TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
षट्त्रिंशोऽध्यायः

विष्णुपर्व - षट्त्रिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


षट्त्रिंशोऽध्यायः
वृष्णिवंश्यानां जरासंधस्य सैनिकेभिः सह युद्धं, बलरामस्य जरासंधेन सह गदायुद्धं,
पराजितस्य जरासंधस्य पलायनम्

वैशम्पायन उवाच
ततो युद्धानि वृष्णीनां बभूवुः सुमहान्त्यथ ।
मागधस्य महामात्रैर्नृपैश्चैवानुयायिभिः ॥१॥
रुक्मिणा वासुदेवस्य भीष्मकेणाहुकस्य च ।
क्रथेन वसुदेवस्य कैशिकस्य तु बभ्रुणा ॥२॥
गदेन चेदिराजस्य दन्तवक्त्रस्य शङ्कुना ।
तथान्यैर्वृष्णिवीराणां नृपाणां च महात्मनाम् ॥३॥
युद्धमासीद्धि सैन्यानां सैनिकैर्भरतर्षभ ।
अहानि पञ्च चैकं च षट् सप्ताष्टौ च दारुणम् ॥४॥
गजैर्गजा हयैरश्वाः पदाताश्च पदातिभिः ।
रथै रथा विमिश्राश्च योधा युयुधिरे नृप ॥५॥
जरासंधस्य नृपते रामेणासीत् समागमः ।
महेन्द्रस्येव वृत्रेण दारुणो रोमहर्षणः ॥६॥
अवेक्ष्य रुक्मिणीं कृष्णो रुक्मिणं न व्यपोथयत् ।
ज्वलनार्कांशुसंकाशानाशीविषविषोपमान् ॥७॥
वारयामास कृष्णो वै शरांस्तस्य तु शिक्षया ।
इत्येषां सुमहानासीद् बलौघानां परिक्षयः ॥८॥
उभयोः सेनयो राजन् मांसशोणितकर्दमः ।
कबन्धानि समुत्तस्थुः सुबहूनि समन्ततः ॥९॥
तस्मिन् विमर्दे योधानां संख्यावृत्तिकराणि च ।
रथी रामो जरासंधं शरैराशीविषोपमैः ॥१०॥
आवृण्वन्नभ्ययाद् वीरस्तं च राजा स मागधः ।
अभ्यवर्तत वेगेन स्यन्दनेनाशुगामिना ॥११॥
अन्योन्यं विविधैरस्त्रैविद्ध्वा विद्ध्वा विनेदतुः ।
तौ क्षीणशस्त्रौ विरथौ हताश्वौ हतसारथी ॥१२॥
गदे गृहीत्वा विक्रान्तावन्योन्यमभिधावताम् ।
कम्पयन्तौ भुवं वीरौ तावुद्यतगदावुभौ ॥१३॥
ददृशाते महात्मानौ गिरी सशिखराविव ।
व्युपारमन्त युद्धानि पश्यता तौ महाभुजौ ।
संरब्धावभिधावन्तौ गदायुद्धेषु विश्रुतौ ॥१४॥
उभौ तौ परमाचार्यौ लोके ख्यातौ महाबलौ ।
मत्ताविव गजौ युद्धे तावन्योन्यमयुध्यताम् ॥१५॥
ततो देवाः सगन्धर्वाः सिद्धाश्च समहर्षयः ।
समन्ततश्चाप्सरसः समाजग्मुः सहस्रशः ॥१६॥
तद् देवयक्षगन्धर्वमहर्षिभिरलंकृतम् ।
शुशुभेऽभ्यधिकं राजन् दिवं ज्योतिर्गणैरिव ॥१७॥
अभिदुद्राव रामं तु जरासंधो महाबलः ।
सव्यं मण्डलमाश्रित्य बलदेवस्तु दक्षिणम् ॥१८॥
प्रहरन्तौ ततोऽन्योन्यं गदायुद्धविशारदौ ।
दन्ताभ्यामिव मातङ्गौ नादयन्तौ दिशो दश ॥१९॥
गदानिपातो रामस्य शुश्रुवेऽशनिनिःस्वनः ।
जरासंधस्य च रणे पर्वतस्येव दीर्यतः ॥२०॥
न स्म कम्पयते रामं जरासंधकरच्युता ।
गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिमिवानिलः ॥२१॥
रामस्य तु गदावेगं वीर्यात् स मगधेश्वरः ।
सेहे धैर्येण महता शिक्षया च व्यपोहयत् ॥२२॥
एवं तौ तत्र संग्रामे विचरन्तौ महाबलौ ।
मण्डलानि विचित्राणि विचेरतुररिंदमौ ॥२३॥
व्यायच्छन्तौ चिरं कालं परिश्रान्तौ च तस्थतुः ।
समाश्वस्य मुहूर्तं तु पुनरन्योन्यमाहताम् ॥२४॥
एवं तौ योधमुख्यौ तु समं युयुधतुश्चिरम् ।
न च तौ युद्धवैमुख्यमुभावेव प्रजग्मतुः ॥२५॥
अथापश्यद् गदायुद्धे विशेषं तस्य वीर्यवान् ।
रामः क्रुद्धो गदां त्यक्त्वा जग्राह मुसलोत्तमम् ॥२६॥
तमुद्यन्तं तदा दृष्ट्वा मुसलं घोरदर्शनम् ।
अमोघं बलदेवेन क्रुद्धेन तु महारणे ॥२७॥
ततोऽन्तरिक्षे वागासीत् सुस्वरा लोकसाक्षिणी ।
उवाच बलदेवं तं समुद्यतहलायुधम् ॥२८॥
न त्वया राम वध्योऽयमलं सेदेन मानद ।
विदितोऽस्य मया मृत्युस्तस्मात्साधु व्युपारम ।
अचिरेणैव कालेन प्राणांस्त्यक्ष्यति मागधः ॥२९॥
जरासंधस्तु तच्छ्रुत्वा विमनाः समपद्यत ।
न प्रजह्रे ततस्तस्मै पुनरेव हलायुधः ॥३०॥
तौ व्युपारमतां युद्धे वृष्णयस्ते च पार्थिवाः ।
असक्तमभवद् युद्धं तेषामेवं सुदारुणम् ॥३१॥
दीर्घकालं महाराज निघ्नतामितरेतरम् ।
पराजिते त्वपक्रान्ते जरासंधे महीपतौ ॥३२॥
अस्तं याते दिनकरे नानुसस्रुस्तदा निशि ।
समानीय स्वकं सैन्यं लब्धलक्ष्या महाबलाः ॥३३॥
पुरीं प्रविविशुर्हृष्टाः केशवेनाभिपालिताः ।
खाच्च्युतान्यायुधान्येवं तान्येवान्तर्दधुस्तदा ॥३४॥
जरासंधोऽपि नृपतिर्बिमनाः स्वपुरीं ययौ ।
राजानश्चानुगा येऽस्य स्वराष्ट्राण्येव ते ययुः ॥३५॥
जरासंधं तु ते जित्वा मेनिरे नैव निर्जितम् ।
वृष्णयः कुरुशार्दूल राजा ह्यतिबलः स वै ॥३६॥
दश चाष्टौ च संग्रामाञ्जरासन्धस्य यादवाः ।
ददुर्न चैनं समरे हन्तुं शेकुर्महाबलाः ॥३७॥
अक्षौहिण्यश्च तस्यासन् विंशतिश्च महामते ।
जरासन्धस्य नृपतेस्तदर्थं याः समागताः ॥३८॥
अल्पत्वादभिभूतास्तु वृष्णयो भरतर्षभ ।
बार्हद्रथेन राजेन्द्र राजभिः सहितेन वै ॥३९॥
जित्वा तु मागधं संख्ये जरासन्धं महीपतिम् ।
विहरन्ति स्म सुखिनो बृष्णिसिंहा महारथाः ॥४०॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि जरासंधापयानं नाम षट्त्रिंशोऽध्यायः ॥३६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-18T15:17:15.5000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

syndiotactic

  • सम-द्वि-व्यवस्थ- 
RANDOM WORD

Did you know?

मनुष्याच्या जीवनात स्नानाचे महत्त्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.