TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
एकविंशत्यधिकशततमोऽध्यायः

विष्णुपर्व - एकविंशत्यधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


एकविंशत्यधिकशततमोऽध्यायः
अनिरुद्धस्य अपहरणेन रनिवासे शोकं, श्रीकृष्णस्य यादवानां च चिन्ता, गुप्तचराणां नियोजनम् तेषां विफलता च, नारदस्य आगमनं अनिरुद्धस्य समाचारनिवेदनं च, श्रीकृष्णेन गरुडस्य आवाहनं स्तवनं च, गरुडेन श्रीकृष्णस्य स्तुतिः, श्रीकृष्णस्य शोणितपुरं प्रस्थानम्

वैशम्पायन उवाच
ततोऽनिरुद्धस्य गृहे रुरुदुः सर्वयोषितः ।
प्रियं नाथमपश्यन्त्यः कुरर्य इव संघशः ॥१॥
अहो धिक्किमिदं नाथनाथे कृष्णे व्यवस्थिते ।
अनाथा इव संत्रस्ता रुदिमो भयपीडिताः ॥२॥
यस्येन्द्रप्रमुखा देवाः सादित्याः समरुद्गणाः ।
बाहुच्छायामुपाश्रित्य वसन्ति दिवि निर्वृताः ॥३॥
तस्योत्पन्नमिदं लोके भयदस्य महाभयम् ।
तस्यानिरुद्धः पौत्रस्तु वीरः केनापि नो हृतः ॥४॥
अहो नास्ति भयं नूनं तस्य लोके सुदुर्मतेः ।
वासुदेवस्य यः क्रोधमुत्पादयति दुःसहम् ॥५॥
व्यादितामास्य यो मृत्योर्दंष्ट्राग्रे परिवर्तते ।
स वासुदेवं समरे मोहादभ्युदियाद् रिपुः ॥६॥
इदमेवंविधं कृत्वा विप्रियं यदुपुङ्गवे ।
कथं जीवन् विमुच्येत साक्षादपि शचीपतिः ॥७॥
हतनाथाः स्म शोच्याः स्म वयं नाथं विना कृताः ।
विप्रयोगेण नाथस्य कृतान्तवशगाः कृताः ॥८॥
इत्येवं ता वदन्त्यश्च रुदन्त्यश्च पुनः पुनः ।
नेत्रजं वारि मुमुचुरशिवं परमाङ्गनाः ॥९॥
तासां बाष्पाम्बुपूर्णानि नयनानि चकाशिरे ।
सलिलेनाप्लुतानीव पङ्कजानि जलागमे ॥१०॥
तासामरालपक्ष्माणि राजयन्ति शुभानि च ।
रुधिरेणाप्लुतानीव नयनानि चकाशिरे ॥११॥
तासां हर्म्यतलस्थानां पूर्णं आसीन्महास्वनः ।
कुररीणामिवाकाशे रुदतीनां सहस्रशः ॥१२॥
ते श्रुत्वा निनदं घोरमपूर्वं भयमागतम् ।
उत्पेतुः सहसा स्वेभ्यो गृहेभ्यः पुरुषर्षभाः ॥१३॥
कस्मादेषोऽनिरुद्धस्य श्रूयते सुमहास्वनः ।
गृहे कृष्णाभिगुप्तानां कुतो नो भयमागतम् ॥१४॥
इत्येवमूचुस्तेऽन्योन्यं स्नेहविक्लवगद्गदा ।
अधर्षिता यथा सिंहा गुहाभ्य इव निःसृताः ॥१५॥
सन्नाहभेरी कृष्णस्य आहता महती तदा ।
यस्याः शब्देन ते सर्वे समागम्य च धिष्ठिताः ॥१६॥
किमेतदिति तेऽन्योन्यं समपृच्छन्त यादवाः ।
अन्योन्यस्य हि ते सर्वे यथावृत्तमवेदयन् ॥१७॥
ततस्ते बाष्पपूर्णाक्षाः क्रोधसंरक्तलोचनाः ।
निःश्वसन्तो व्यतिष्ठन्त यादवा युद्धदुर्मदाः ॥१८॥
तूष्णींभूतेषु सर्वेषु विपृथुर्वाक्यमब्रवीत् ।
कृष्णं प्रहरतां श्रेष्ठं निःश्वसन्तं मुहुर्मुहुः ॥१९॥
किमिदं चिन्तयाविष्टः पुरुषेन्द्र भवानिह ।
तव बाहुबलप्राणाः स्वास्थिताः सर्वयादवाः ॥२०॥
भवन्तमाश्रिताः कृष्ण संविभक्ताश्च सर्वशः ।
तथैव बलवाञ्शक्रस्त्वय्यावेश्य जयाजयौ ॥२१॥
सुखं स्वपिति निःशङ्कः कथं त्वं चिन्तयान्वितः ।
शोकसागरमक्षोभ्यं सर्वे ते ज्ञातयो गताः ॥२२॥
तान् मज्जमानानेकस्त्वं समुद्धर महाभुज ।
किमेवं चिन्तयाविष्टो न किंचिदपि भाषसे ॥२३॥
चिन्तां कर्तुं वृथा देव न त्वमर्हसि माधव ।
इत्येवमुक्तः कृष्णस्तु निःश्वस्य सुचिरं बहु ॥२४॥
प्राह वाक्यं स वाक्यज्ञो बृहस्पतिरिव स्वयम् ।
श्रीकृष्ण उवाच
विपृथो चिन्तयाविष्टो ह्येतत्कार्यमचिन्तयम् ॥२५॥
विचिन्तयंस्त्वहं चास्य कार्यस्य न लभे गतिम् ।
तथाहं भवताप्युक्तो नोत्तरं विदधे क्वचित् ॥२६॥
दाशार्हगणमध्येऽहं वदाम्यर्थवतीं गिरम् ।
शृणुध्वं यादवाः सर्वे यथाचिन्तान्वितो ह्यहम् ॥२७॥
अनिरुद्धे हृते वीरे पृथिव्यां सर्वपार्थिवाः ।
अशक्ता इति मंस्यन्ते सर्वानस्मान् सबान्धवान् ॥२८॥
आहुकश्चैव नो राजा हृतः शाल्वेन वै पुरा ।
प्रत्यानीतः स चास्माभिर्युद्धं कृत्वा सुदारुणम् ॥२९॥
प्रद्युम्नश्चापि नो बालः शम्बरेण हृतो ह्यभूत् ।
स तं निहत्य समरे प्राप्तो रुक्मिणिनन्दनः ॥३०॥
इदं तु सुमहत् कष्टं प्राद्युम्निः क्व प्रवासितः ।
एवंविधमहं दोषं न स्मरे मनुजर्षभाः ॥३१॥
भस्मना गुण्ठितः पादो येन मे मूर्ध्नि पातितः ।
तस्याहं सानुबन्धस्य हरिष्ये जीवितं रणे ॥३२॥
इत्येवमुक्ते कृष्णेन सात्यकिर्वाक्यमब्रवीत् ।
चाराः कृष्ण प्रणीयन्तामनिरुद्धस्य मार्गणे ।
सपर्वतवनोद्देशां मार्गन्तु वसुधामिमाम् ॥३३॥
आहुकं प्राह कृष्णस्तु स्मितं कृत्वा वचस्तदा ।
आभ्यन्तराश्च बाह्याश्च व्यादिश्यन्तां चरा नृप ॥३४॥
वैशम्पायन उवाच
केशवस्य वचः श्रुत्वा आहुकस्त्वरितोऽभवत् ।
अन्वेषणेऽनिरुद्धस्य स चारान् दिष्टवांस्तदा ॥३५॥
ततश्चारास्तु व्यादिष्टाः पार्थिवेन यशस्विना ।
हया रथाश्च व्यादिष्टाः पार्थिवेन महात्मना ।
अभ्यन्तरं च मार्गध्वं बाह्यतश्च समन्ततः ॥३६॥
वेणुमन्तं लताविष्टं तथा रैवतकं गिरिम् ।
ऋक्षवन्तं गिरिं चैव मार्गध्वं त्वरिता हयैः ॥३७॥
एकैकं तत्र चोद्यानं मार्गध्वं काननानि च ।
यातव्यं चापि निःशङ्कमुद्यानानि समन्ततः ॥३८॥
हयानां च सहस्राणि रथानां चाप्यनेकशः ।
आरुह्य त्वरिताः सर्वे मार्गध्वं यदुनन्दनम् ॥३९॥
सेनापतिरनाधृष्टिरिदं वचनमब्रवीत् ।
कृष्णमक्लिष्टकर्माणमच्युतं भीतभीतवत् ॥४०॥
शृणु कृष्ण वचो मह्यं रोचते यदि ते प्रभो ।
चिरात् प्रभृति मे वक्तुं भवन्तं जायते मतिः ॥४१॥
असिलोमा पुलोमा च निसुन्दनरकौ हतौ ।
सौभः शाल्वश्च निहतौ मैन्दो द्विविद एव च ॥४२॥
हयग्रीवश्च सुमहान् सानुबन्धस्त्वया हतः ।
तादृशे विग्रहे वृत्ते देवहेतोः सुदारुणे॥४३॥
सर्वाण्येतानि कर्माणि निःशेषाणि रणे रणे ।
कृतवानसि गोविन्द पार्ष्णिग्राहश्च नास्ति ते ॥४४॥
इदं कर्म त्वया कृष्ण सानुबन्धं महत् कृतम् ।
पारिजातस्य हरणे यत् कृतं कर्म दुष्करम् ॥४५॥
तत्र शक्रस्त्वया कृष्ण ऐरावतशिरोगतः ।
निर्जितो बाहुवीर्येण त्वया युद्धविशारदः ॥४६॥
तेन वैरं त्वया सार्ध कर्तव्यं नात्र संशयः ।
वैरानुबन्धश्च महांस्तेन कार्यस्त्वया सह॥४७॥
तत्रानिरुद्धहरणं कृतं मघवता स्वयम् ।
न ह्यन्यस्य भवेच्छक्तिर्वैरनिर्यातनं प्रति ॥४८॥
इत्येवमुक्ते वचने कृष्णो नाग इव श्वसन् ।
उवाच वचनं धीमाननाधृष्टिं महाबलम् ॥४९॥
सेनानीस्तात मा मैवं न देवाः क्षुद्रकर्मिणः ।
नाकृतज्ञा न च क्लीबा नावलिप्ता न बालिशाः॥ ॥५०॥
देवतार्थं च मे यत्नो महान् दानवसंक्षये ।
तेषां प्रियार्थं च रणे हन्मि दृप्तान् महाबलान् ॥५१॥
तत्परस्तन्मनाश्चास्मि तद्भक्तस्तत्प्रिये रतः ।
कथं पापं करिष्यन्ति विज्ञायैवंविधं हि माम् ॥५२॥
अक्षुद्राः सत्यवन्तश्च नित्यं भक्तानुकम्पिनः ।
तेभ्यो न विद्यते पापं बालिशत्वात् प्रभाषसे ॥५३॥
कदाचिदिह पुंश्चल्या अनिरुद्धो हृतो भवेत् ।
देवेषु समहेन्द्रेषु नैतत् कर्म विधीयते ॥५४॥
वैशम्पायन उवाच
एवं चिन्तयमानस्य कृष्णस्याद्भुतकर्मणः ।
कृष्णस्य वचनं श्रुन्वा ततोऽक्रूरोऽब्रवीद् वचः ॥५५॥
मधुरं श्लक्ष्णया वाचा अर्थवाक्यविशारदः ।
यच्छक्रस्य प्रभो कार्यं तदस्माकं विनिश्चितम् ॥५६॥
अस्माकं चापि यत्कार्यं तद्धि कार्यं शचीपतेः ।
संरक्ष्याश्च वयं देवैरस्माभिश्चापि देवताः ।
देवतार्थं वयं चापि मानुषत्वमुपागताः ॥५७॥
एवमक्रूरवचनैश्चोदितो मधुसूदनः ।
स्निग्धगम्भीरया वाचा पुनः कृष्णोऽभ्यभाषत॥५८॥
नायं देवैर्न गन्धर्वैर्न यक्षैर्न च राक्षसैः ।
प्रद्युम्नपुत्रोऽपहृतः पुंश्चल्या नु महायशः ॥५९॥ ।
मायाविदग्धाः पुंश्चल्यो दैत्यदानवयोषितः ।
ताभिर्हृतो न संदेहो नान्यतो विद्यते भयम् ॥६०॥
वैशम्पायन उवाच
इत्येवमुक्ते वचने कृष्णेन तु महात्मना ।
अथावगम्य तत्त्वेन यद् भूतं यदुमण्डले ।
उदतिष्ठन्महानादस्तदा कृष्णं प्रशंसयन् ॥६१॥
हर्षयन् स तु सर्वेषां सूतमागधबन्दिनाम् ।
मधुरः श्रूयते घोषो यादवस्य निवेशने ॥६२॥
ते चाराः सर्वतः सर्वे सभाद्वारमुपागताः ।
शनैर्गद्गदया वाचा इदं वचनमब्रुवन् ॥६३॥
उद्यानानि गुहाः शैलाः सभा नद्यः सरांसि च ।
एकैकं शतशो राजन् मार्गितं न च दृश्यते ॥६४॥
अन्ये कृष्णं चरा राजन्नुपागम्य तदाब्रुवन् ।
सर्वे नो विदिता देशाः प्राद्युम्निर्न च दृश्यते ॥६५॥
यदन्यत् संविधातव्यं विधानं यदुनन्दन ।
तदाज्ञापय नः क्षिप्रमनिरुद्धस्य मार्गणे ॥६६॥
ततस्ते दीनमनसः सर्वे बाष्पाकुलेक्षणाः ।
अन्योन्यमभ्यभाषन्त किमतः कार्यमुत्तमम् ॥६७॥
संदष्टौष्ठपुटाः केचित्केचिद् बाष्पाकुलेक्षणाः ।
केचिद् भ्रकुटिमास्थाय चिन्तयन्त्यर्थसिद्धये ॥६८॥
एवं चिन्तयतां तेषां बह्वर्थमभिभाषितम् ।
अनिरुद्धः कुतश्चेति सम्भ्रमः सुमहानभूत् ॥६९॥
अन्योन्यमभिवीक्षन्ते यादवा जातमन्यवः ।
तां निशां विमनस्कास्ते गमयेयुः कथंचन ।
अनिरुद्धो हृतश्चेति पुनः पुनररिंदम ॥७०॥
एवं च ब्रुवतां तेषां प्रभाता रजनी तदा ।
ततस्तूर्यनिनादैश्च शङ्खानां च महास्वनैः ।
प्रबोधनं महाबाहोः कृष्णस्याक्रियतालये ॥७१॥
ततः प्रभाते विमले प्रादुर्भूते दिवाकरे ।
प्रविवेश सभामेको नारदः प्रहसन्निव ॥७२॥
दृष्ट्वा तु यादवान् सर्वान् कृष्णेन सह संगतान् ।
ततः स जयशब्देन माधवं प्रत्यपूजयत्॥७३॥
उग्रसेनादयस्ते च तमृषिं प्रत्यपूजयन् ।
अथाभ्युत्थाय विमनाः कृष्णः समितिदुर्जयः ।
मधुपर्कं च गां चैव नारदाय ददौ प्रभुः ॥७४॥
सोपविश्यासने शुभ्रे सर्वास्तरणसंवृते ।
सुखासीनो यथान्यायमुवाचेदं वचोऽर्थवत् ॥७५॥
नारद उवाच
किमेवं चिन्तयाविष्टा निःसङ्गा गतमानसाः ।
उत्साहहीनाः सर्वे वै क्लीबा इव समासते ॥७६॥
इत्येवमुक्ते वचने नारदेन महात्मना ।
वासुदेवोऽब्रवीद् वाक्यं श्रूयतां भगवन्निदम् ॥७७॥
अनिरुद्धो हृतो ब्रह्मन् केनापि निशि सुव्रत ।
यस्यार्थे सर्व एवास्म चिन्तयाविष्टचेतसः॥७८॥
एष ते यदि वृत्तान्तः श्रुतो दृष्टोऽपि वा मुने ।
भगवन् कथ्यतां साधु प्रियमेतन्ममानघ ॥७९॥
इत्येवमुक्ते वचने केशवेन महात्मना ।
प्रहस्यैतद् वचः प्राह श्रूयतां मधुसूदन ॥८०॥
निर्वृत्तं सुमहद् युद्धं देवासुरसमं महत् ।
अनिरुद्धस्य चैकस्य बाणस्यापि महामृधे ॥८१॥
उषा नाम सुता तस्य बाणस्याप्रतिमौजसः ।
तस्यार्थे चित्रलेखा वै जहाराशु तमप्सराः ॥८२॥
उभयोरपि तत्रासी महायुद्धं सुदारुणम् ।
प्राद्युम्निबाणयोः संख्ये वलिवासवयोरिव ॥८३॥
अस्माभिश्चापि तद् युद्धं दृष्टं सुमहदद्भुतम् ।
अनिरुद्धो भयात् तेन संयुगेष्वनिवर्तिना ॥८४॥
बाणेन मायामास्थाय बद्धो नागैर्महाबलः ।
व्यादिष्टस्तु वधस्तस्य बाणेन गरुडध्वज ॥८५॥
तं निवारितवान् मन्त्री कुम्भाण्डो नाम तस्य ह ।
कुमारस्यानिरुद्धस्य तेनासक्तेन संयुगे ॥८६॥
बाणेन मायामास्थाय सर्पैर्नियमनं कृतम् ।
उत्तिष्ठतु भवाञ्छीघ्रं यशसे विजयाय च ॥८७॥
नायं संरक्षितुं कालः प्राणांस्तात जयैषिणाम् ।
प्राणैः किंचिद्गतैर्वीरो धैर्यमालम्ब्य तिष्ठति ॥८८॥
वैशम्पायन उवाच
इत्येवमुक्ते वचने वासुदेवः प्रतापवान् ।
प्रायात्रिकान् वै सम्भारानाज्ञापयत वीर्यवान् ॥८९॥
ततश्चन्दनचूर्णैश्च लाजैश्चैव समन्ततः ।
निर्ययौ स महाबाहुः कीर्यमाणो जनार्दनः ॥९०॥
नारद उवाच
स्मरणं वैनतेयस्य कर्तुमर्हसि माधव ।
न ह्यन्येन तदध्वानं शक्यं गन्तुं महाभुज ॥९१॥
आकर्णय तमध्वानं गन्तव्यमतिदुर्जयम् ।
एकादश सहस्राणि योजनानां जनार्दन ॥९२॥
तदितः शोणितपुरं प्राद्युम्निर्यत्र साम्प्रतम् ।
मनोजवो महावीर्यो वैनतेयः प्रतापवान् ॥९३॥
समाह्वयस्व गोविन्द स हि त्वां तत्र नेष्यति ।
एकेन सुमुहूर्तेन बाणं संदर्शयिष्यति ॥९४॥
वैशम्पायन उवाच
तस्य तद् वचनं श्रुत्वा सस्मार गरुडं तदा ।
स कृष्णपार्श्वमागम्य प्राञ्जलिर्गरुडः स्थितः ॥९५॥
प्रणम्याथ वचः प्राह वैनतेयो महाबलः ।
वासुदेवं महात्मानं श्लक्ष्णं मधुरया गिरा ॥९६॥
गरुड उवाच
पद्मनाभ महाबाहो किमर्थं संस्मृतो ह्यहम् ।
कृत्यं ते यदिहात्रास्ति श्रोतुमिच्छामि तत्त्वतः॥९७॥
फस्य पक्षपरिक्षेपैर्नाशयामि पुरीं प्रभो ।
प्रभावात्तव गोविन्द को न विद्याद् बलं मम ॥९८॥
गदावेगं च ते वीर चक्राग्निं च महाभुज ।
नावबुध्यति मूढात्मा को दर्पान्नाशमेष्यति ॥९९॥
हलं सिंहमुखं कस्य वनमाली नियोक्ष्यति ।
कस्य देहस्तु निर्भिन्नो मेदिनीं यास्यति प्रभो ॥१००॥
कस्य शङ्खरवैः प्राणान् मोहयिष्यसि माधव ।
कोऽयं सपरिवारोऽद्य यास्यते यमसादनम् ॥१०१॥
एवमुक्ते तु वचने वैनतेयेन धीमता ।
वासुदेवो वचः प्राह शृणु त्वं वदतां वर॥१०२॥
बलेः पुत्रेण बाणेन प्राद्युम्निरपराजितः ।
उषायाः कारणे बद्धो नगरे शोणिताह्वये ।
अनिरुद्धस्तु कामार्तो बद्धो नागैर्विषोल्बणैः॥१०३॥
तस्य मोक्षार्थमाहूतो मया त्वं पतगेश्वर ।
तव वेगसमो नास्ति पक्षिणां प्रवरो भवान् ।
अशक्यं च तदध्वानं गन्तुमन्येन काश्यप ॥१०४॥
तत्र प्रापय मां शीघ्रं यत्र प्राद्युम्निरावसत् ।
वैदर्भी ते स्नुषा वीर रुदती पुत्रगृद्धिनी ॥१०५॥
अमृतं तु हृतं पूर्व त्वया पन्नगनाशन ॥१०६॥
मया सह समागम्य तस्मिन् काले महाभुज ।
अभवन्मे ध्वजश्चैव त्वद्भक्ताः सर्ववृष्णयः ।
सखित्वं मानयस्वाद्य भक्तिं च पतगेश्वर ॥१०७॥
तव वेगसमो नास्ति पक्षिणो न च ते समाः ।
सुपर्ण सुकृतेन त्वां शपे पन्नगनाशन ॥१०८॥
दासीभावं गता माता मोक्षितैकाकिना पुरा ।
पक्षविक्षेपमात्रेण हता योधास्त्वया पुरा ॥१०९॥
भवान् सुरगणान् सर्वान् पृष्ठमारोप्य विक्रमात् ।
गच्छ मे ह्यगमान् देशान् विजयश्च तवाश्रयात् ॥११०॥
गुरुत्वान्मेरुतुल्यस्त्वं लघुत्वात् पवनोपमः ।
भूते भव्ये भविष्ये च न ते तुल्योऽस्ति विक्रमे॥१११॥
सत्यसंध महाभाग वैनतेय महाद्युते ।
अनिरुद्धेक्षणेनाद्य साहाय्यमुपकल्प्यताम् ॥१ १२॥
गरुड उवाच
अत्यद्भुतमिदं वाक्यं तव कृष्ण महाभुज ।
त्वत्प्रसादाच्च विजयः सर्वत्रैव महाभुज ॥११३॥
धन्योऽस्म्यनुगृहीतोऽस्मि संस्तवान्मधुसूदन ।
स्तोतव्यस्त्वं मया कृष्ण स्तौषि मां त्वं महाभुज॥११४॥
वेदाध्यक्षः सुराध्यक्षः सर्वकामप्रदो भवान् ।
अमोघदर्शनस्त्वं हि वरार्थिषु वरप्रदः ॥११५॥
चतुर्भुजश्चतुर्मूर्तिश्चातुर्होत्रप्रवर्तकः ।
चातुराश्रम्यहोता च चतुर्नेता महाकविः ॥११६॥
धनुर्धरश्चक्रधरो भवाञ्छङ्खधरो महान् ।
भवान् पूर्वेषु देहेषु ख्यातो भूमिधरः प्रभो॥१ १७॥
लाङ्गली मुसली चक्री देवकीतनयो भवान् ।
चाणूरमथनश्चैव गोप्रियः कंसहा भवान् ॥११८॥
गोवर्धनधरश्चैव मल्लारिर्मल्लभावनः ।
मल्लप्रियो महामल्लो महापुरुष इत्यपि ॥११९॥
विप्रप्रियो विप्रदितो विप्रज्ञो विप्रभावनः ।
ब्रह्मण्यश्च वरेण्यश्च भवान् दामोदरः स्मृतः ।
प्रलम्बमथनश्चैव केशिहा दानवान्तकः ॥१२०॥
असिलोम्नश्च हन्ता च तथा रावणनाशनः ।
विभीषणस्य भगवान् राज्यदो वालिनाशनः ॥१२१॥
सुग्रीवराज्यदाता त्वं बलिराज्यापहारकः ।
रत्नहर्ता महारत्नं समुद्रोदरसम्भवम् ॥१२२॥
वरुणश्च भवान् ख्यातो भवांश्च सरिदुद्भवः ।
भवान् खङ्गधरो धन्वी धनुर्धरवरो महान् ॥१२३॥
दाशार्ह इति विख्यातो महाधन्वा धनुःप्रियः ।
गोविन्द इति विख्यात उदधिस्त्वं च सुव्रत ॥१२४॥
आकाशश्च तपश्चैव समुद्रमथनो भवान् ।
भवान् स्वर्गो बहुफलो भवान्स्वर्गचरो महान् ॥१२५॥
त्वमेव च महामेघो बीजनिष्पत्तिरेव च ।
त्रैलोक्यमथनस्त्वं च क्रोधलोभमनोरथः ॥१२६॥
भवान् कामप्रदश्चैव कामः सर्वधनुर्धरः ।
संवर्तो वर्तनश्चैव प्रलयो निलयो महान् ॥१२७॥
हिरण्यगर्भो रूपज्ञो रूपवान् मधुसूदनः ।
ईशस्त्वं च महादेव असंख्येयगुणान्वितः ॥१९८ ।
स्तोतुमिच्छसि मां देव स्तोतव्यस्त्वं यदूत्तम ।
चक्षुषा ये त्वया घोराः प्राणिनो हि निरीक्षिताः ॥१२९॥
हतास्ते यमदण्डेन तिर्यङ्निरयगामिनः ।
ये त्वया परमप्रीत्या प्राणिनो वै निरीक्षिताः ॥१३०॥
इह च प्रेत्य ते सर्वे सर्वथा स्वर्गगामिनः ।
एष तेऽहं महाबाहो वशगः शासने स्थितः ॥१३१॥
जयस्थानं ततः कृत्वा गरुडः प्राह केशवम् ।
अयमस्मि स्थितो वीर आरुहस्व महाबल ॥१३२॥
ततः कण्ठे परिष्वज्य माधवो गरुडं ततः ।
सखे शत्रुविनाशाय अर्घ्योऽयं प्रतिगृह्यताम्॥१३३॥
दत्त्वार्घ्यं परया प्रीत्या शङ्खचक्रगदासिभृत् ।
आरुरोह महाबाहुः सुपर्णं पुरुषोत्तमः ॥१३४॥
कृष्णस्य पार्श्वमागम्य हर्षादेवास्थितोऽभवत् ।
कृष्णकेशः प्रवलयो विष्णुः कृष्णश्च वर्णतः ॥१३५॥
चतुर्दंष्ट्रश्चतुर्बाहुश्चतुर्वेद षडङ्गवित् ।
श्रीवत्साङ्कोऽरविन्दाक्ष ऊर्ध्वरोमा मृदुत्वचः ॥१३६॥
समाङ्गुलिः समनस्रो रक्ताङ्गुलिनखान्तरः ।
स्निग्धगम्भीरनिर्घोषो वृत्तबाहुर्महाभुजः॥१३७॥
आजानुबाहुस्ताम्रास्यः सिंहविस्पष्टविक्रमः ।
सहस्रमिव सूर्याणां दीप्यमानः प्रकाशते ॥१३८ ।
यः प्रभुर्भाति विश्वात्मा भूतानां भावनो विभुः ।
यस्याष्टगुणमैश्वर्यं ददौ प्रीतः प्रजापतिः ॥१३९॥
प्रजापतीनां साध्यानां त्रिदशानां च शाश्वतः ।
स्तूयमानः स्तवैर्दिव्यैः सूतमागधबन्दिभिः ।
ऋषिभिश्च महाभागैर्वेदवेदाङ्गपारगैः ॥१४०॥
संविधानमथाज्ञाप्य द्वारकायां महाबलः ।
गमनाय मतिं चक्रे वासुदेवः प्रतापवान् ॥१४१॥
आस्थितो गरुडं देवस्तस्य चानु हलायुधः ।
पृष्ठतोऽनु बलस्यापि प्रद्युम्नः शत्रुकर्षणः ॥१४२॥
जय बाणं महाबाहो ये चास्यानुगता रणे ।
न हि ते प्रमुखे स्थातुं कश्चिच्छक्तो महामृधे ॥१४३॥
प्रसादे ते ध्रुवा लक्ष्मीर्विजयश्च पराक्रमे ।
विजेष्यसि रणे शत्रुं दैत्येन्द्रं सहसैनिकम् ॥१४४॥
सिद्धचारणसंघानां महर्षीणां च सर्वशः ।
शृण्वन्वाचोऽन्तरिक्षे वै प्रययौ केशवो रणे ॥१४५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कृष्णप्रयाणे एकविंशत्यधिकशततमोऽध्यायः ॥१२१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-19T16:12:42.0930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दु:संग

  • m  Evil association or connection; bad company. 
RANDOM WORD

Did you know?

Why the marriages are prohibited within same Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.