संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| भुक्तिः बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - भुक्तिः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः भुक्तिः Translation - भाषांतर धनमूलाः क्रियाः सर्वा यत्नास्तत्साधने मताः ।वर्धनं रक्षणं भोग इति तस्य विधिक्रमः ॥१॥१ धनप्रभेदाःतत्पुनस्त्रिविधं ज्ञेयं शुक्लं शबलं एव च ।कृष्णं च तत्र विज्ञेयः प्रभेदः सप्तधा पुनः ॥२॥श्रुतशौर्यतपः कन्या शिष्ययाज्यान्वयागतम् ।धनं सप्तविधं शुल्कं उभयो ह्यस्य तद्विधः ॥३॥कुसीदकृषिवाणिज्य शुल्कशिल्पानुवृत्तिभिः ।कृतोपकारादाप्तं च शबलं समुदाहृतम् ॥४॥पाशकद्यूतदूतार्थ प्रतिरूपकसाहसैः ।व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥५॥तेन क्रयो विक्रयश्च दानं ग्रहणं एव च ।विविधाश्च प्रयुज्यन्ते क्रियासंभोगं एव च ॥६॥यथाविधेन द्रव्येण यत्किञ् चित्कुरुते नरः ।तथाविधं अवाप्नोति तत्फलं प्रेत्य चेह च ॥७॥तत्पुनर्द्वादशविधं प्रतिवर्णाश्रयं स्मृतम् ।साधारणं स्यात्त्रिविधं शेषं नवविधं स्मृतम् ॥८॥क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया ।अविशेषेण सर्वेषां वर्णानां त्रिविधं स्मृतम् ॥९॥वैशेषिकं धनं ज्ञेयं ब्राह्मणस्य त्रिलक्षणं पृष्ठ ७१ ।प्रतिग्रहणलब्धं यद्याज्यं तच्छिष्यतस्तथा ॥१०॥त्रिविधं क्षत्रियस्यापि प्राहुर्वैशेषिकं धनम् ।युद्धोपलब्धं करतो दण्डाच्च व्यवहारतः ॥११॥वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् ।कृषिगोरक्षवाणिज्यं शूद्रस्यैषां अनुग्रहात् ॥१२॥सर्वेषां एव वर्णानां एवं धर्म्यो धनागमः ।विपर्ययादधर्मः स्यान्न चेदापद्गरीयसी ॥१३॥आपत्स्वनन्तरावृत्तिर्ब्राह्मणस्य विधीयते ।वैश्यवृत्तिश्च तस्योक्ता न जघन्या कथं चन ॥१४॥कथं चन न कुर्वीत ब्राह्मणः कर्म वार्षलम् ।वृषलः कर्म न ब्राह्मं पतनीये हि ते तयोः ॥१५॥उत्कृष्टं चापकृष्टं तयोः कर्म न विद्यते ।मध्यमे कर्मणी हित्वा सर्वसाधारणी हि ते ॥१६॥आपदं ब्राह्मणस्तीर्त्वा क्षत्रवृत्त्या भृते जने ।उत्सृजेत्क्षेत्रवृत्तिं तां कृत्वा पावनं आत्मनः ॥१७॥तस्यां एव तु यो भुक्तौ ब्राह्मणो रमते रसात् ।काण्डपृष्ठश्च्युतो मार्गादङ्कितोऽयं प्रकीर्तितः ॥१८॥स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् ।तेन दुश्चरितेनासौ काण्डपृष्ठ इति स्मृतः ॥१९॥दिवाकृते कार्यविधौ ग्रामेषु नगरेषु च ।संभवे साक्षिणां चैव न दिव्या भवति क्रिया ॥२०॥द्वारमार्गक्रियाभोग जलवाहादिके तथा ।भुक्तिरेव तु गुर्वो स्यान्न लेख्यं न च साक्षिणः ॥२१॥एतद्विधानं आख्यातं साक्षिणां लिखितस्य च ।