संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| अतुष्पाद्व्यवहारोपक्रमः बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - अतुष्पाद्व्यवहारोपक्रमः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः अतुष्पाद्व्यवहारोपक्रमः Translation - भाषांतर भाषापादोत्तरपदौ क्रियापादस्तथैव च ।प्रत्याकलितपादश्च व्यवहारश्चतुष्पदः ॥१॥मिथ्यासंप्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा ।प्राङ्न्यायश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्रवेदिभिः ॥२॥मिथ्यायां च चतुष्पादः प्रत्यवस्कन्दने तथा ।प्राङ्न्याये च स विज्ञेयो द्विपात्संप्रतिपत्तिषु ॥३॥उपायैश्चोद्यमानस्तु न दद्यादुत्तरं तु यः ।अतिक्रान्ते सप्तरात्रे जितोऽसौ दण्दं अर्हति ॥४॥१ पक्षलक्षणम्उपस्थिते ततस्तस्मिन्वादी पक्षं प्रकल्पयेत् ।निरवद्यं सप्रतिज्ञं प्रमाणागमसंयुतम् ॥५॥देशस्थानसमामास पक्षाहोनामजातिभिः ।द्रव्यसंख्योदयं पीडां क्षामलिङ्गं च लेखयेत् ॥६॥यं च अर्थं अभियुञ्जीत न तं विप्रकृतिं नयेत् ।न च पक्षान्तरं गच्छेत्गच्छन्पूर्वात्स हीयते ॥७॥२ पक्षदोषाःअप्रसिद्धं सदोषं च निरर्थं निष्प्रयोजनम् ।असाध्यं वा विरुद्धं वा पक्षं राजा विवर्जयेत् ॥८॥न केनचित्कृतो यस्तु सोऽप्रसिद्ध उदाहृतः ।अन्यार्थः स्वार्थहीनश्च सदोषः परिकीर्तितः ॥९॥स्वल्पापराधः स्वल्पार्थो निरर्थक इति स्मृतः ।कार्यबाधाविहीनस्तु विज्ञेयो निष्प्रयोजनः ॥१०॥कुसीदाद्यैः पदैर्हीनो व्यवहारो निरर्थकः ।वाक्पार्ष्यादिभिश्चैव विज्ञेयो निष्प्रयोजनः ॥११॥ममानेन प्रदातव्यं शशशृङ्गकृतं धनुः ।असंभाव्यं असाध्यं तं पक्षं आहुर्मनीषिणः ॥१२॥यस्मिन्नावेदिते पक्षे प्राड्विवाके च राजनि ।पुरे राष्ट्रे विरोधः स्याद्विरुद्धः सोऽभिधीयते ॥१३॥प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।विश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥१४॥स्वल्पाक्षरप्रभूतार्था निस्संदिग्धो निराकुलः ।विरोधिकारणैर्मुक्तो विरोधिप्रतिषेधकः ॥१५॥वचनस्य प्रतिज्ञात्वं तदर्थस्य हि पक्षता ।असंकरेण वक्तव्ये व्यवहारेषु वादिभिः ॥१६॥मोहाद्वा यदि वा शाठ्याद्यन्नोक्तं पूर्ववादिना ।उत्तरान्तर्गतं वापि तद्ग्राह्यं उभयोरपि ॥१७॥एवमादिगुणान्सम्यगालोच्य च सुनिश्चितः ।पक्षः कृतः समादेयः पक्षाभासस्ततोऽन्यथा ॥१८॥देशकालविहीनश्च द्रव्यसंख्याविवर्जितः ।साध्यप्रमाणहीनश्च पक्षोऽनादेय इष्यते ॥१९॥मृषायुक्ति क्रियाहीनं असाध्याद्यर्थं आकुलम् ।पूर्वं पक्षं लेख्यतो वादहानिः प्रजायते ॥२०॥अपदिश्याभियोगं यस्तं अतीत्यापरं वदेत् ।क्रियां उक्त्वान्यथा ? ब्रूयात्स वादी हानिं आप्नुयात् ॥२१॥ऊनाधिकं पूर्वप्क्षे तावद्वादी विशोधयेत् ।न दद्यादुत्तरं यावत्प्रत्यर्थी सभ्यसंनिधौ ॥२२॥ब्रह्महत्यासुरापान स्तेयगुर्वङ्गनागमे ।अन्येष्वसभ्यवादेषु प्रतिवादी न दीयते ॥२३॥मनुष्यमारणे स्तेये परदाराभिमर्शने ।अभक्ष्यभक्षणे चैव कन्याहरणदूषने ॥२४॥पारुष्ये कूटकरणे नृपद्रोहे तथैव च पृष्ठ ३३ ।प्रणिवादी न दाप्यः स्यात्कर्ता तु विवदेत्स्वयम् ॥२५॥अष्टादशपदो वादो विचार्यो विनिवेदितः ।सन्त्यन्यानि पदान्यत्र तानि राजा विशेत्स्वयम् ॥२६॥षड्भागहरणं शुद्धं समयाविक्रमो निधिः ।वधः संहरणं स्तेयं आसेधाज्ञाव्यतिक्रमः ॥२७॥स्वयं नोत्पादयेत्कार्यं राजा वा सास्य पूरुषः ।अधिकाच्छातयेदर्थान्न्यूनांश्च परिपूरयेत् ॥२८॥भूमौ निवेशयेत्तावद्यावदर्थो विनिश्चितः ।श्रुतं च लिखितं चैव शोधितं च विचारितम् ॥२९॥पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत् ।पाण्डुलेख्येन फलके ततः पत्रे विशोधितम् ॥३०॥आवेद्य तु गृहीतेऽर्थे प्रशमं यान्ति ये मिथः ।अभियोगानुरूपेण तेषां दण्डं प्रकल्पयेत् ॥३१॥अन्ये वा ये पुरग्राम महाराजनविरोधकाः ।अनदेयास्तु ते सर्वे व्यवहाराः प्रकीर्त्तिताः ॥३२॥पाण्डुलेखेन फलके भूम्यां वा प्रथमण् लिखेत् ।न्यूनाधिकं तु संशोध्य पश्चात्पत्रे निवेशयेत् ॥३३॥अभियोक्ताप्रगल्भत्वाद्वक्तुं नोत्सहते यदा ।तस्य कालः प्रदातव्यः कालशक्त्यनुरूपतः ॥३४॥यदि नोत्सहते यत्र विवादं कर्तुं इच्छतोः ।दातव्यस्तत्र कालः स्यादर्थिप्रत्यर्थिनोरपि ॥३५॥चतुर्विधः पूर्वपक्षः प्रतिपक्षस्तथैव च ।चतुर्धा निर्णयः प्रोक्तः कश्चिदष्टविधः स्मृतः ॥३६॥देशः कालस्तथा स्थानं संनिवेशस्तथैव च ।ज्ञातृसंज्ञा निवासश्च प्रमाणं क्षेत्रनाम च ॥३७॥पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ।स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥३८॥श्वोलेखनं वा लभते त्र्यहं सप्ताहं एव वा ।मतिरुत्पद्यते यावत्विवादे वक्तुं इच्छतः ॥३९॥बहुप्रतिज्ञं यत्कार्यं व्यवहारेषु निश्चितं पृष्ठ ३५ ।कामं तदपि गृह्णीयाद्राजा तत्त्वबृभुत्सया ॥४०॥शङ्काभियोगस्तथ्यं च लक्ष्येऽर्थेऽभ्यर्थनं तथा ।वृत्ते वादे पुनर्न्यायः पक्षो ज्ञेयश्चतुर्विधः ॥४१॥भ्रान्तिः शङ्का समुद्दिष्टा वश्यं नष्टार्थदर्शनम् ।लब्धेऽर्थेऽभ्यर्थनं मोहस्तथा वृत्ते पुनः क्रियाः ॥४२॥राज्ञापवर्जितो यस्तु यश्च पौरविरोधकृत् ।राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च ॥४३॥न्यायं व नेच्छते कर्तुं अन्यायं वा करोति यः ।न लेखयति यस्त्वेवं तस्य पक्षी न सिध्यति ॥४४॥विरुद्धं चाविरुद्धं च द्वावप्यर्थौ निवेशितौ ।एकस्मिन्यत्र दृश्येते तं पक्षं दूरतस्त्यजेत् ॥४५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP