संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| संभूयसमुत्थानम् बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - संभूयसमुत्थानम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः संभूयसमुत्थानम् Translation - भाषांतर १ संभूयकरणेऽधिकारिणःपृष्ठ १२९)कुलीनदक्षानलसैः प्राज्ञैर्नाणकवेदिभिः ।आयव्ययज्ञैः शुचिभिः शूरैः कुर्यात्सह क्रियाः ॥१॥समोऽतिरिक्तो जीनो वा यत्रांशो यस्य यादृशः ।क्षयव्ययौ तथा वृद्धिस्तस्य तत्र तथाविधा ॥२॥२ अनधिकारिणःअशक्तालसरोगार्त मन्दभाग्यनिराश्रयैः ।वणिज्याद्याः सहैतैस्तु न कर्तव्या बुधैः क्रियाः ॥३॥३ द्रव्यानुगुण्येन लाभःप्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।समन्यूनाधिकैरंशैर्लाभस्तेषां तथाविधः ॥४॥समो न्यूनोऽधिको वांशो येन क्षिप्तस्तथैव सः ।व्ययं दद्यात्कर्म कुर्याल्लाभं गृह्णीत चैव हि ॥५॥४ तेषु वादे निर्णयःपरीक्षकाः साक्षिणश्च त एवोक्ताः परस्परम् ।संदिग्धेऽर्थेऽवञ्चनायां न चेद्द्विद्वेषसंयुताः ॥६॥यः कश्चिद्वञ्चकस्तेषां विज्ञातः क्रयविक्रये ।शपथैः स विशोध्यः स्यात्सर्ववादे त्वयं विधिः ॥७॥५ द्रव्यहानौ निर्णयःक्षयहानिर्यदा तत्र दैवराजकृताद्भवेत् ।सर्वेषां एव सा प्रोक्ता कल्पनीया तथांशतः ॥८॥अनिर्दिष्टो वार्यमाणः प्रमादाद्यस्तु नाशयेत् ।तेनैव तद्भवेद्देयं सर्वेषां समवायिनाम् ॥९॥राज्ञे दत्त्वा तु षड्भागं लभेरंस्ते यतांशतः ॥१०॥६ रक्षितुः दशमांशम्दैवराजभयादस्तु स्वशक्त्या परिपालयेत् ।तस्य अंशं दशमं दत्त्वा गृह्नीयुस्तेऽंशतोऽपरम् ॥११॥७ शुल्कम्शुल्कस्थानं वणिक्प्राप्तः शुल्कं दद्याद्यथोचितम् ।न तद्व्यभिचरेत्राज्ञां बलिरेष प्रकीर्तितः ॥१२॥नैवं तस्करराजाग्नि व्यसने समुपस्थिते ।यस्तु स्वशक्त्या रक्षेत्तु तस्यांशो दशमः स्मृतः ॥१३॥८ संभूयकर्मकुर्वतां एकस्य हानौ निर्णयःयदा तत्र वणिक्कश्चित्प्रमीयेत प्रमादतः ।तस्य भाण्डं दर्शनीयं नियुक्तैः राजपुरुषैः ॥१४॥यदा कश्चित्समागच्छेत्तदा रिक्थहरो नरः ।स्वाम्यं विभावयेदन्यैः स तदा लब्धुं अर्हति ॥१५॥राजाददीत षड्भागं नवमं दशमं तथा ।शूद्रविष्क्षत्रजातीनां विप्राद्गृह्णीत विंशकम् ॥१६॥त्र्यब्दादूर्ध्वं तु नागच्छेद्यत्र स्वामी कथंचन ।तदा गृह्णीत तद्राजा ब्रह्मस्वं ब्राह्मणाञ् श्रयेत् ॥१७॥एवं क्रियाप्रवृत्तानां यदा कश्चिद्विपद्यते ।तद्बन्धुना क्रिया कार्या सर्वेषां सहकारिभिः ॥१८॥९ ऋत्विजःरथं हरेद्यथाध्वर्युर्ब्रह्माधाने च वाजिनम् ।होता निविद्वरं चाश्वं उद्गाता चाप्यनः क्रये ॥१९॥सर्वेषां अर्धिनो मुख्यास्तदर्धेनाधिनोऽपरे ।तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः ॥२०॥आगन्तुकाः क्रमायातास्तथा चैव स्वयंकृताः ।त्रिविधास्ते समाख्याता वर्तितव्यं तथैव तैः ॥२१॥१० संभूयकर्मप्रकारःबहूनां संमतो यस्तु दद्यादेको धनं नरः ।करणं कारयेद्वापि सर्वैरेव कृतं भवेत् ॥२२॥ज्ञातिसंबन्धिसुहृदां ऋणं देयं सबन्धकम् ।अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा ॥२३॥स्वेच्छादेयं हिरण्यं तु रसधान्यं तु सावधि ।देशस्थित्या प्रदातव्यं गृहीतव्यं तथैव तत् ॥२४॥समवेतैस्तु यद्दत्तं प्रार्थनीयं तथैव तत् ।न याचते च यः कश्चिल्लाभात्स परिहीयते ॥२५॥११ संभूय कृषिकर्मश्रूयतां कर्षकादीनां विधानं इदं उच्यते ॥२६॥वाह्यवाहकबीजाद्यैः क्षेत्रोपकरणेन च ।ये समाः स्युस्तु तैः सार्धं कृषिः कार्या विजानता ॥२७॥बाह्यबीजात्ययाद्यत्र क्षेत्रहानिः प्रजायते ।तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनाम् ॥२८॥पर्वते नगराभ्यासे तथा राजपथस्य च ।उषरं मूषिकव्याप्तं क्षेत्रं यत्नेन वर्जयेत् ॥२९॥गर्तानूपं सुसेकं च समन्तात्क्षेत्रसंयुतम् ।प्रकृष्टं च कृतं काले वापयन्फलं अश्नुते ॥३०॥कृशातिवृद्धं क्षूद्रं च रोगिणं प्रपलायिनम् ।काणं खञ्जं विनादद्यात्बाह्यं प्राज्ञः कृषीवलः ॥३१॥एष धर्मः समाख्यातः कीनाशानां पुरातनः ॥३२॥१२ शिल्पिनःहिरण्यकुप्यसूत्राणां काष्ठपाषाणचर्मणाम् ।संस्कर्ता तु कलाभिज्ञः शिल्पी प्रोक्तो मनीषिभिः ॥३३॥हेमकारादयो यत्र शिल्पं संभूय कुर्वते ।कर्मानुरूपं निर्वेश लभेरंस्ते यथांशतः ॥३४॥शिक्षकाभिज्ञकुशला आचार्याश्चेति शिल्पिनः ।एकद्वित्रिचतुर्भागान्लभेयुस्ते यथोत्तरम् ॥३५॥हर्म्यं देवगृहं वापि धार्मिकोपस्कराणि च ।संभूय कुर्वतां चैषां प्रमुखो द्व्यंशं अर्हति ॥३६॥नर्तकानां एष एव धर्मः सद्भिरुदाहृतः ।तालज्ञो लभतेऽध्यर्धं गायनास्तु समांशिनः ॥३७॥१३ चोराणां लाभविभागःस्वाम्याज्ञया तु यश्चौरैः परदेशात्समाहृतम् ।राज्ञे दत्त्वा तु षड्भागं भजेयुस्ते यथांशतः ॥३८॥चतुरोऽंशांस्ततो मुख्यः शूरस्त्र्यंशं समाप्नुयात् ।समर्थस्तु हरेद्द्व्यंशं शेषाः सर्वे समांशिनः ॥३९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP