षष्ठः स्कन्धः - अथ सप्तमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


राजोवाच

कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः ।

एतदाचक्ष्व भगवत्र्छिष्याणामक्रमण गुरौ ॥१॥

श्रीशुक उवाच

इन्द्रस्त्रिभुवनैश्वर्य मदोल्लघिंतसप्तथः ।

मरुद्भिर्वसुभी रुद्रैरादित्यैऋभुभिर्नृप ॥२॥

विश्वदेवैश्व साध्यैश्च नासत्याभ्यां परिश्रितः ।

सिद्धनारणगन्धर्वैर्मुनिभिर्ब्र ह्रावादिभिः ॥३॥

विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः ।

निषेव्यमाणो मघवान स्तुयमानश्च भारत ॥४॥

उपागीयमानो ललितमास्थानाध्यासनाश्रितः ।

पाण्डुरेणातपत्रेण चन्द्रमण्डचारुणा ॥५॥

युक्ताश्चान्यैः पारमेष्ठयै श्चामरव्यजनादिभिः ।

विराजमानः पौलोम्या सहार्धासनया भृशम ॥६॥

स यदा परमाचार्यं देवानामात्मनश्च ह ।

नाभ्यनन्दत संप्राप्त प्रत्युत्थानासनादिभिः ॥७॥

वाचस्पतिं मुनिवंरं सुरासुरनमस्कृतम ।

नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम ॥८॥

ततो निर्गत्य सहसा कविरागिरस प्रभुः ।

आययौ स्वगृहं तूष्णीं विद्वन श्रीमदविक्रियाम ॥९॥

तर्ह्रोव प्रतिबुध्येन्द्रो गुरुहेलनमात्मनः ।

गर्हयामास सदासि स्वयमात्मानमात्मना ॥१०॥

अहो बत ममासाधु कृतं वैदभ्रबुद्धिना ।

यन्मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः ॥११॥

को गृध्येत पण्डितो लक्ष्मीं त्रिविष्टपपतेरपि ।

ययाहमासुरं भावं नीतोऽद्य विबुधेश्वरः ॥१२॥

ये पारमेष्ठां धिषणमधितिष्ठन न कंचन ।

प्रत्युत्तिष्ठेदिति ब्रुयुर्धर्मं ते न परं विदुः ॥१३॥

तेषां कूपथदेष्टाणां पततां तमासि ह्याधः ।

ये श्रद्धर्वचस्ते वै मज्जन्त्यश्मप्लवा इव ॥१४॥

अथाहममराचार्यमगाधधिषणं द्विजम ।

प्रसादयिष्ये निशठः शीर्ष्णा तच्चरणं स्पृशन ॥१५॥

एवं चिन्तयतस्तस्य मघोनो भगवान गृहात ।

बृहस्पतिर्गतोऽदृष्टा गतिमध्यात्ममायया ॥१६॥

गोरोर्नाधिगतः संज्ञं परिक्षन भगवान स्वराट ।

ध्यायन धिया सुरैर्युक्तः शर्म नालभतात्मनः ॥१७॥

तच्छुत्वैवासुराः सर्व आश्रित्यौशनसं मतम ।

देवान प्रत्युद्यामं चक्रुर्दुर्मदा आततायिनः ॥१८॥

तैर्विसृष्टोषुभिस्तीक्ष्णैर्निर्भिन्नागोंरुबाहवः ।

ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः ॥१९॥

तांस्तथाभ्यार्दितान वीक्ष्य भगवानात्मभुरजः ।

कृपया परया देव उवाच परिसान्त्वयन ॥२०॥

ब्रह्मोवाच

अहो बत सुरश्रेष्ठा ह्याभद्रं वः कृतं महत ।

ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान्नभ्यनन्दत ॥२१॥

तस्यायमनयस्यासीत परेभ्यो वः पराभवः ।

प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यतसुराः ॥२२॥

मघवनद्विषतः पश्य प्रक्षीणान गुर्वतिक्रमात ।

सम्र्प्रत्युपचितान भुयः काय्वमाराध्य भक्तितः ।

आददीरन निलयनं ममापि भृगुदेवताः ॥२३॥

त्रिविष्टपं किं गणयन्त्यभेद्य मन्त्रा भृगुणामनुशिक्षितार्थाः ।

न विप्रहोगोविन्दगवीश्वराणां भवन्त्यभद्राणि नरेश्वराणाम ॥२४॥

तद विश्वरुपं भजताशु विप्रं तपस्विनं त्वाष्ट्रमथात्मवन्तम ।

सभाजितोऽर्थान स विधास्यते वो यदि क्षमिष्यध्वमुतास्य कर्म ॥२५॥

श्रीशुक उवाच

त एवमुदिता राजन ब्रह्माणा विगतज्वराः ।

ऋषिं त्वाष्ट्रमुपव्रज्य परिष्यज्येदमब्रुवन ॥२६॥

देवा ऊचुः

वयं तेऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते ।

कामः सम्पाद्यतां तात पितृणां समयोचितः ॥२७॥

पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम ।

अपि पुत्रवतां ब्रह्माण किमुत ब्रह्माचारिणाम ॥२८॥

आचार्यो ब्रह्माणो मुर्तिः पिता मुर्तिः प्रजापतेः ।

भ्राता मरुप्ततेर्मुर्तिर्माता साक्षात क्षितेस्तनुः ॥२९॥

दयाया भगिनी मुर्तिर्धर्मस्यात्मातिथिः स्वयम ।

अग्नेरभ्यागतो मुर्तिः सर्वभुतानि चात्मनः ॥३०॥

तस्मात पितृणामार्तानामर्ति परपराभवम ।

तपसानयंस्तात सन्देशं कर्तुमर्हसि ॥३१॥

वृणीमहे त्वोपाध्यायं ब्रहिष्ठं ब्राह्मणं गुरुम ।

यथात्र्जसा विजेष्यामः संपन्तांस्तव तेजसा ॥३२॥

न गर्हयन्ति ह्यार्थेषु यविष्ठांड्घ्रयभिवादनम ।

छन्दोभ्योऽन्यत्र न ब्रह्माण वयो ज्यैष्ठस्य कारनम ॥३३॥

ऋषिरुवाच

अभ्यार्थितः सुरगणैः पौरोहित्ये महातपाः ।

स विश्वरुपस्तानाह प्रसन्न श्लक्ष्णया गिरा ॥३४॥

विश्वरुप उवाच

विगर्हितं धर्मशीलैर्ब्रह्यावर्चौपव्ययम ।

कथं नु मद्विधो नाथा लोकेशैरभियाचितम ।

प्रत्याख्यास्यति तच्छिष्यः स एव स्वर्थ उच्यते ॥३५॥

अकित्र्चनांनां हि धनं शिल्लोत्र्छनं तेनेह निर्वर्तितसाधुसत्क्रियाः ।

कथं विगर्ह्यां नु करोम्यधीश्वराः पौरोधसं हृष्यति येन दुर्मतिः ॥३६॥

तथापि न प्रतिब्रुयां गुरुभिः प्रार्थितं कियत ।

भवतां प्रार्थितं सर्वं प्राणैरर्थेश्च साधये ॥३७॥

श्रीशुक उवाच

तेभ्य एवंक प्रतिश्रुत्य विश्वरुपो महातपाः ।

पौरोहित्यं वृतश्चक्ते परमेणा समाधिना ॥३८॥

सुरद्विषां श्रियं गुप्तामैशनस्यापि विद्यया ।

आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभुः ॥३९॥

यया गुप्तः सहस्त्राक्षो जिग्येऽसुरचमुर्विभुः ।

तां प्राह स महेन्द्राय विश्वरुप उदारधीः ॥४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे सप्तमोऽध्यायः (७ )

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP