संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| व्यवहारकाण्डम् बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - व्यवहारकाण्डम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः व्यवहारकाण्डम् Translation - भाषांतर धर्मप्रधानाः पुरुषाः पूर्वं आसन्नहिंसकाः ।लोभद्वेषाभिभूतानां व्यवहारः प्रवर्तितः ॥१॥प्रयच्छेच्चेद्भृतिं स्वामी भृत्यानां कर्म कुर्वताम् ।न कुर्वन्ति च भृत्याश्चेत्तत्र वादः प्रवर्तते ॥२॥हिंसां वा कुरुते कश्चिद्देयं वा न प्रयच्छति ।द्वे हि स्थाने विवादस्य तयोर्बहुतरा गतिः ॥३॥यतो द्रव्यं विनिक्रीय ऋणार्थं चैव गृह्यते ।तन्मूल्यं उत्तमर्णेन व्यवहार इति स्मृतः ॥४॥१ राजगुणाःगुणधर्मानतो राज्ञः कथयाम्यनुपूर्वशः ।धनिकर्णिकसंदिग्धौ प्रतिभूलेख्यसाक्षिणः ॥५॥विचारयति यः सम्यक्तस्योत्पत्तिं निबोधत ।सोमाग्न्यर्कानिलेन्द्राणां वित्तापत्त्योर्यमस्य च ॥६॥तेजोमात्रं समुद्धृत्य राज्ञो मूर्तिर्हि निर्मिता ।तस्य सवाणि भूतानि चराणि स्थावराणि च ॥७॥भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ।नाराजके कृषिवणिक् कुसीदपरिपालनम् ॥८॥तस्माद्वर्णाश्रमाणां तु नेतासौ निर्मितः पुरा ।२ व्यवहारपदानिद्विपदो व्यवहारः स्यात्धनहिंसासमुद्भवः ॥९॥द्विसप्तकोऽर्थमूलस्तु हिंसामूलश्चतुर्विधः ।पारुष्ये द्वे वधश्चैव परस्त्रीसंग्रहस्तथा ॥१०॥कुसीदनिधिदेयाद्यं संभूयोत्थानं एव च ।भृत्यदानं अशुश्रूषा भूवादोऽस्वामिविक्रियः ॥११॥क्रयविक्रयानुशयः समयातिक्रमस्तथा ।स्त्रीपुंसयोगः स्तेयं च दायभागोऽक्षदेवनम् ॥१२॥एतान्यर्थसमुत्थानि पदानि तु चतुर्दश ।पुनरेवं प्रभिन्नानि क्रियाभेदादनेकदहा ॥१३॥पारुष्ये द्वे साहसं च परस्त्रीसंग्रहस्तथा ।हिंसोद्भवपदान्येवं चत्वार्याह बृहस्पतिः ॥१४॥हीनमध्योत्तमत्वेन प्रभिन्नानि पृथक्पृथक् ।विशेष एषां निर्दिष्टश्चतुर्णां अप्य् अनुक्रमात् ॥१५॥पदान्यष्टादशैतानि धर्मशास्त्रोदितानि तु ।मूलं सर्वविवादानां ये विदुस्ते परीक्षकाः ॥१६॥पूर्वपक्षः स्मृतः पादो द्वितीयस्तूत्तरस्तथा ।क्रियापादस्तथा वाच्यश्चतुर्थो निर्णयस्तथा ॥१७॥३ धर्मादिचतुष्टयबलाबलम्धर्मेण व्यवहारेण चारित्रेण नृपाज्ञया ।चतुष्प्रकारोऽभिहितः संदिग्धेऽर्थे विनिर्णयः ॥१८॥शास्त्रं केवलं आश्रित्य क्रियते यत्र निर्णयः ।व्यवहारः स विज्ञेयो धर्मस्तेनापि वर्धते ॥१९॥देशस्थित्यानुमानेन नैगमानुमतेन च ।क्रियते निर्णयस्तत्र व्यवहारस्तु बाध्यते ॥२०॥विहाय चरिताचारं यत्र कुर्यात्पुनर्नृपः ।निर्णयं सा तु राजाज्ञा चरितं बाध्यते तया ॥२१॥धर्मशास्त्रानुसारेण सामात्यः स पुरोहितः ।व्यवहारान्नृपः पश्येत्प्रजासंरक्षणाय च ।क्रोधलोभविहीनस्तु सत्यवादी जितेन्द्रियः ॥२२॥४ धर्माधिकरणम्सप्तप्रकृतिकं यत्तु विजिगीषोररेश्च यत् ।चतुर्दशकं एवेदं मण्डलं परिचक्षते ॥२३॥चत्वारः पृथिवीपालाः पृथङ्मित्रैः सहाष्टकम् ।अमात्यादिभिरेते च जगत्यक्षरसंहिताः ॥२४॥प्रातरुत्थाय नृपतिः शौचं कृत्वा विधानतः ।गुरून्ज्योतिर्विदो वैद्यान्देवान्विप्रान्पुरोहितान् ॥२५॥यथार्हं एतान्संपूज्य सुपुष्पाभरणाम्बरैः ।अभिनन्द्य च गुर्वादीन्सुमुखः प्रविशेत्सभाम् ॥२६॥राजा कार्याणि संपश्येत्सद्भिरेव त्रिभिर्वृतः ।सभां एव प्रविश्याग्र्यां आसीनः स्थित एव वा ॥२७॥५ दुर्गलक्षणम्आत्मदारार्थलोकानां संचितानां तु गुप्तये ।नृपतिः कारयेद्दुर्गं प्राकारद्वयसंयुतम् ॥२८॥भूपानां इन्धनरसैर्वेत्रशष्पान्नवाहनैः ।यन्त्रायुधैश्च विविधैः स्निग्धैः शूरैर्नरैर्युतम् ॥२९॥वेदविद्याविदो विप्रान्क्षत्रियानग्निहोत्रिणः ।आहृत्य स्थापयेत्तत्र तेषां वृत्तिं प्रकल्पयेत् ॥३०॥अनाच्छेद्याः करास्तेभ्यः प्रदेया गृहभूमयः ।मुक्ता भाव्याश्च नृपतेर्लेखयित्वा स्वशासने ॥३१॥नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा ।पौराणां कर्म कुर्युस्ते संदिग्धविनयं तथा ॥३२॥समा निम्नोन्नता वापि यत्र भूमिर्यथाविधा ।शालाट्टपरिखाद्याश्च कर्तव्याश्च तथाविधाः ॥३३॥समन्तात्तत्र वेश्मानि कुर्युः प्रकृतयस्ततः ।द्विजवैश्यवणिच्छिल्पि कारुका रक्षकास्तथा ॥३४॥शलावस्थाननिष्काश भ्रमश्वभ्रचतुष्पथान् ।समाजविक्रयस्थान गोव्रजांश्चैव कल्पयेत् ॥३५॥गुणवानिति यः प्रोक्तः ख्यापितो जनसंसदि ।कथं तेनैव वक्त्रेण निर्गुणः परिकथ्यते ॥३६॥तस्मात्प्रभुत्वं वृत्तिं च निर्दोषस्य न चालयेत् ।अनवस्थाप्रसङ्गः स्यान्नश्येतोपग्रहस्तथा ॥३७॥६ प्रजापालनलक्षणम्पृष्ठ ७सम्यङ्निविष्टदेशस्तु कृतदुर्गस्तु शास्त्रतः ।कण्टकोद्धरणे नित्यं आतिष्ठेद्बलं उत्तमम् ॥३८॥तत्प्रजापालनं प्रोक्तं त्रिविधं न्यायवेदिभिः ।परचक्राच्चौरभयाद्बलिनोऽन्यायवर्तिनः ॥३९॥परानीकस्तेनभयं उपायैः शमयेन्नृपः ।बलवत्परिभूतानां प्रत्यहं न्यायदर्शनैः ॥४०॥यदधीते यद्यजते यज्जुहोति यदर्चति ।तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात् ॥४१॥रक्षन्धर्मेण भूतानि राजा वध्यांश्च घातयन् ।यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥४२॥दशाष्टषष्ठं नृपतेर्भागं दद्यात्कृषीवलम् ।खिलाद्वर्षावसन्ताच्च कृष्यमाणाद्यथाक्रमम् ॥४३॥देशस्थित्या बलिं दद्युर्भूतं षण्मासवार्षिकम् ।एष धर्मः समाख्यातः कीनाशानां पुरातनः ॥४४॥७ सभानिवेशनप्रकारःऔदकं पार्वतं वार्क्ष्यं ऐरणं धान्वनं तथा ।दुर्गमध्ये गृहं कुर्याज्जलवृक्षावृतं पृथक् ॥४५॥प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्यां कल्पयेत्सभाम् ।माल्यधूपासनोपेतां बीजरत्नसमन्विताम् ॥४६॥प्रतिमालेख्यदेवैश्च युक्तां अग्न्यम्बुना तथा ।लक्षण्यां वास्तुशास्त्रोक्त लक्षणेन तु लक्षिताम् ॥४७॥भद्रासनं अधिष्ठाय संवीताङ्गः समाहितः ।प्रणम्य लोकपालेभ्यः कार्यदर्शनं आरभेत् ॥४८॥विप्रो धर्मद्रुमस्यादिः स्कन्धशाखे महीपतिः ।सचिवाः पत्रपुष्पाणि फलं न्यायेन पालनम् ॥४९॥यशो वित्तं फलरसो भोगोपग्रहपूजनम् ।अजेयत्वं लोकपङ्क्तिः स्वर्गे स्थानं च शाश्वतम् ॥५०॥वोदोत्वैतान्न्यायरसान्समो भूत्वा विवादनम् ।त्यक्तलोभादिकं राजा धर्मं कुर्याद्विनिर्णयम् ॥५१॥राजा वृत्तिविवादानां स्वयं एव प्रदर्शनम् ।शास्त्रदृष्टेन मार्गेण स विद्वद्भिः प्रसेव्यते ॥५२॥तस्मान्न्यायेन राजा तु सम्यग्यत्नेन पालयेत् ।तस्मादर्थं च राज्यं च यशश्च विपुलं लभेत् ॥५३॥सत्यं देवाः समासेन मनुष्यास्त्वनृतं विदुः ।इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥५४॥पश्वाज्य्यर्त्विगादीनां संयोगाज्जायतेऽध्वरः ।यथा संबध्यते तेन व्यवहारस्तथोच्यते ॥५५॥प्राड्विवाकसदस्यानां उपजीव्य मतानि तु ।तद्युक्तियोगाद्योऽर्थेषु निर्णये न स दण्डभाक् ॥५६॥८ सभाप्रभेदाःप्रतिष्ठिताप्रतिष्ठा च मुद्रिता शासिता तथा ।चतुर्विधा सभा प्रोक्ता सभ्याश्चैव तथाविधाः ॥५७॥प्रतिष्ठिता पुरे ग्रामे चला नामाप्रतिष्ठिता ।मुद्रिता अध्यक्षसंयुक्ता राजयुक्ता च शासिता ॥५८॥न्यायान्पश्येत्कृतमतिः सा सभाध्वरसंमिता ।९ सभ्याःलोकवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा ।यत्रोपविष्टा विप्राग्र्याः सा यज्ञसदृशी सभा ॥५९॥कुर्यादलग्नकौ रक्षेदर्थिप्रथ्यर्थिनौ सदा ।एतद्दशाङ्गं करणं यस्यां अध्यास्त पार्थिवः ॥६०॥द्विसस्याष्टमं भागं मुक्त्वा कालं सुसंविशेत् ।स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥६१॥साधुकर्मक्रियायुक्ताः सत्यधर्मपरायणाः ।अक्रोधलोभाः शास्त्रज्ञाः सभ्याः कार्या महीभुजा ॥६२॥सप्त पञ्च त्रयो वा सभासदो भवन्ति ॥६३॥देशाचारानभिज्ञा ये नास्तिकाः शास्त्रवर्जिताः ।उन्मत्तक्रुद्धलुब्धार्ता न प्रष्टव्या विनिर्णये ॥६४॥राजा कार्याणि संपश्येत्प्राड्विवाकोऽथ वा द्विजः ।न्यायाङ्गान्यग्रतः कृत्वा सभ्यशास्त्रमते स्थितः ॥६५॥बलेन चतुरङ्गेन यतो रञ्जयते प्रजाः ।दीप्यमानः स्ववपुषा तेन राजाभिधीयते ॥६६॥एकस्त्वनेकधा प्रोक्तो व्यवहारो मनीषिभिः ।तस्य निर्णयकृद्राजा ब्राह्मणश्च बहुश्रुतः ॥६७॥व्यवहाराश्रितं प्रश्नं पृच्छति प्राडिति श्रुतिः ।विवदेत्तत्र यस्तस्मिन्प्राड्विवाकस्तु स स्मृतः ॥६८॥विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च ।प्रियपूर्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः ॥६९॥सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥७०॥सर्वशास्त्रार्थवेत्तारं अलुब्धं न्यायभाषिणम् ।विप्रं प्राज्ञं क्रमायातं अमात्यं स्थापयेद्द्विजम् ॥७१॥द्विजान्विहाय यः पश्येत्कार्याणि वृषलैः सह ।तस्य प्रक्षरते राष्ट्रं बलं कोशं च नश्यति ॥७२॥ये चारण्यचरास्तेषां अरण्ये करणं भवेत् ।सेनायां सैनिकानां तु सार्थेषु बणिजां तथा ॥७३॥कीनाशाः कारुका मल्लाः कुसीदश्रेणिवर्तकाः ।लिङ्गिनस्तस्कराश्चैव स्वेन धर्मेण निर्णयः ॥७४॥कुलानि श्रेणयश्चैव गणास्त्वधिकृतो नृपः ।प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ॥७५॥तपस्विनां तु कार्याणि त्रैविद्यैरेव कारयेत् ।मायायोगविदां चैव न स्वयं कोपकारणात् ॥७६॥अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् ।अयशो महदाप्नोति नरकं चैव गच्छति ॥७७॥अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुरोऽपि वा ।नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥७८॥यत्र विप्रो न विद्वान्स्यात्क्षत्रियं तत्र योजयेत् ।वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥७९॥धर्मकर्मविहीनस्तु ब्राह्मैर्लिङ्गैर्विवर्जितः ।ब्रवीति ब्राह्मणोऽस्मीति तं आहुर्ब्राह्मणब्रुवम् ॥८०॥शब्दाभिधानतत्त्वज्ञौ गणनाकुशलौ शुची ।नानालिपिज्ञौ कर्तव्यौ राज्ञा गणकलेखकौ ॥८१॥अकारणे रक्षणे च साक्ष्यर्थिप्रवादिनाम् ।सभ्याधीनः सत्यवादी कर्तव्यस्तु स पूरुषः ॥८२॥एतद्दशाङ्गकरणं यस्यां अध्यास्य पार्थिवः ।न्य्हायं पश्येत्कृतमतिः सा सभाध्वरसंमिता ॥८३॥एषां मूर्धा नृपोऽङ्गानां मुखं चाधिकृतः स्मृतः ।बाहू सभ्याः स्मृतिर्हस्तौ जङ्घे गणकलेखकौ ॥८४॥हेमाग्न्यम्बुदृशौ हृच्च पादौ स्वपुरुषस्तथा ॥८५॥हिरण्यं अग्निं उदकं धर्मशास्त्राणि चैव हि ।तन्मध्ये स्थापयेद्राजा पुण्यानि च हितानि च ॥८६॥आदित्यचन्द्रदेवादि दिक्पालान्तत्र कल्पयेत् ।हेमाग्न्यम्बुस्वपुरुषाः साधनाङ्गानि वै दश ॥८७॥दशानां अपि चैतेषां कर्म प्रोक्तं पृथक्पृथक् ।वक्ताध्यक्षो नृपः शास्ता सभ्यः कार्यपरीक्षकः ॥८८॥स्मृतिर्विनिर्णयं ब्रूते जयदानं दमं तथा ।शपथार्थे हिरण्याग्नी अम्बु तृषितजन्तुषु ॥८९॥गणको गणयेदर्थं लिखेन्न्यायं च लेखकः ।पर्त्यर्थिसभ्यानयनं साक्षिणं च स्वपूरुषः ॥९०॥वाग्दण्डश्चैव धिग्दण्डो विप्राधीनौ तु ताऊभौ ।अर्थदण्डवधावुक्तौ राजायतावुभावपि ॥९१॥राज्ञा ये विदिताः सम्यक्कुलश्रेणिगणादयः ।साहसन्यायवर्ज्यानि कुर्युः कार्याणि ते नृणाम् ॥९२॥कुलश्रेणिगणाध्यक्षाः प्रोक्ता निर्णयकारकाः ।विचार्य श्रेणिभिः कार्यं कुलैर्यन्न विचारितम् ॥९३॥गणैश्च श्रेण्यविज्ञातं गणाज्ञातं नियुक्तकैः ।कुलादिभ्योऽधिकाः सभ्यास्तेभ्योऽध्यक्षः स्मृतोऽधिकः ॥९४॥सर्वेषां अधिको राजा धर्मं यत्नेन निश्चितम् ।उत्तमाधममध्यानां विवादानां विचारणात् ॥९५॥उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः ।अज्ञानतिमिरोपेतान्संदेहपटलान्वितान् ॥९६॥निरामयान्यः कुरुते शास्त्राञ्जनशलाकया ।इह कीर्तिं राजपूजां लभते स्वर्गतिं च सः ॥९७॥लोभद्वेषादिकं त्यक्त्वा यः कुर्यात्कार्यनिर्णयम् ।शास्त्रोदितेन विधिना तस्य यज्ञफलं भवेत् ॥९८॥अधर्मतः प्रवृत्तं तु नोपेक्षेरन्सभासदः ।उपेक्षमाणास्ते भूपा नरकं यान्त्यधोमुखाः ॥९९॥न्यायमार्गादपेतं तु ज्ञात्वा चित्तं महीपतेः ।वक्तव्यं त्वप्रियं तत्र न सभ्यः किल्बिषी ततः ॥१००॥सभ्येन तावद्वक्तव्यं धर्मार्थसहितं वचः ।शृणोति यदि नो राजा स्यात्तु सभ्यस्ततोऽनघः ॥१०१॥अनिर्णीतेषु यद्येवं संभाषेत रहोऽर्थिना ।प्राड्विवाकोऽपि दण्ड्यः स्यात्सभ्याश्चैव विशेषतः ॥१०२॥स्नेताच्चाज्ञानतो वापि मोहाद्वा लोभतोऽपि वा ।यत्र सभ्योऽन्यथावादी दण्ड्योऽसभ्यः स्मृतो हि सः ॥१०३॥लेख्यं यत्र न विद्येत न साक्षी न च भुक्तयः ।प्रमाणानि न सन्त्येकं प्रमाणं तत्र पार्थिवः ॥१०४॥निश्चेतुं ये न शक्याः स्युर्वादाः संदिग्धरूपिणः ।तेषां नृपः प्रमाण् अं स्यात्स सर्वस्य प्रभुर्यतः ॥१०५॥व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥१०६॥अन्यायवादिनः सभ्यास्तथैवोत्कोचजीविनः ।विश्वस्ते वञ्चकाश्चैव निर्वास्याः सर्व एव ते ॥१०७॥नियुक्तो वानियुक्तो वा शास्त्रज्ञो वक्तुं अर्हति ।यत्तेन सदसि प्रोक्तं स धर्मो नात्र संशयः ॥१०८॥पूर्वामुखस्तूपविशेद्राजा सभ्या उदङ्मुखाः ।गणकः पश्चिमा यस्तु लेखको दक्षिणामुखः ॥१०९॥यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति ।तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम् ॥११०॥