संप्रति स्थावरप्राप्तेर्भुक्तेश्च विधिरुच्यते ॥२२॥विद्यया क्रयबन्धेन शौर्यभागान्वयागतम् ।सपिण्डस्याप्रजस्यांशं स्थावरं स्पतधाप्यते ॥२३॥२ भोगाः सप्तविधःपित्र्ये लभ्दक्रयाधाने रिक्थशौर्यप्रवेदनात् ।प्राप्ते सप्तविधे भोगः सागमः सिद्धिं आप्नुयात् ॥२४॥क्रमागतः शासनिकः क्रयाधानसमन्वितः ।एवंविधस्तु यो भोगः स तु सिद्धिं अवाप्नुयात् ॥२५॥संविभागक्रयप्राप्तं पित्र्यं लब्धं च राजतः पृष्ठ ७३ ।स्थावरं सिद्धिं आप्नोति भुक्त्वा हानिं उपेक्षया ॥२६॥प्राप्तमात्रं येन भुक्तं स्वीकृत्यापरिपन्थितम् ।तस्य तत्सिद्धिं आप्नोति हानिं चोपेक्षया यथा ॥२७॥अध्यासनात्समारभ्य भुक्तिर्यस्याविघातिनी ।त्रिंशद्वर्षाण्यविच्छिन्ना तस्य तां न विचालयेत् ॥२८॥न स्त्रीणां उपभोगः स्याद्विना लेख्यं कथं चन ।राजश्रोत्रियवित्ते च जडबालधनेन च ॥२९॥भुक्त्या केवलया नैव भुक्तिः सिद्धिं अवाप्नुयात् ।आगमेनापि शुद्धेन द्वाभ्यां सिध्यति नान्यथा ॥३०॥बालश्रोत्रियवित्ते च प्राप्ते च पितृतः क्रमात् ।नोपभोगे बलं कार्यं आहर्त्रा तत्सुतेन वा ॥३१॥पशुस्त्रीपुरुषादीनां इति धर्मो व्यवस्थितः ।यद्येकशासने ग्राम क्षेत्रारामाश्च लेखिताः ॥३२॥एकदेशोपभोगेऽपि सर्वे भुक्ता भवन्ति ते ।आगमोऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥३३॥अनुमानाद्वरः साक्षी साक्षिभ्यो लिखितं गुरु ।अव्याहता त्रिपुरुषी भुक्तिरेभ्यो गरीयसी ॥३४॥अनुमानं वसत्यत्र साक्षी चामरणाद्भवेत् ।अव्याहतं लेखभोगं प्रमाणं तु त्रिपौरुषम् ॥३५॥पितापितामहो यस्य जीवेच्च प्रपितामहः ।त्रिंशत्समा तु या भुक्ता भूमिरव्याहता परैः ॥३६॥भुक्तिः सा पौरुषी ज्ञेया द्विगुणा च द्विपुरुषी ।त्रिपूरुषी च त्रिगुणा परतः स्याच्चिरन्तना ॥३७॥यत्राहर्ताभियुक्तः स्याल्लेख्यं साक्षी तदा गुरुः ।तदभावे तु पुत्राणां भुक्तिरेका गरीयसी ॥३८॥आहर्ता शोधयेद्भुक्तिं आगमं वापि संसदि पृष्ठ ७५ ।तत्पुत्रो भुक्तिं एवैकां पौत्रादिस्तु न किंचन ॥३९॥रिक्थभिर्वा परैर्द्रव्यं समक्षं यस्य दीयते ।अन्यस्य भुञ्जतः पश्चान्न स तल्लब्धुं अर्हति ॥४०॥पश्यन्नन्यस्य ददतः क्षितिं यो न निवारयेत् ।सतापि लेख्येन भुवं न पुनर्तां अवाप्नुयात् ॥४१॥ऋक्थिभिर्वापरैर्वापि दत्तं तेनैव तद्भृगुः ॥४२॥भुक्तिस्त्रिपुरुषी सिध्येत्परेषां नात्र संशयः ।अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति ॥४३॥अस्वामिना तु यद्भुक्तं गृहक्षेत्रापणादिकम् ।सुहृद्बन्धुसकुल्यस्य न तद्भोगेन हीयते ॥४४॥धर्मोऽक्षयः श्रोत्रियस्य अभयं राजपूरुषे ।स्नेहः सुहृद्बान्धवेषु भुक्तं एतैर्न हीयते ॥४५॥वैवाह्य श्रोत्रियैर्भुक्तं राज्ञामात्यैस्तथैव च ।सुदीर्घेनापि कालेन तेषां सिध्यति तन्न तु ॥४६॥अशक्तालसरोगार्त बालभीतप्रवासिनाम् ।शासनारूढं अन्येन भुक्तं भुक्त्या न हीयते ॥४७॥छिन्नभोगे गृहे क्षेत्रे संदिग्धं यत्र जायते ।लेख्येन भोगविद्भिर्वा साक्षिभिः शुद्धिं आहरेत् ॥४८॥नामघाटागमं संख्यां कालं दिग्भागं एव च ।भोगच्छेदनिमित्तं च ये विदुस्तत्र साक्षिणः ॥४९॥उत्पन्नाश्चात्यासन्ना ये ये च देशान्तरस्थिताः ।मौलास्ते तु समुद्दिष्टाः प्रष्टव्याः कार्यनिर्णये ॥५०॥अदुष्टास्ते तु यद्ब्रूयुः संदिग्धे समदृष्टयः ।तत्प्रमाणं प्रकर्तव्यं एवं धर्मो न हीयते पृष्ठ ७७ ॥५१॥स्थावरेषु तदाख्यातं लाभभोगप्रसाधनम् ।प्रमाणहीनवादे तु निर्देश्या दैविकी क्रिया ॥५२॥राजान्तरैस्त्रिभिर्भुक्तं प्रमाणेन विनापि यत् ।ब्रह्मदेयं न हर्तव्यं राज्ञा तस्य कदा चन ॥५३॥भुक्तिस्त्रैपुरुषी यत्र चतुर्थे संप्रवर्तिता ।तद्भोगः स्थिरतां याति न पृच्छेदागमां क्व चित् ॥५४॥अनिषिद्धेन यद्भुक्तं पुरुषैस्त्रिभिरेव तु ।तत्र नैवागमः कार्यो भुक्तिस्तत्र गरीयसी ॥५५॥स्थावरेषु विवादेषु भुक्तिस्त्रिपुरुषी च या ।स्वतन्त्रैव हि सा ज्ञेया प्रमाणं साध्यनिर्णये ॥५६॥यस्य त्रिपुरुषा भुक्तिः सम्यग्लेख्यसमन्विता ।एवंविधा ब्रह्मदेया हर्तुं तस्य न शक्यते ॥५७॥यस्य त्रिपुरुषा भुक्तिः पारंपर्यक्रमागता ।न सा चालयितुं शक्या पूर्वकाच्छासनादृते ॥५८॥त्रिपुरुषं भुज्यते येन समक्षं भूरवारिता ।तस्य सा नापहर्तव्या क्षमालिङ्गं न चेद्वदेत् ॥५९॥भुक्तिर्बलवती शास्त्रे ह्यविच्छिन्ना चिरन्तनी ।विच्छिन्नापि हि स ज्ञेया या तु पूर्वं प्रसाधिता ॥६०॥पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः ।तस्मिन्प्रेतेऽपि तत्प्राप्तं भुक्त्या प्राप्तं तु तस्य तत् ॥६१॥त्रिभिरेव तु या भुक्ता पुरुषैर्भूर्यथाविधि ।लेख्याभावे तु तां तत्र चतुर्थः समवाप्नुयात् ॥६२॥सनाभिभिर्बान्धवैश्च भुक्तं यत्स्वजनैस्तथा ।भोगात्तत्र न सिद्धिः स्याद्भोगं अन्येषु कल्पयेत् ॥६३॥सागमो दीर्घकालश्च निच्छिद्रोपरवो धनम् ।प्रत्यर्थिसंनिधानं च परिभोगोऽपि पञ्चधा ॥६४॥चतुष्पाद्धनधान्यादि वर्षाद्धानिं अवाप्नुयात् ॥६५॥भूमेरभुक्तिर्लेख्यस्य यथाकालं अदर्शनम् ।साक्ष्यस्यास्मरणं चैव स्वार्थहानिकराणि तु ॥६६॥तस्माद्यत्नेन कर्तव्यं प्रमाणपरिपालनम् ।तेन कार्याणि सिध्यन्ति स्थावराणि चराणि च ॥६७॥असाक्षिके चिरकृते पृच्छेदुत्तरसाक्षिणः ।शपथैर्वानुयुञ्जीत उपधां वा प्रयोजयेत् ॥६८॥देशनाप्रतिघातं च युक्तिलेशस्तथैव च ॥६९॥चोरापहृतं तु सर्वेभ्योऽन्विष्य अर्पणीयम् ।अलाभे स्वकोशाद्वा अददच्चोरकिल्बिषी स्यात् ॥७०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP