TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
द्वाविंशत्यधिकशततमोऽध्यायः

विष्णुपर्व - द्वाविंशत्यधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


द्वाविंशत्यधिकशततमोऽध्यायः
वैशम्पायन उवाच
ततस्तूर्यनिनादैश्च शङ्खानां च महास्वनैः ।
बन्दिमागधसूतानां स्तवैश्चापि सहस्रशः ॥१॥
स तून्मुखैर्जयाशीर्भिः स्तूयमानो हि मानवैः ।
बभार रूपं सोमार्कशुक्राणां प्रतिमं तदा ॥२॥
अतीव शुशुभे रूपं व्योम्नि तस्योत्पतिष्यतः ।
वैनतेयस्य भद्रं ते बृंहितं हरितेजसा ॥३॥
अथाष्टबाहुः कृष्णस्तु पर्वताकारसंनिभः ।
विबभौ पुण्डरीकाक्षो विकाङ्क्षन् बाणसंक्षयम् ॥४॥
असिचक्रगदाबाणा दक्षिणं पार्श्वमास्थिताः ।
चर्म शार्ङ्गं तथा वज्रं शङ्खं चैवास्य वामतः ॥५॥
शीर्षाणां वै सहस्रं तु विहितं शार्ङ्गधन्वना ।
सहस्रं चैव कायानां वहन् संकर्षणस्तदा ॥६॥
श्वेतप्रहरणोऽधृष्यः कैलास इव शृङ्गवान् ।
प्रस्थितो गरुडेनाथ उद्यन्निव निशाकरः ॥७॥
सनत्कुमारस्य वपुः प्रादुरासीन्महात्मनः ।
प्रद्युम्नस्य महाबाहोः संग्रामे विक्रमिष्यतः॥८॥
स पक्षबलविक्षेपैर्विधुन्वन् पर्वतान् बहून् ।
जगाम मार्गे बलवान् वातस्य प्रतिषेधयन् ॥९॥
अथ वायोरतिगतिमास्थाय गरुडस्तदा ।
सिद्धचारणसंघानां शुभं मार्गमवातरत् ॥१०॥
अथ रामोऽब्रवीद् वाक्यं कृष्णमप्रतिमं रणे ।
स्वाभिः प्रभाभिर्हीनाः स्म कृष्ण कस्मादपूर्ववत् ॥११॥
सर्वे कनकवर्णाभाः संवृत्ताः स्म न संशयः ।
किमिदं ब्रूहि नस्तत्त्वं किं मेरोः पार्श्वगा वयम् ॥१२॥
श्रीभगवानुवाच
मन्ये बाणस्य नगरमभ्यासस्थमरिंदम ।
रक्षार्थं तस्य निर्यातो वह्निरेष स्थितो ज्वलन् ॥१३॥
अग्नेराहवनीयस्य प्रभया स्म समाहताः ।
तेन नो वर्णवैरूप्यमिदं जातं हलायुध ॥१४॥
श्रीराम उवाच
यदि स्म संनिकर्षस्था यदि निष्प्रभतां गताः ।
तद् विधत्स्व स्वयं बुद्ध्या यदत्रानन्तरं हितम् ॥१५॥
श्रीभगवानुवाच
कुरुष्व वैनतेय त्वं यच्च कार्यमनन्तरम् ।
त्वया विधाने विहिते करिष्याम्यहमुत्तमम् ॥१६॥
वैशम्पायन उवाच
एतच्छ्रुत्वा तु गरुडो वासुदेवस्य भाषितम् ।
चक्रे मुखसहस्रं हि कामरूपी महाबलः ॥१७॥
गङ्गामुपागमत् तूर्णं वैनतेयो महाबलः ।
आप्लुत्याकाशगङ्गायामापीय सलिलं बहु ॥१८॥
प्रववर्षोपरि गतो वैनतेयः प्रतापवान् ।
तेनाग्निं शमयामास बुद्धिमान् विनतात्मजः ॥१९॥
अग्निराहवनीयस्तु ततः शान्तिमुपागमत् ।
तं दृष्ट्वाहवनीयं तु शान्तमाकाशगङ्गया ।
परमं विस्मयं गत्वा सुपर्णो वाक्यमव्रवीत् ॥२०॥
अहो वीर्यमथाग्नेस्तु यो दहेद् युगसंक्षये ।
यथेह वर्णवैरूप्यं चक्रे कृष्णस्य धीमतः ॥२१॥
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ।
कृष्णः संकर्षणश्चैव प्रद्युम्नश्च महाबलः॥२२॥
ततः प्रशान्ते दहने सम्प्रतस्थे स पक्षिराट् ।
स्वपक्षबलविक्षेपं कुर्वन् घोरं महास्वनम् ॥२३॥
तं दृष्ट्वा विस्मयं तत्र रुद्रस्यानुचराग्नयः ।
आस्थिता गरुडं ह्येते नानारूपा भयावहाः ॥२४॥
किमर्थमिह सम्प्राप्ताः के वापीमे जनास्त्रयः ।
निश्चयं नाधिगच्छन्ति ते गिरिव्रजवह्नयः ॥२५॥
प्रावर्तयंश्च संग्रामं तैस्त्रिभिः सह यादवैः ।
तेषां युद्धप्रसक्तानां संनादः सुमहानभूत् ॥२६॥
तं च श्रुत्वा महानादं सिंहानामिव गर्जताम् ।
अथाङ्गिराः स्वपुरुषं प्रेषयामास बुद्धिमान्॥२७॥
यत्र तद् वर्तते युद्धं तत्र गच्छस्व मा चिरम्॥
दृष्ट्वा तत् सर्वमागच्छ इत्युक्तः प्रहितस्त्वरन्॥२८॥
तथेत्युक्त्वा स तद् युद्धं वर्तमानमवैक्षत ।
अग्नीनां वासुदेवेन संसक्तानां महामृधे ॥२९॥
ते जातवेदसः सर्वे कल्माषः कुसुमस्तथा ।
दहनः शोषणश्चैव तपनश्च महाबलः ॥३०॥
स्वाहाकारस्य विषये प्रख्याताः पञ्च वह्नयः ।
अथापरे महाभागाः स्वैरनीकैर्व्यवस्थिताः॥३१॥
पिठरः पतगः स्वर्णः श्वागाधो भ्राज एव च ।
स्वधाकाराश्रयाः पञ्च अयुध्यंस्तेऽपि चाग्नयः ॥३२॥
ज्योतिष्टोमविभागौ च वषटकाराश्रयौ पुनः ।
द्वावग्नी सम्प्रयुध्येते महात्मानौ महाद्युती ॥३३॥
आग्नेयं रथमास्थाय शरमुद्यम्य भास्वरम् ।
तयोर्मध्येऽङ्गिराश्चैव महर्षिर्विबभौ रणे ॥३४॥
स्थितमङ्गिरसं दृष्ट्वा विमुञ्चन्तं शिताञ्छरान् ।
कृष्णः प्रोवाच संक्रुद्धः स्मयन्निव पुनः पुनः ॥३५॥
तिष्ठध्वमग्नयः सर्वे एष वो विदधे भयम् ।
ममास्त्रतेजसा दग्धा दिशो यास्यथ विद्रुताः ।
अथाङ्गिरास्त्रिशूलेन दीप्तेन समधावत ॥३६॥
आददान इव क्रोधात्कृष्णप्राणान् महामृधे ।
त्रिशूलं तस्य दीप्तं तु चिच्छेद परमेषुभिः ।
अर्धचन्द्रैस्तथा तीक्ष्णैर्यमान्तकनिभोपमैः ॥३७॥
स्थूणाकर्णेन बाणेन दीप्तेन स महामनाः ।
विव्याधान्तकतुल्येन वक्षस्यङ्गिरसं ततः ॥३८॥
रुधिरौघप्लुतैर्गात्रैरङ्गिरा विह्वलन्निव ।
विष्टब्धगात्रः सहसा पपात धरणीतले ॥३९॥
शेषास्ततोऽग्नयः सर्वे चत्वारो ब्रह्मणः सुताः॥
आवाहयंस्तदा शीघ्रं बाणस्य पुरमन्तिकात्॥४०॥
अथागमत् ततः कृष्णो यत्र बाणपुरं ततः ।
अथ बाणपुरं दृष्ट्वा दूरात् प्रोवाच नारदः ॥४१॥
एतत् तच्छोणितपुरं कृष्ण पश्य महाभुज ।
अत्र रुद्रो महातेजा रुद्राण्या सहितोऽवसत् ॥४२॥
गुहश्च बाणगुप्त्यर्थं सततं क्षेमकारणात् ।
नारदस्य वचः श्रुत्वा कृष्णः सम्प्रहसन् ब्रवीत् ॥४३॥
क्षणं चिन्तयतामत्र श्रूयतां च महामुने ।
यदि वावतरेद् रुद्रो बाणसंरक्षणं प्रति ॥४४॥
शक्तितो वयमप्यत्र सह योत्स्याम तेन वै ।
एवं विवदतोस्तत्र कृष्णनारदयोस्तदा ॥४५॥
प्राप्ता निमेषमात्रेण शीघ्रगा गरुडेन ते ।
ततः शङ्खं समाधाय वदने पुष्करेक्षणः ॥४६॥
वायुवेगसमुद्भूतो मेघश्चन्द्रमिवोद्गिरन् ।
ततः प्रध्माप्य तं शङ्खं भयमुत्पाद्य वीर्यवान् ॥४७॥
प्रविवेश पुरं कृष्णो बाणस्याद्भुतकर्मणः ।
ततः शङ्खप्रणादैश्च भेरीणां च महास्वनैः ॥४८॥
बाणानीकानि सहसा संनह्यन्त समन्ततः ।
ततः किंकरसैन्यं तु व्यादिष्टं समरे भयात् ॥४९॥
कोटिशश्चापि बहुशो दीप्तप्रहरणास्तदा ।
तदसंरुयेयमेकस्थं महाभ्रघनसंनिभम् ॥५०॥
नीलाञ्जनचयप्रख्यमप्रमेयमथाक्षयम् ।
दीप्तप्रहरणाः सर्वे दैत्यदानवराक्षसाः ॥५१॥
प्रमाथगणमुख्याश्च अयुध्यन् कृष्णमव्ययम् ।
सर्वतस्तैः प्रदीप्तास्त्रैः सार्चिष्मद्भिरिवाग्निभिः ॥५२ ।
अभ्युपेत्य तदात्युग्रैर्यक्षराक्षसकिन्नरैः ।
पीयते रुधिरं तेषां चतुर्णामपि संयुगे॥५३॥
तद् बलं तु समासाद्य बलभद्रो महाबलः ।
प्रोवाच वचनं तत्र परस्य बलनाशनः ॥५४॥
कृष्ण कृष्ण महाबाहो विधत्स्वैषां महद् भयम् ।
इति संचोदितः कृष्णो बलभद्रेण धीमता ॥५५॥
तेषां वधार्थमाग्नेयं जग्राह पुरुषोत्तमः ।
अस्त्रमस्त्रविदां श्रेष्ठो यमान्तकसमप्रभः ।
प्रविधूयासुरगणान् क्रव्यादानस्त्रतेजसा ॥५६॥
प्रययौ त्वरया युक्तो यत्र दृश्येत तद् बलम् ।
शूलपट्टिशशक्त्यृष्टिपिनाकपरिघायुधम् ॥५७॥
प्रमाथगणभूयिष्ठं बलं तदभवत् क्षितौ ।
शैलमेघप्रतीकाशैर्नानारूपैर्भयानकैः ।
वाहनैः संघशः सर्वे योधास्तत्रावतस्थिरे ॥५८॥
वातोद्भूतैरिव घनैर्विप्रकीर्णैरिवाचलैः ।
शुशुभे तत्र बहुलैरनीकैर्दृढधन्विभिः ॥५९॥
मुसलैरसिभिः शूलैर्गदाभिः परिघैस्तथा ।
अबाधं तदसंख्येयं शुशुभे सर्वतो बलम् ॥६०॥
ततः संकर्षणो देवमुवाच मधुसूदनम् ।
कृष्ण कृष्ण महाबाहो यदेतद् दृश्यते बलम् ।
श्रीकृष्ण उवाच ममाप्येषैव संजाता बुद्धिरित्यब्रवीच्च तम् ।
एतैः सह रणे योद्धुमिच्छामि पुरुषोत्तम ॥६१॥
ममाप्येषैव संजाता बुद्धिरित्यब्रवीच्च तम् ।
एभिः सह रणे योद्धुमिच्छेयं योधसत्तमैः॥६२॥
युद्ध्यतः प्राङ्मुखस्यास्तु सुपर्णो वै ममाग्रतः ।
सव्यपार्श्वे तु प्रद्युम्नस्तथा मे दक्षिणे भवान् ।
रक्षितव्यमथान्योन्यमस्मिन् घोरे महामृधे ॥६३॥
वैशम्पायन उवाच
एवं ब्रुवन्तस्तेऽन्योन्यमधिरूढाः खगोत्तमम् ।
गिरिशृँङ्गनिभैर्घोरैर्गदामुसललाङ्गलैः॥६४॥
युध्यतो रौहिणेयस्य रौद्रं रूपमभूत् तदा ।
युगान्ते सर्वभूतानां कालस्येव दिधक्षतः ॥६५॥
आकृष्य लाङ्गलाग्रेण मुसलेनावपोथयत् ।
चचारातिबलो रामो युद्धमार्गविशारदः ॥६६॥
प्रद्युम्नः शरजालैस्तान् समन्तात् पर्यवारयत् ।
दानवान्पुरुषव्याघ्रो युद्धयमानान्महाबलः ॥६७॥
स्निग्धाञ्जनचयप्रख्यः शङ्खचक्रगदाधरः ।
प्रध्माय बहुशः शङ्खमयुध्यत जनार्दनः ॥६८ ।
पक्षप्रहारनिहता नखतुण्डाग्रदारिताः ।
नीता वैवस्वतपुरं वैनतेयेन धीमता ॥६९॥
तैर्हन्यमानं दैत्यानामनीकं भीमविक्रमम् ।
अभज्यत तदा संख्ये बाणवर्षसमाहतम् ॥७०॥
भज्यमानेष्वनीकेषु त्रातुकामः समभ्ययात् ।
ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ॥७१॥
भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ।
नदन् मेघसहस्रेण तुल्यो निर्घातनिःस्वनः ॥७२॥
निःश्वसञ्जृम्भमाणश्च निद्रान्विततनुर्भृशम् ।
नेत्राभ्यामाकुलं वक्त्रं मुहुः कुर्वन् भ्रमन् मुहुः॥७३॥
संहृष्टरोमा ग्लानाक्षो भग्नचित्त इव श्वसन् ।
हलायुधमभिक्रुद्धः स्राक्षेपमिदमब्रवीत् ॥७४॥
किमेवं बलमत्तोऽसि न मां पश्यसि संयुगे ।
तिष्ठ तिष्ठ न मे जीवन मोक्ष्यसे रणमूर्धनि ॥७५॥
इत्येवमुक्त्वा प्रहसन् हलायुधमुपाद्रवत् ।
युगान्ताग्निनिभैर्घोरैर्मुष्टिभिर्जनयन् भयम् ॥७६॥
चरतस्तत्र संग्रामे मण्डलानि सहस्रशः ।
रौहिणेयस्य शीघ्रेण नावस्थानमदृश्यत ॥७७॥
तस्य भस्म तदा क्षिप्तं ज्वरेणाप्रतिमौजसा ।
शैघ्र्याद् वक्षो निपतितं शरीरे पर्वतोपमे ॥७८॥
तद् भस्म वक्षसस्तस्य मेरोः शिखरमागमत् ।
प्रदीप्तं पतितं तत्र गिरिशृङ्गं व्यदारयत् ॥७९॥
शेषेण चापि जज्वाल भस्मना कृष्णपूर्वजः ।
निःश्वसञ्जम्भमाणश्च निद्रान्विततनुर्भृशम् ॥८०॥
नेत्रयोराकुलत्वं च मुहुः कुर्वन् भ्रमंस्तथा ।
संहृष्टरोमा ग्लानाक्षः क्षिप्तचित्त इव श्वसन् ॥८१॥
ततो हलधरो भग्नः कृष्णमाह विचेतनः ।
कृष्ण कृष्ण महाबाहो प्रदीप्तोऽस्म्यभयं कुरु ॥८२॥
दह्यामि सर्वतस्तात कथं शान्तिर्भवेन्मम ।
इत्येवमुक्ते वचने बलेनामिततेजसा ॥८३॥
प्रहस्य वचनं प्राह कृष्णः प्रहरतां वरः ।
न भेतव्यमितीत्युक्त्वा परिष्वक्तो हलायुधः ॥८४॥
कृष्णेन परमस्नेहात् ततो दाहात् प्रमुच्यत ।
मोक्षयित्वा बलं तत्र दाहात् तु मधुसूदनः ॥८५॥
प्रोवाच परमक्रुद्धो वासुदेवो ज्वरं तदा ।
श्रीभगवानुवाच
एह्येहि ज्वर युध्यस्व या ते शक्तिर्महामृधे ॥८६॥
यच्च ते पौरुषं सर्वं तद् दर्शयतु नो भवान् ।
सव्येतराभ्यां बाहुभ्यामेवमुक्तो ज्वरस्तदा ॥८७॥
चिक्षेपैनं भस्म ज्वालागर्भ महाबलः ।
ततः प्रदीप्तगात्रस्तु मुहूर्तमभवत् प्रभुः ॥८८॥
कृष्णः प्रहरतां श्रेष्ठः शमं चाग्निर्गतस्ततः ।
ततस्तैर्भुजगाकारैर्बाहुभिस्तु त्रिभिस्तदा ॥८९॥
जघान कृष्णं ग्रीवायां मुष्टिनैकेन चोरसि ।
स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः ॥९०॥
ज्वरस्य तु महायुद्धे कृष्णस्य तु महौजसः ।
पर्वतेषु पतन्तीनामशनीनामिव स्वनः ॥९१॥
कृष्णज्वरभुजाघातैर्युद्धमासीत् सुदारुणम् ।
नैवमेवं प्रहर्तव्यमिति तत्र महास्वनः ।
मुहूर्तमभवद् युद्धमन्योन्यं तु महात्मनोः ॥९२॥
ततो ज्वरं कनकविचित्रभूषणं
न्यपीडयद् भुजयुगलेन संयुगे ।
जगत्क्षयं समुपनयञ्जगत्पतिः
शरीरधृग् गगनचरं महामृधे ॥९३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कृष्णज्वरयुद्धे द्वाविंशत्यधिकशततमोऽध्यायः ॥१२२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-19T16:14:48.1870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

parsimonious

  • (फ़्रुगल्) काटकसरी 
  • कृपण, कद्रू 
  • (frugal) काटकसरी 
  • कृपण, कद्रू 
More meanings
RANDOM WORD

Did you know?

मंदिराला कळस बांधतात, पण घरातील देव्हार्‍याला कळस का नसतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.