धर्मशास्त्रार्थशास्त्राभ्यां अविरोधेन पार्थिवः ।समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ॥१११॥न्यायशास्त्रं अतिक्रम्य सभ्यैरत्र तु निश्चितम् ।तत्र धर्मो हतो हन्ति सर्वानेव न संशयः ॥११२॥धार्यं मन्वादिकं शास्त्रं नार्थशास्त्रं कथंचन ।द्वयोर्विरोधे कर्तव्यं धर्मशास्त्रोदितं वचः ॥११३॥केवलं शास्त्रं आश्रित्य न कर्तव्यो विनिर्णयः ।युक्तिहीने विचारे तु धर्महानिः प्रजायते ॥११४॥पूर्वाह्णे तां अधिष्ठाय वृद्धामात्यानुजीविभिः ।पश्येत्पुराणधर्मार्थ शास्त्राणि शृणुयात्तथा ॥११५॥चौरोऽचौरः साध्वसाधु जायते व्यवहारतः ।युक्तिं विना विचारेण माण्डव्यश्चोरतां गतः ॥११६॥असत्याः सत्यसदृशाः सत्याश्चासत्यसंनिभाः ।दृश्यन्ते भ्रान्तिजनकास्तस्माद्युक्त्या विचारयेत् ॥११७॥यज्ञे संपूज्यते विष्णुर्व्यवहारे महीपतिः ।जयी तु यजमानोऽत्र जितः पशुरुदाहृतः ॥११८॥पूर्वपक्षोत्तरावाद्यं प्रतिज्ञा च हविः स्मृतः ।त्रयी शास्त्राणि सभ्यास्तु ऋत्विजो दक्षिणा दमः ॥११९॥तथा चैवोपदृष्टारौ ज्ञेयौ गणकलेखकौ ।एषोऽध्वरसमः प्रोक्तो व्यवहारः समाहृतः ॥१२०॥स्मृत्याचारव्यपेतेन मार्गेनाधर्षितः परैः ।आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥१२१॥पतितादिकृतश्चैव यश्च न प्रकृतिं गतः ।अस्वतन्त्रकृतश्चैव पूर्वपक्षो न सिध्यति ॥१२२॥मत्तोन्मत्तार्तव्यसनि बालवृद्धप्रयोजितः ।असंबन्धकृतश्चैव व्यवहारो न सिध्यति ॥१२३॥गुरुशिष्यौ पितापुत्रौ दम्पती स्वामिभृत्यकौ ।एतेषां समवेतानां व्यवहारो न सिध्यति ॥१२४॥एवं परीक्षितं सभ्यैः पूर्व्पक्षं तु लेखयेत् ।अप्रसिद्धं पुरद्विष्टं विवादं न विचारयेत् ॥१२५॥१० देशजातिधर्मास्तथैव पालनीयाःप्रतिलोमप्रसूतानां तथा दुर्गनिवासिनाम् ।देशजातिकुलादीनां ये धर्मास्तत्प्रवर्तिताः ॥१२६॥तथैव ते पालनीयाः प्रजा प्रक्षुभ्यतेऽन्यथा ।जनापरक्तिर्भवति बलं कोशश्च नश्यति ॥१२७॥उदुह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः ।मध्यदेशे कर्मकराः शिल्पिनश्च गवाशिनः ॥१२८॥मत्स्यादाश्च नराः पूर्वे व्यभिचाररताः स्त्रियः ।उत्तरे मद्यपा नार्यः स्पृश्या नॄणां रजस्वलाः ॥१२९॥सहजाताः प्रगृह्णन्ति भ्रातृभार्यां अभर्तृकाम् ।अनेन कर्मणा नैते प्रायश्चित्तदमार्हकाः ॥१३०॥विहिताकरणान्नित्यं प्रतिषिद्धनिषेवणात् ।भक्ताच्छादं प्रदायैषां शेषं गृह्णीत पार्थिवः ॥१३१॥प्रतिलोमप्रसूतानां तथा दुर्गनिवासिनाम् ।शास्त्रवद्यत्नतो रक्ष्या संदिग्धौ साधनं तु सा ॥१३२॥तां दृष्ट्वा निर्णयं कुर्यात्प्राङ्निविष्टव्यवस्थया ।सभा शुल्कोचितदमे मासषाण्मासिके करे ॥१३३॥मर्यादा लेखिता कार्या नैगमाधिष्ठिता सदा ।अर्थिनश्च वचः कार्यं वचः प्रत्यर्थिनस्तथा ।परीक्ष्य पदं आदद्यादन्यथा नरकं व्रजेत् ॥१३४॥एकस्य बहुभिः सर्धं स्त्रीभिः प्रेक्षकरैस्तथा ।अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥१३५॥११ अनासेध्याःसत्रोद्वाहोद्यतो रोगी शोकार्तोन्मत्तबालकाः ।मत्तो वृद्धोऽनुयुक्तश्च नृपकार्योद्यतो व्रती ॥१३६॥आसन्ने सैनिकः संख्ये कर्षको वापसंग्रहे ।विषमस्थाश्च नासेध्याः स्त्रीसनाथास्तथैव च ॥१३७॥अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती ।विषमस्थाश्च नासेध्याः स्त्रीसनाथास्तथैव च ॥१३८॥वणिग्विक्रीतपण्यस्तु सस्ये जाते कृषीवलः ।सत्रोद्यताश्चैव तथा दापनीयाः कृतक्रियाः ॥१३९॥मतिर्नोत्सहते यत्र विवादं कर्तुं इच्छते ।दातव्यस्तस्य कालः स्यादर्थिप्रत्यर्थिनोरपि ॥१४०॥यस्याभियोगं कुरुते तथ्येनाशङ्कयापि वा ।तं एवानाययेद्राजा सुद्रया पुरुषेण वा ॥१४१॥अप्रगल्भजडोन्मात वृद्धस्त्रीबालरोगिणाम् ।पूर्वोत्तरं वदेद्बन्धुर्नियुक्तोऽन्योऽथ वा नरः ॥१४२॥ऋत्विग्वादे नियुक्तश्च समौ संपरिकीर्तिनौ ।यज्ञे स्वाम्याप्नुयात्पुण्यं हानिं वादेऽथ वा जयम् ॥१४३॥१२ आह्वानम्पृष्ठ २४आहूतो यस्तु नागच्छेद्दर्पाद्बन्धुबलान्वितः ।अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ॥१४४॥काले कार्यार्थिनं पृच्छेत्प्रणतं पुरतः स्थितम् ।किं कार्यं का च ते पीडा मा भैषीर्ब्रूहि मानव ॥१४५॥एवं पृष्टः स यद्ब्रूयात्तत्सभ्यैः ब्राह्मणैः सह ।विमृश्य कार्यं न्याय्यं चेदाह्वानार्थं अतः परम् ॥१४६॥मुद्रां दद्याद्यथा पत्रं पुरुषं वा समादिशेत् ।आहूतस्त्व् अवमन्येत यः शक्तो राजशासनम् ।अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ॥१४७॥अकल्पबालस्थविर विषमस्थक्रियाकुलान् ।हीने कर्मणि पञ्चाशन्मध्यमेषु शतावरः ।गुरुकार्येषु दण्ड्यः स्यात्न्नित्यं पञ्चशतावरः ॥१४८॥परानीकहते देशे दुर्भिक्षे व्याधिपीडिते ।कुर्वीत पुनराह्वानं दण्डं न परिकल्पयेत् ॥१४९॥कार्यातिपातिव्यसनि नृपकार्योत्सवाकुलान् ॥१५०॥द्जर्मोद्यतानभ्युदये पराधीनशठाकृतीन् ।मत्तोन्मत्तप्रमत्तांश्च भृत्यान्नाह्वाययेन्नृपः ॥१५१॥न च भ्राता न च पिता न पुत्रो न नियोगकृत् ।परार्थवादी दण्ड्यः स्याद्व्यवहारेषु विब्रुवन् ॥१५२॥न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ।सर्ववर्णोत्तमां कन्यां ताः ज्ञातिप्रभुक्ताः स्मृताः ॥१५३॥कालं देशञ् च ? विज्ञाय कार्याणां च बलावलम् ।अकल्पादीनपि शनैर्यानैराह्वापयेन्नृपः ॥१५४॥तदधीनकुटुम्बिव्यः स्वैरिण्यो गणिकाश्च याः ।निष्कुला याश्च पतितास्तासां आह्वानं इष्यते ॥१५५॥उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये ॥१५६॥ज्ञात्वाभियोगं येऽपि स्युर्वने प्रव्रजितादयः ।तानप्याह्वापयेत्राजा गुरुकार्येष्वकोपयन् ॥१५७॥वक्तव्येऽर्थे न तिष्ठन्तं उत्क्रामन्तं च तद्वचः ।आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥१५८॥स्थानासेधः काल्कृतः प्रवासात्कर्मणस्तथा ।चतुर्विधः स्यादासेधः आसिद्धस्तं न लङ्घयेत् ॥१५९॥क्षेत्रारामगृहादीनि धनधान्यादिकं तथा ।अन्यायवादिनां त्वेतान्यासेधव्यानि वादिनाम् ॥१६०॥आसेद्धा तु स्वं आसेधं स्वयं एवोत्सृजेद्यदि ।न तस्यातिक्रमाद्दोषो न च दण्डं प्रकल्पयेत् ॥१६१॥राज्ञे निवेदनादूर्ध्वं आसेद्धा नोत्सृजेद्स्वयम् ।उत्सृजेच्चेद्दमो दाप्य आसिद्धश्च न लङ्घयेत् ॥१६२॥नदीसंतारकान्तार दुर्देशोपप्लवादिषु ।आसिद्धस्तु परासेधं उत्क्रामन्नापराध्नुयात् ॥१६३॥निवेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः ।अभियुक्तस्तथान्येन राजकार्योद्यतस्तथा ॥१६४ब्॥गवां प्रचारे गोपालाः सस्यारम्भे कृषीवलाः ।शिल्पिनश्चापि तत्काले आयुधीयाश्च विग्रहे ॥१६५॥वृक्षं पर्वतं आरूढा हस्त्यश्वरथनौस्थिताः ।विषमस्थाश्च ते सर्वे नासेध्याः कार्यसाधकैः ॥१६६॥यस्त्विन्द्रियनिरोधेनाप्याहारोच्छ्वसनादिभिः ।आसेधयेदनासेधैः स दण्ड्यो न त्वतिक्रमी ॥१६७॥आसेधयोग्य आसेधं उत्क्रामन्दण्डं अर्हति ।आसेधयंस्तु नासेध्यं राज्ञा शास्य इति स्थितिः ॥१६८॥आगतानां विवदतां असकृद्वादिनां नृपः ।वादान्पश्येन्नात्मकृतान्न चाध्यक्षनिवेदितान् ॥१६९॥१३ वादिप्रतिवादिनोरुक्तिक्रमःपृष्ठ २७पीडितः स्वयं आयातः शस्त्रेणार्थी यदा भवेत् ।प्राड्विवाकस्तु तं पृच्छेत्पुरुषो वा शनैः शनैः ॥१७०॥योऽदत्तव्यवहारत्वादनियुक्तः प्रवर्तते ।वचनं तस्य न ग्राह्यं लिखितप्रेषितादृते ॥१७१॥अहं पूर्विकया यातावर्थिप्रत्यर्थिनौ यदा ।वादो वर्णानुपूर्व्येण ग्राह्यः पीडां अवेक्ष्य वा ॥१७२॥उन्मत्तमत्तनिर्धूता महापातकदूषिताः ।जडातिवृद्धबालश्च विज्ञेयास्तु निरुत्तराः ॥१७३॥पक्षः प्रोक्तस्त्वनादेयो वादी चानुत्तरस्तथा ।यादृग्वादी यश्च पक्षो ग्राह्यस्तत्कथयाम्यहम् ॥१७४॥पीडातिशयं आश्रित्य यद्ब्रवीति विवक्षितम् ।स्वार्थसिद्धिपरो वादी पूर्वपक्षः स उच्यते ॥१७५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP