥उद्यतेऽश्मशिलाकाष्ठे कर्तव्यः प्रथमो दमः ।परस्परं हस्तपादे दशविंशतिकस्तथा ॥८॥२ मध्यमम्मध्यमः शस्त्रसंधाने संयोज्यः क्षुब्धयोर्द्वयोः ।कार्यः कृतानुरूपस्तु लग्ने घाते दमो बुधैः ॥९॥इष्टकोपलकाष्ठैश्च ताडने तु द्विमाषिकः ।द्विगुणः शोणितोद्भेदे दण्डः कार्यो मनीषिभिः ॥१०॥त्वग्भेदे प्रथमो दण्डो मांसभेदे तु मध्यमः ।३ उत्तमम्उत्तमस्त्वस्थिभेदे स्याद्धातेन तु प्रमापणम् ॥११॥कर्णनासाकरच्छेदे दन्तभङ्गेऽस्थिभेदने ।कर्तव्यो मध्यमो दण्डो द्विगुणः पतितेषु तु ॥१२॥कर्णौष्ठघ्राणपादाक्षि जिह्वाशिश्नकरस्य च ।छेदने चोत्तमो दण्डो भेदने मध्यमो गुरुः ॥१३॥दण्डस्त्वभिहितायैव दण्डपारुष्यकल्पितः ।हृते तद्द्विगुणं चान्यद् राजदण्डस्ततोऽधिकः ॥१४॥अङ्गावभेदने चैव पीडने छेदने तथा ।समुत्थानव्ययं दाप्यः कलहापहृतं च यत् ॥१५॥विविक्ते ताडितो यस्तु हतो दृश्येत वा भवेत् ।हन्ता तदनुमानेन विज्ञेयः शपथेन वा ॥१६॥अन्तर्वेश्मन्यरण्ये वा निशायां यत्र ताडितः ।शोणितं तत्र दृश्येत न पृच्छेत्तत्र साक्षिणः ॥१७॥कश्चित्कृत्वात्मनश्चिह्नं द्वेषात्परं अभिद्रवेत् ।हेत्वर्थं अतिसामर्थ्यैस्तत्र युक्तं परीक्षणम् ॥१८॥आक्रुष्टस्तु समाक्रोशंस्ताडितः प्रतिताडयन् ।हत्वापराधिनं चैव नापराधी भवेन्नरः ॥१९॥प्रातिलोम्यास्तथा चान्त्याः पुरुषाणां मलाः स्मृताः ।ब्राह्मणातिक्रमे वध्या न दातव्या धनं क्वचित् ॥२०॥श्रान्तान्क्षुधार्तान्तृषितानकाले वाहयेत्तु यः ।स गोघ्नो निष्कृतिं कार्यो दाप्यो वाप्यथवा दमम् ॥२१॥समुत्थानव्ययं दाप्यः कलहाय कृतं च यत् ।येनाङ्गेन द्विजातीनां शूद्रः प्रहरते रुषा ।छेत्तव्यं तद्भवेत्तस्य मनुना समुदाहृतम् ॥२२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP