TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
त्रयस्त्रिंशोऽध्यायः

विष्णुपर्व - त्रयस्त्रिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


त्रयस्त्रिंशोऽध्यायः
बलरामकृष्णयोः गुरोः सान्दीपनेः स्थानं गत्वा विद्याध्ययनम्, गुरुदक्षिणा रूपेण तस्य मृतपुत्रं समर्प्य मथुरापुरीं प्रत्यागमनम्

वैशम्पायन उवाच
स कृष्णस्तत्र बलवान् रौहिणेयेन संगतः ।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् ॥१॥
प्राप्तयौवनदेहस्तु युक्तो राजश्रिया ज्वलन् ॥२॥
कस्यचित् त्वथ कालस्य सहितौ रामकेशवौ ।
गुरुं सान्दीपनिं काश्यमवन्तिपुरवासिनम् ॥३॥
धनुर्वेदचिकीर्षार्थमुभौ तावभिजग्मतुः ।
निवेद्य गोत्रं स्वाध्यायमाचारेणाभ्यलंकृतौ ॥४॥
शुश्रूषू निरहंकारावुभौ रामजनार्दनौ ।
प्रतिजग्राह तौ काश्यो विद्याः प्रादाच्च केवलाः ॥५॥
तौ च श्रुतिधरौ वीरौ यथावत् प्रतिपद्यताम् ।
अहोरात्रैश्चतुष्षष्ट्या साङ्गवेदमधीयताम् ॥६॥
चतुष्पादं धनुर्वेदं शस्त्रग्रामं ससंग्रहम् ।
अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत् ॥७॥
अतीवामानुषीं मेधां चिन्तयित्वा तयोर्गुरुः ।
मेने तावागतौ वीरौ देवौ चन्द्रदिवाकरौ ॥८॥
ददर्श च महात्मानावुभौ तावपि पर्वसु ।
पूजयन्तौ महादेवं साक्षाद् विष्णुं व्यवस्थितम् ॥९॥
गुरुं सान्दीपनिं कृष्णः कृतकृत्योऽभ्यभाषत ।
गुर्वर्थं किं ददानीति रामेण सह भारत ॥१०॥
तयोः प्रभावं स ज्ञात्वा गुरुः प्रोवाच हृष्टवान् ।
पुत्रमिच्छाम्यहं दत्तं यो मृतो लवणाम्भसि ॥११॥
पुत्र एकोऽपि मे जातः स चापि तिमिना हतः ।
प्रभासे तीर्थयात्रायां तं मे त्वं पुनरानय ॥१२॥
तथेत्येवाब्रवीत् कृष्णो रामस्यानुमते स्थितः ।
गत्वा समुद्रं तेजस्वी विवेशान्तर्जलं हरिः ॥१३॥
समुद्रः प्राञ्जलिर्भूत्वा दर्शयामास स्वं तदा ।
तमाह कृष्णः क्वासौ भोः पुत्रः सान्दीपनेरिति ॥१४॥
समुद्रः प्रत्युवाचेदं दैत्यः पञ्चजनो महान् ।
तिमिरूपेण तं बालं ग्रस्तवानिति माधव ॥१५॥
स पञ्चजनमासाद्य जघान पुरुषोत्तमः ।
न चाससाद तं बालं गुरुपुत्रं तदाच्युतः ॥१६॥
स तु पञ्चजनं हत्वा शङ्खं लेभे जनार्दनः ।
यस्तु देवमनुष्येषु पाञ्चजन्य इति श्रुतः ॥१७॥
ततो वैवस्वतपुरं जगाम पुरुषोत्तमः ।
ततो यमोऽभ्युपागम्य ववन्दे तं गदाधरम् ॥१८॥
तमुवाचाथ वै कृष्णो गुरुपुत्रः प्रदीयताम् ।
तयोस्तत्र तदा युद्धमासीद् घोरतरं महत् ॥१९॥
ततो वैवस्वतं घोरं निर्जित्य पुरुषोत्तमः ।
आससाद च तं बालं गुरुपुत्रं तदाच्युतः ॥२०॥
आनिनाय गुरोः पुत्रं चिरं नष्टं यमक्षयात् ।
ततः सान्दीपनेः पुत्रः प्रभावादमितौजसः ॥२१॥
दीर्घकालगतः प्रेतः पुनरासीच्छरीरवान् ।
तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम् ॥२२॥
सर्वेषामेव भूतानां विस्मयः समजायत ।
स गुरोः पुत्रमादाय पाञ्चजन्यं च माधवः ।
रत्नानि च महार्हाणि पुनरायाज्जगत्प्रभुः ॥२३॥
राक्षसैस्तस्य रत्नानि महार्हाणि बहूनि च ।
आनाय्यावेदयामास गुरवे वासवानुजः ॥२४॥
गदापरिघयुद्धेषु सर्वास्त्रेषु च तावुभौ ।
अचिरान्मुख्यतां प्राप्तौ सर्वलोके धनुर्भृताम् ॥२५॥
ततः सान्दीपनेः पुत्रं तद्रूपवयसं तदा ।
प्रादात् कृष्णः प्रतीतात्मा सह रत्नैरुदारधीः ॥२६॥
चिरनष्टेन पुत्रेण काश्यः सान्दीपनिस्तदा ।
समेत्य मुमुदे राजन् पूजयन् रामकेशवौ ॥२७॥
कृतास्त्रौ ताबुभौ वीरौ गुरुमामन्त्र्य सुव्रतौ ।
आयातौ मथुरां भूयो वसुदेवसुतावुभौ ॥२८॥
ततः प्रत्युद्ययुः सर्वे यादवा यदुनन्दनौ ।
सबला हृष्टमनस उग्रसेनपुरोगमाः ॥२९॥
श्रेण्यः प्रकृतयश्चैव मन्त्रिणः सपुरोहिताः ।
सबालवृद्धा सा चैव पुरी समभिवर्तत ॥३०॥
नन्दितूर्याण्यवाद्यन्त तुष्टुवुश्च जनार्दनम् ।
रथ्याः पताकामालिन्यो भ्राजन्ते स्म समन्ततः ॥३१॥
प्रहृष्टमुदितं सर्वमन्तःपुरमशोभत ।
गोविन्दागमनेऽत्यर्थं यथैवेन्द्रमहे तथा ॥३२॥
मुदिताश्चाथ गायन्ति राजमार्गेषु गायकाः ।
तत्रासीत् प्रथिता गाथा यादवानां प्रियङ्करा ॥३३॥
गोविन्दरामौ सम्प्राप्तौ भ्रातरौ लोकविश्रुतौ ।
स्वे पुरे निर्भयाः सर्वे क्रीडध्वं सह बान्धवैः ॥३४॥
न तत्र कश्चिद् दीनो वा मलिनो वा विचेतनः ।
मथुरायामभूद् राजन् गोविन्दे समुपस्थिते ॥३५॥
वयांसि साधुवाक्यानि प्रहृष्टा गोहयद्विपाः ।
नरनारीगणाः सर्वे भेजिरे मनसः सुखम् ॥३६॥
शिवाश्च वाताः प्रववुर्विरजस्का दिशो दश ।
दैवतानि च हृष्टानि सर्वेष्वायतनेषु च ॥३७॥
यानि लिङ्गानि लोकस्य चासन् कृतयुगे पुरा ।
तानि सर्वाण्यदृश्यन्त पुरीं प्राप्ते जनार्दने ॥३८॥
ततः काले शिवे पुण्ये स्यन्दनेनारिमर्दनः ।
हरियुक्तेन गोविन्दो विवेश मथुरां पुरीम् ॥३९॥
विशन्तं मथुरां रम्यां तमुपेन्द्रमरिंदमम् ।
अनुजग्मुर्यदुगणाः शक्रं देवगणा इव ॥४०॥
वसुदेवस्य भवनं ततस्तौ यदुनन्दनौ ।
प्रविष्टौ हृष्टवदनौ चन्द्रादित्याविवाचलम् ॥४१॥
परेण तेजसोपेतौ सुरेन्द्राविव रूपिणौ ।
तावायुधानि विन्यस्य गृहे स्वं स्वैरचारिणौ ॥४२॥
मुमुदाते यदुवरौ वसुदेवसुतावुभौ ।
उद्यानेषु विचित्रेषु फलपुष्पावनामिषु ॥४३॥
चेरतुः सुमहात्मानौ यादवैः परिवारितौ ।
रैवतस्य समीपेषु सरित्सु विमलासु च ॥४४॥
पद्मपत्रविवृद्धासु कारण्डवयुतासु च
एवं तावेकनिर्माणौ मथुरायां शुभाननौ ।
उग्रसेनानुगौ भूत्वा कंचित् कालं मुमोदतुः ॥४५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रामकृष्णप्रत्यागमने त्रयस्त्रिंशोऽध्यायः ॥३३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-18T15:13:29.1070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मोक्षण

  • n  Loosing, setting at liberty. 
RANDOM WORD

Did you know?

Why Cows are considered secred in Hinduism?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.