TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
द्विचत्वारिंशोऽध्यायः

विष्णुपर्व - द्विचत्वारिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


द्विचत्वारिंशोऽध्यायः
जरासंधस्य सेनायाः वर्णनम्, तस्य सैन्यं पर्वतोपरि आक्रमणाय आज्ञापनम्, शिशुपालस्य सम्मत्या गोमन्तके पर्वते अग्निदानम्, पर्वतस्य ज्वलनम् एवं बलरामकृष्णयोः पर्वतात्कूर्दयित्वा राजानां सैन्येषु आगमनम्

वैशम्पायन उवाच
जरासंधस्ततः प्राप्तो नृपः सर्वमहीक्षिताम् ।
नराधिपैर्बलयुतैरनुयातो महाद्युतिः ॥१॥
व्यायतोदग्रतुरगैर्विस्पष्टार्थसमाहितैः ।
रथैः साङ्ग्रामिकैर्युक्तैरसङ्गगतिभिः क्वचित् ॥२॥
हेमकक्षैर्महाघण्टैर्वारणैर्वारिदोपमैः ।
महामात्रोत्तमारूढैः कल्पितै रणगर्वितैः ॥३॥
स्वारूढैः सादिभिर्युक्तैः प्रेङ्खमाणैः प्रवल्गितैः ।
वाजिभिर्वायुसंकाशैः प्ल्रवद्भिरिव पत्रिभिः ॥४॥
खङ्गचर्मबलोदग्रैः पत्तिभिर्बलिनां वरैः ।
सहस्त्रसंख्यैर्निर्मुक्तैरुत्पतद्भिरिवोरगैः ॥५॥
एवं चतुर्विधैः सैन्यैः प्रचलद्भिरिवाम्बुदैः ।
नृपोऽभियातो बलवाञ्जरासंधो धृतव्रतः ॥६॥
स रथैनेमिघोषैश्च गजैश्च मदसंयुतैः ।
हेषद्भिश्चापि तुरगैः क्ष्वेडितोग्रैश्च पत्तिभिः ॥७॥
संनादयन् दिशः सर्वाः सर्वाश्चापि गुहाशयान् ।
स राजा सागराकारः ससैन्यः प्रत्यदृश्यत ॥८॥
तद्बलं पृथिवीशानां हृष्टयोधजनाकुलम् ।
क्ष्वेडितास्फोटितरवं मेघसैन्यमिवाबभौ ॥९॥
रथैः पवनसंपातैर्गजैश्च जलदोपमैः ।
तुरगैश्च सिताभ्राभैः पत्तिभिश्चापि दंशितैः ॥१०॥
व्यामिश्रं तद्बलं भाति मत्तद्विपसमाकुलम् ।
घर्मान्ते सागरगतं यथाभ्रपटलं तथा ॥११॥
सबलास्ते महीपाला जरासंधपुरोगमाः ।
परिवार्य गिरिं सर्वे निवेशायोपचक्रमुः ॥१२॥
बभौ तस्य निविष्टस्य बलश्रीः शिविरस्य वै ।
शुक्ले पर्वणि पूर्णस्य यथा रूपं महोदधेः ॥१३॥
वीतरात्रे ततः काले नृपास्ते कृतकौतुकाः ।
आरोहणार्थं शैलस्य समेता युद्धलालसाः ॥१४॥
समवायीकृताः सर्वे गिरिप्रस्थेषु ते नृपाः ।
निविष्टा मन्त्रयामासुर्युद्धकालकुतूहलाः ॥१५॥
एषां तु तुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् ।
युगान्ते भिद्यमानानां सागराणां यथा स्वनः ॥१६॥
तेषां सकञ्चुकोष्णीषाः स्थविरा वेत्रपाणयः ।
चेरुर्मा शब्द इत्येवं ब्रुवन्तो राजशासनात् ॥१७॥
तस्य रूपं बलस्यासीन्निःशब्दस्तिमितस्य वै ।
लीनमीनभुजङ्गस्य निःशब्दस्य पयोदधेः ॥१८॥
तस्मिन् स्तिमितनिदशब्दे योगादिव महार्णवे ।
जरासन्धो बृहद्वाक्यं बृहस्पतिरिवाददे ॥१९॥
शीघ्रं समभिवर्तन्तां बलानीह महीक्षिताम् ।
सर्वतः पर्वतश्चायं बलौघैः परिवार्यताम् ॥२०॥
अश्मयन्त्राणि युज्यन्तां क्षेपणीयाश्च मुद्गराः ।
ऊर्ध्वं चापि प्रवाह्यन्तां प्रासा वै तोमराणि च ॥२१॥
ऊर्ध्व प्रक्षेपणार्थाय दृढानि च लधूनि च ।
शस्त्रपातविघातानि क्रियन्तामाशु शिल्पिभिः ॥२२॥
शूराणां युद्ध्यमानानां प्रमत्तानां परस्परम् ।
यथा नरपतिः प्राह तथा शीघ्रं विधीयताम् ॥२३॥
दार्यतामेष टङ्कौघैः खनित्रैश्च नगोत्तमः ।
नृपाश्च युद्धमार्गज्ञा विन्यस्यन्तामदूरतः ॥२४॥
अद्यप्रभृति सैन्यैर्मे गिरिरोधः प्रवर्त्यताम् ।
यावदेतौ पातयामो वसुदेवसुतावुभौ ॥२५॥
अचलोऽयं शिलायोनिः क्रियतां निश्चलाण्डजः ।
आकाशमपि बाणोर्घैर्निःसम्पातं विधीयताम् ॥२६॥
मयानुशिष्टास्तिष्ठन्तु गिरिभूमिषु भूमिपाः ।
तेषु तेष्ववकाशेषु शीघ्रमारुह्यतां गिरिः ॥२७॥
मद्रः कलिङ्गाधिपतिश्चेकितानश्च बाह्लिकः ।
काश्मीरराजो गोनर्दः करूषाधिपतिस्तथा ॥२८॥
द्रुमः किंपुरुषश्चैव पर्वतीयाश्च मानवाः ।
पर्वतस्यापरं पार्श्वं क्षिप्रमारोहयन्त्वमी ॥२९॥
पौरवो वेणुदारिश्च वैदर्भः सोमकस्तथा ।
रुक्मी च भोजाधिपतिः सूर्याक्षश्चैव मालवः ॥३०॥
पाञ्चालाधिपतिश्चैव द्रुपदश्च नराधिपः ।
विन्दानुविन्दावावन्त्यौ दन्तवक्त्रश्च वीर्यवान् ॥३१॥
छागलिः पुरमित्रश्च विराटश्च महीपतिः ।
कौशाम्ब्यो मालवश्चैव शतधन्वा विदूरथः ॥३२॥
भूरिश्रवास्त्रिगर्तश्च बाणः पञ्चनदस्तथा ।
उत्तरं पर्वतोद्देशमेते दुर्गसहा नृपाः ।
आरोहन्तु विमर्दन्तो वज्रप्रतिमगौरवाः ॥३३॥
उलूकः कैतवेयश्च वीरश्चांशुमतः सुतः ।
एकलव्यो दृढाश्वश्च क्षत्रधर्मा जयद्रथः ॥३४॥
उत्तमौजास्तथा शाल्वः कैरलेयश्च कैशिकः ।
वैदिशो वामदेवश्च सुकेतुश्चापि वीर्यवान् ॥३५॥
पूर्वपर्वतनिर्व्युहमेतेष्वायतमस्तु नः ।
विदारयन्तो धावन्तो वाता इत बलाहकान् ॥३६॥
अहं च दरदश्चैव चेदिराजश्च वीर्यवान् ।
दक्षिणं शैलनिचयं दारयिष्याम दंशिताः ॥३७॥
एवमेष गिरिः क्षिप्रं समन्ताद् वेष्टितो बलैः ।
वज्रप्रपातप्रतिमं प्राप्नोतु तुमुलं भयम् ॥३८॥
गदिनो वै गदाभिश्च परिघैः परिघायुधाः ।
अपरे विविधैः शस्त्रैर्दारयन्तु नगोत्तमम् ॥३९॥
एष भूमिधरोऽद्यैव विषमोच्चशिलान्वितः ।
कार्यो भूमिसमः सर्वो भवद्भिर्वसुधाधिपैः ॥४०॥
जरासंधवचः श्रुत्वा पार्थिवा राजशासनात् ।
गोमन्तं वेष्टयामासुः सागराः पृथिवीमिव ॥४१॥
उवाच राजा चेदीनां देवानां मघवानिव ।
किं ते युद्धेन दुर्गे ऽस्मिन् गोमन्ते च नगोत्तमे ॥४२॥
दुरारोहश्च शिखरे प्रांशुपादपकण्टके ।
काष्ठैस्तृणैश्च बहुभिः परिवार्य समन्ततः ॥४३॥
अद्यैव दीप्यतां क्षिप्रमलमन्येन कर्मणा ।
क्षत्रियाः सुकुमारा हि रणे सायकयोधिनः ॥४४॥
नियुक्ताः पर्वते दुर्गे नियोक्तुं पादयोधिनः ।
ननाम प्रतिबन्धेन न चावस्कन्दकर्मणा ॥४५॥
शक्य एष गिरिस्तात देवैरप्यवमर्दितुम् ।
दुर्गयुद्धे क्रमः श्रेयान् रोधयुद्धेन पार्थिवाः ॥४६॥
भक्तोदकेन्धनैः क्षीणाः पात्यन्ते गिरिसंश्रिताः ।
वयं बहव इत्येवं नाप्येष निपुणो नयः ॥४७॥
यादवौ नावमन्तव्यौ द्वावप्येतौ रणे स्थितौ ।
अविज्ञातबलावेतौ श्रूयेते देवसम्मितौ ॥४८॥
कर्मभिस्त्वमरौ विद्मो वालावतिबलान्वितौ ।
दुष्कराणीह कर्माणि कृतवन्तौ यदूत्तमौ ॥४९॥
शुष्ककाष्ठैस्तृणैर्वेष्ट्य सर्वतः पर्वतोत्तमम् ।
अग्निना दीपयिष्यामो दह्येतां गतचेतनौ ॥५०॥
यदि चेन्निष्क्रमिष्येते दह्यमानावितोऽन्तिके ।
समेत्य पातयिष्यामस्त्यक्ष्यतो जीवितं ततः ॥५१॥
वाक्यमेतत्तु रुरुचे सबलानां महीक्षिताम् ।
यदुक्तं चेदिराजेन नृपाणां हितशंसिना ॥५२॥
ततः काष्ठैस्तृणैर्वंशैः शुष्कशाखैश्च पादपैः ।
उपादीप्यत शैलेन्द्रः सृर्यपादैरिवाम्बुदः ॥५३॥
ददुस्ते सर्वतस्तूर्णं पावकं तत्र पार्थिवाः ।
यथोद्देशं यथावातं शैलस्य लघुविक्रमाः ॥५४॥
स वायुदीपितो वह्निरुत्पपात समन्ततः ।
सधूमज्वालमालाभिर्भाभिः खमिव शोभयन् ॥५५॥
सोऽनलः पवनायस्तः काष्ठसंचयमूलवान् ।
ददाह शैलं श्रीमन्तं गोमन्तं कान्तपादपम् ॥५६॥
स दह्यमानः शैलेन्द्रो मुमोच विपुलाः शिलाः ।
शतशः शतधा भूत्वा महोल्काकारदर्शनाः ॥५७॥
स चित्रभानुः शैलेन्द्रं भाभिर्भानुरिवाम्बुदम् ।
आलिम्पतीव विधिवत् समन्तादर्चिरुद्धतः ॥५८॥
धातुभिः पच्यमानैश्च ज्वलद्भिश्चैव पादपैः ।
उद्भ्रान्तश्वापदो रौति तुद्यमान इवाद्रिराट् ॥५९॥
प्रतप्तो दह्यमानस्तु स शैलः कृष्णवर्त्मना ।
रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥६०॥
वह्निना चापि दीप्ताङ्गो गिरिर्नातिविराजते ।
धूमान्धकारोर्ध्वतनुर्मज्जमान इवाम्बुदः ॥६१॥
विश्लिष्टोपलसंघातः कर्कशाङ्गारवर्षणः ।
गिरिर्भात्यनलोद्गारैरुल्कावृष्टिरिवाम्बुदः ॥६२॥
प्रपातप्रस्रपोत्क्षिप्तो धूमसंवर्द्धितोदरः ।
स गिरिर्भस्मतां यातो युगान्ताग्निहतोपमः ॥६३॥
विह्वलास्तस्य पार्श्वेभ्यः सर्पा दग्धार्धदेहिनः ।
श्वसन्तः पृथुमूर्धानो निश्चेरुरशिवेक्षणाः ॥६४॥
उत्पत्योत्पत्य गगनात् पुनः पुनरवाङ्मुखाः ।
रेसुश्चोद्वेजिताः सिंहाः शार्दूलाश्चानलाविलाः ॥६५॥
मुमुचुः पादपाश्चैव दाहनिर्यासजं जलम् ॥६६॥
वहत्यूर्ध्वगतिर्वातो भस्माङ्गारातिपिङ्गलः ।
धूमच्छाया च गगने दर्पिताम्भोददर्शना ॥६७॥
व्यज्यमानो महासानुर्विहगै- श्वापदैरपि ।
गिरिर्वैकल्यमायाति प्रागल्भ्यात्कृष्णवर्त्मनः ॥६८॥
स मुमोच शिलाः शैलश्चलोदग्रशिलोच्चयः ।
वज्रेण पुरुहूतस्य यथा स्याद् दारितस्तथा ॥६९॥
आदीप्य तं तु शैलेन्द्रं क्षत्रिया व्यूहदंशिताः ।
अर्धक्रोशमपक्रान्ताः पावकेनाभितापिताः ॥७०॥
दह्यमाने नगश्रेष्ठे सीदमानैर्महाद्रुमैः ।
धूमभारैरनालक्ष्ये मूले शिथिलतां गते ॥७१॥
सरोषं हि तदा रामो वचनं केशिसूदनम् ।
बभाषे पद्मपत्राक्षं स साक्षान्मधुसूदनम् ॥७२॥
दह्यतेऽयं गिरिस्तात ससानुशिखरद्रुमः ।
आवयोः कृष्ण वैरेण बलिभिर्वसुधाधिपैः ॥७३॥
पश्य कृष्णानलौष्णानां सधूमानां समन्ततः ।
वनानां विरसन्तीव नगाभ्याशे द्विपोत्तमाः ॥७४॥
अयं यद्यावयोरर्थे गोमन्तस्तात दह्यते ।
अयशस्यमिदं लोके कौलीनं च भविष्यति ॥७५॥
तदस्यानृण्यहेतोर्हि नगस्य नगसंनिभ ।
क्षत्रियान्निहनिष्यामो दोर्भ्यामेव युधां वर ॥७६॥
एते ते क्षत्रियाः सर्वे गिरिमादीप्य दंशिताः ।
रथिनस्तात दृश्यन्ते यथादेशं युयुत्सवः ॥७७॥
एवमुक्त्वा गिरेः शृङ्गान्मेरुशृङ्गादिवोडुराट् ।
निपपात बलः श्रीमान् वनमालाधरो युवा ॥७८॥
कादम्बरीमदक्षीबो नीलवासाः सिताननः ।
स शारदेन्दुसंकाशो वनमालाञ्चितोदरः ॥७९॥
कान्तैककुण्डलधरश्चारुमौलिरवाङमुखः ।
निपपात नरेन्द्राणां मध्ये केशवपूर्वजः ॥८०॥
अवप्लुते ततो रामे कृष्णः कृष्णाम्बुदोपमः ।
गोमन्तशिखराच्छ्रीमानाप्लुतोऽमितविक्रमः ॥८१॥
ततस्तं पीडयामास पद्भ्यां गिरिवरं हरिः ।
स पीडितो गिरिस्तेन निर्ममज्ज समन्ततः ॥८२॥
जलाकुलोपलस्तत्र प्रस्रुतो द्विरदो यथा ।
स तेन वारिणा वह्निस्तत्क्षणात् प्रशमं ययौ ॥८३॥
कल्पान्ते वारिधाराभिर्मेघजालैरिवांशुमान् ।
सिंहारसितनिर्घोषः पीतवासा घनाकृतिः ॥८४॥
किरीटमूर्द्धा सौम्यास्यः पुण्डरीकनिभेक्षणः ।
श्रीवत्सवक्षाः सुमुखः सहस्राक्षसमद्युतिः ॥८५॥
रामादनन्तरं कृष्णः प्लुतो वै वीर्यवांस्ततः ।
ताभ्यामेव प्लुताभ्यां च चरणैः पीडितो गिरिः ॥८६॥
मुमोच सलिलोत्पीडांस्तीव्रपावकशान्तये ।
सलिलोत्पीडनं दृष्ट्वा पार्थिवा भयमाविशन् ॥८७॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोमन्तदाहे द्विचत्वारिंशोऽध्यायः॥४२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-19T09:59:26.9500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

तपकणे

  • अ.क्रि. थेंबाथेंबांनी गळणे ; झिरपणे ; टपकणे . [ टपकणे , हिं . तपकना ] 
RANDOM WORD

Did you know?

मंगळवारी येणार्‍या संकष्टी चतुर्थीस ‘ अंगारकी चतुर्थी ’ असे कां म्हणतात ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site