संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| षष्ठोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - षष्ठोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण षष्ठोऽध्यायः Translation - भाषांतर शकटभञ्जनम् पूतनावधं चवैशम्पायन उवाचतत्र तस्यासतः कालः सुमहानत्यवर्तत ।गोव्रजे नन्दगोपस्य बल्लवत्वं प्रकुर्वतः ॥१॥दारकौ कृतनामानौ ववृधाते सुखं च तौ ।ज्येष्ठः संकर्षणो नाम कनीयान् कृष्ण एव तु ॥२॥मेघकृष्णस्तु कृष्णोऽभूद् देहान्तरगतो हरिः ।व्यवर्धत गवां मध्ये सागरस्य इवाम्बुदः ॥३॥शकटस्य त्वधः सुप्तं कदाचित् पुत्रगृद्धिनी ।यशोदा तं समुत्सृज्य जगाम यमुनां नदीम् ॥४॥शिशुलीलां ततः कुर्वन्स हस्तचरणौ क्षिपन् ।रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन् ॥५॥स तत्रैकेन पादेन शकटं पर्यवर्तयत् ।न्युब्जं पयोधराकाङ्क्षी चकार च रुरोद च ॥६॥एतस्मिन्नन्तरे प्राप्ता यशोदा भयविक्लवा ।स्नाता प्रस्रवदिग्धाङ्गी बद्धवत्सेव सौरभी ॥७॥सा ददर्श विपर्यस्तं शकटं वायुना विना ।हाहेति कृत्वा त्वरिता दारकं जगृहे तदा ॥८॥न सा बुबोध तत्त्वेन शकटं परिवर्तितम् ।स्वस्ति मे दारकायेति प्रीता भीता च साभवत् ॥९॥किं तु वक्ष्यति ते पुत्र पिता परमकोपनः ।त्वय्यधःशकटे सुप्ते अकस्माच्च विलोडिते ॥१०॥किं मे स्नानेन दुःस्नानं किं च मे गमने नदीम् ।पर्यस्ते शकटे पुत्र या त्वां पश्याम्यपावृतम् ॥११॥एतस्मिन्नन्तरे गोभिराजगाम वनेचरः ।काषायवाससी बिभ्रन् नन्दगोपो व्रजान्तिकम् ॥१२॥स ददर्श विपर्यस्तं भिन्नभाण्डघटीघटम् ।अपास्तधूर्विभिन्नाक्षं शकटं चक्रमौलिनम् ॥१३॥भीतस्त्वरितमागत्य सहसा साधुलोचनः ।अपि मे स्वस्तिपुत्रायेत्यसकृद् वचनं वदन् ॥१४॥पिबन्तं स्तनमालक्ष्य पुत्रं स्वस्थोऽब्रवीत्पुनः ।वृषयुद्धं विना केन पर्यस्तं शकटं मम ॥१५॥प्रत्युवाच यशोदा तं भीता गद्गदभाषिणी ।न विजानाम्यहं केन शकटं परिवर्तितम् ॥१६॥अहं नदी गता सौम्य चैलप्रक्षालनार्थिनी ।आगता च विपर्यस्तमपश्यं शकटं भुवि ॥१७॥तयोः कथयतोरेवमब्रुवंस्तत्र दारकाः ।अनेन शिशुना यानमेतत् पादेन लोडितम् ॥१८॥अस्माभिः सम्पतद्भिश्च दृष्टमेतद् यदृच्छया ।नन्दगोपस्तु तच्छ्रुत्वा विस्मयं परमं ययौ ॥१९॥प्रहृष्टश्चैव भीतश्च किमेतदिति चिन्तयन् ।न च ते श्रद्दधुर्गोपाः सर्वे मानुषबुद्धयः ॥२०॥आश्चर्यमिति ते सर्वे विस्मयोत्फुल्ललोचनाः ।स्वे स्थाने शकटं स्थाप्य चक्रबन्धमकारयन् ॥२१॥वैशम्पायन उवाचकस्यचित्त्वथ कालस्य शकुनी वेषधारिणी ।धात्री कंसस्य भोजस्य पूतनेति परिश्रुता ॥२२॥पूतना नाम शकुनी घोरा प्राणिभयंकरी ।आजगामार्द्धरात्रे वै पक्षौ क्रोधाद् विधुन्वती ॥२३॥ततोऽर्धरात्रसमये पूतना प्रत्यदृश्यत ।व्याघ्रगम्भीरनिर्घोषं व्याहरन्ती पुनः पुनः ॥२४॥निलिल्ये शकटस्याक्षे प्रस्रवोत्पीडवर्षिणी ।ददौ स्तनं च कृष्णाय तस्मिन् सुप्ते जने निशि ॥२५॥तस्याः स्तनं पपौ कृष्णः प्राणैः सह विनद्य च ।छिन्नस्तनी तु सहसा पपात शकुनी भुवि ॥२६॥तेन शब्देन वित्रस्तास्ततो बुबुधिरे भयात् ।स नन्दगोपो गोपा वै यशोदा च सुविक्लवा ॥२७॥ते तामपश्यन् पतितां विसंज्ञां विपयोधराम् ।पूतनां पतितां भूमौ वज्रेणेव विदारिताम् ॥२८॥इदं किं त्विति संत्रस्ताः कस्येदं कर्म चेत्यपि ।नन्दगोपं पुरस्कृत्य गोपास्ते पर्यवारयन् ॥२९॥नाध्यगच्छन्त च तदा हेतुं तत्र कदाचन ।आश्चर्यमाश्चर्यमिति ब्रुवन्तोऽनुययुर्गृहान् ॥३०॥गतेषु तेषु गोपेषु विस्मितेषु यथागृहम् ।यशोदां नन्दगोपस्तु पप्रच्छ गतसम्भ्रमः ॥३१॥कोऽयं विधिर्न जानामि विस्मयो मे महानयम् ।पुत्रस्य मे भयं तीव्रं भीरुत्वं समुपागतम् ॥३२॥यशोदा त्वब्रवीद् भीता नार्य जानामि किं त्विदम् ।दारकेण सहानेन सुप्ता शब्देन बोधिता ॥३३॥यशोदायामजानन्त्यां नन्दगोपः सबान्धवः ।कंसाद् भयं चकारोग्रं विस्मयं च जगाम ह ॥३४॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां शकटभङ्गपूतनावधे षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP