संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| अदेयदेयदत्तानि बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - अदेयदेयदत्तानि स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः अदेयदेयदत्तानि Translation - भाषांतर एषाखिलेनाभिहिता संभूयोत्थाननिष्कृतिः ।अदेयदेयदत्तानां अदत्तस्य च कथ्यते ॥१॥सामान्यं पुत्रदारादि सर्वस्वं न्यासयाचितम् ।प्रतिश्रुतं तथान्यस्य न देयं त्वष्टधा स्मृतम् ॥२॥कुटुम्बभक्तवसनाद्देयं यदतिरिच्यते ।मध्वास्वादो विषं पश्चाद्दातुर्धमोऽन्यथा भवेत् ॥३॥सप्तारामाद्गृहक्षेत्राद्यद्यत्क्षेत्रं प्रचीयते ।पित्रा वाथ स्वयं प्राप्तं तद्दातव्यं विवक्षितम् ॥४॥स्वेच्छादेयं स्वयं प्राप्तं बन्धाचारेण बन्धकम् ।वैवाहिके क्रमायाते सर्वदानं न विद्यते ॥५॥सौदायिकक्रमायातं शौर्यप्राप्तं च यद्भवेत् ।स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिं अवाप्नुयात् ॥६॥सर्वस्वगृहवर्जं तु कुटुम्बभरणादिकम् ।यद्द्रव्यं तत्स्वकं देयं अदेयं स्यादतोऽन्यथा ॥७॥विभक्ता वाविभक्ता वा दायादाः स्थावरे समाः ।एको ह्यनीशः सर्वत्र दानादापनविक्रये ॥८॥भृतिस्तुष्ट्या पण्यमूलं स्त्रीशुल्कं उपकारिणे ।श्रद्धानुग्रहसंप्रीत्या दत्तं अष्टविधं स्मृतम् ॥९॥शूद्रे समगुणं दानं वैश्ये तद्द्विगुणं स्मृतम् ।क्षत्रिये त्रिगुणं दानं ब्राह्मणे षड्गुणं स्मृतम् ॥१०॥श्रोत्रिये चैव साहस्रं उपाध्याये तु तद्द्वयम् ।आचार्ये त्रिगुणं ज्ञेयं आहिताग्निषु तद्द्वयम् ॥११॥आत्मिके ज्ञातसाहस्रं अनन्तं त्वग्निहोत्रिणि ।सोमपे शतसाहस्रं अनन्तं ब्रह्मवादिनि ॥१२॥स्त्रीधनं स्त्री स्वकुल्येभ्यः प्रयच्च्छेत्तं तु वर्जयेत् ।कुल्याभावे तु बन्धुभ्यः तदभावे द्विजातिषु ॥१३॥मदूर्ध्वं इति यद्दत्तं न तत्सत्त्वावहं भवेत् ।तेनेदानीं अदत्तत्वान्मृते रिक्थिनं आपतेत् ॥१४॥क्रुद्धहृष्टप्रमत्तार्त बालोन्मत्तभयातुरैः ।मत्तातिवृद्धनिर्धूतैः संऊढैः शोकवेगिभिः ॥१५॥नन्ददत्तं तथैतैर्यत्तददत्तं प्रकीर्तितम् ॥१६॥प्रतिलाभेच्छया दत्तं अपात्रे पात्रशङ्कया ।कार्ये वाधर्मसंयुक्ते स्वामी तत्पुनराप्नुयात् ॥१७॥अदत्तभोक्ता दण्ड्यः स्यात्तथादेयप्रदायकः ॥१८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP