संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
चतुर्थोऽध्यायः

विष्णुपर्व - चतुर्थोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


कंसेन देवक्याः नवजातानां शिशूनां हननम्, योगमायया देवक्याः सप्तमस्य गर्भस्य संकर्षणम्, श्रीकृष्णस्य प्राकट्यं नन्दभवने प्रवेशं च, कंसेन नन्दकन्यायाः हननस्य चेष्टा एवं तस्याः दिव्यरूपस्य दर्शनम्, कंसेन क्षमाप्रार्थना एवं देवक्या तस्मै क्षमादानम्

वैशम्पायन उवाच
कृते गर्भविधाने तु देवकी देवतोपमा ।
जग्राह सप्त तान्गर्भान्यथावत् समुदाहृतान् ॥१॥
षङ्गर्भान् निस्सृतान् कंसस्ताञ्जघान शिलातले ।
आपन्तं सप्तमं गर्भं सा निनायाथ रोहिणीम् ॥२॥
अर्धरात्रे स्थितं गर्भं पातयन्ती रजस्वला ।
निद्रया सहसाऽऽविष्टा पपात धरणीतले ॥३॥
सा स्वप्नमिव तं दृष्ट्वा गर्भं निःसृतमात्मनः ।
अपश्यन्ती च तं गर्भं मुहूर्ते व्यथिताभवत् ॥४॥
तामाह निद्रा संविग्नां नैशे तमसि रोहिणीम् ।
रोहिणीमिव सोमस्य वसुदेवस्य धीमतः ॥५॥
कर्षणेनास्य गर्भस्य स्वगर्भे चाहितस्य वै ।
संकर्षणो नाम सुतः शुभे तव भविष्यति ॥६॥
सा तं पुत्रमवाप्यैवं हृष्टा किञ्चिदवाङ्मुखी ।
विवेश रोहिणी वेश्म सुप्रभा रोहिणी यथा ॥७॥
तस्य गर्भस्य मार्गेण गर्भमाधत्त देवकी ।
यदर्थं सप्त ते गर्भाः कंसेन विनिपातिताः ॥८॥
तं तु गर्भं प्रयत्नेन ररक्षुस्तस्य मन्त्रिणः ।
सोऽप्यत्र गर्भवसतौ वसत्वात्मेच्छया हरिः ॥९॥
यशोदापि समाधत्त गर्भं तदहरेव तु ।
विष्णोः शरीरजां निद्रां विष्णुनिर्देशकारिणीम् ॥१०॥
गर्भकाले त्वसम्पूर्णे अष्टमे मासि ते स्त्रियौ ।
देवकी च यशोदा च सुषुवाते समं तदा ॥११॥
यामेव रजनीं कृष्णो जज्ञे वृष्णिकुलोद्वहः ।
तामेव रजनीं कन्यां यशोदापि व्यजायत ॥१२॥
नन्दगोपस्य भार्यैका वसुदेवस्य चापरा ।
तुल्यकालं च गर्भिण्यौ यशोदा देवकी तथा ॥१३॥
देवक्यजनयद्विष्णुं यशोदा तां तु दारिकाम् ।
मुहूर्तेऽभिजिति प्राप्ते सार्धरात्रे विभूषिते ॥१४॥
सागराः समकम्पन्त चेलुश्च धरणीधराः ।
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने ॥१५॥
शिवाश्च प्रववुर्वाताः प्रशान्तमभवद् रजः ।
ज्योतींष्यतिव्यकाशन्त जायमाने जनार्दने ॥१६॥
अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी ।
मुहूर्तो विजयो नाम यत्र जातो जनार्दनः ॥१७॥
अव्यक्तः शाश्वतः सूक्ष्मो हरिर्नारायणः प्रभुः ।
जायमानो हि भगवान्नयनैर्मोहयन् प्रभुः ॥१८॥
अनाहता दुन्दुभयो देवानां प्राणदन् दिवि ।
आकाशात् पुष्पवृष्टिं च ववर्ष त्रिदशेश्वरः ॥१९॥
गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्तो मधुसूदनम् ।
महर्षयः सगन्धर्वा उपतस्थुः सहाप्सराः ॥२०॥
जायमाने हृषीकेशे प्रहृष्टमभवज्जगत् ।
इन्द्रश्च त्रिदशैः सार्धं तुष्टाव मधुसूदनम् ॥२१॥
वसुदेवश्च तं रात्रौ जातं पुत्रमधोक्षजम् ।
श्रीवत्सलक्षणं दृष्ट्वा युतं दिव्यैश्च लक्षणैः ।
उवाच वसुदेवस्तु रूपं संहर वै प्रभो ॥२२॥
भीतोऽहं देव कंसस्य तस्मादेवं ब्रवीम्यहम् ।
मम पुत्रा हतास्तेन तव ज्येष्ठाम्बुजेक्षण ॥२३॥
वैशम्पायन उवाच
वसुदेववचः श्रुत्वा रूपं चाहरदच्युतः ।
अनुज्ञाप्य पितृत्वेन नन्दगोपगृहं नय ॥२४॥
वसुदेवस्तु संगृह्य दारकं क्षिप्रमेव च ।
यशोदाया गृहं रात्रौ विवेश सुतवत्सलः ॥२५॥
यशोदायास्त्वविज्ञातस्तत्र निक्षिप्य दारकम् ।
प्रगृह्य दारिकां चैव देवकीशयने न्यसत् ॥२६॥
परिवर्ते कृते ताभ्यां गर्भाभ्यां भयविक्लवः ।
वसुदेवः कृतार्थो वै निर्जगाम निवेशनात् ॥२७॥
उग्रसेनसुतायाथ कंसायानकदुन्दुभिः ।
निवेदयामास तदा तां कन्यां वरवर्णिनीम् ॥२८॥
तच्छ्रुत्वा त्वरितः कंसो रक्षिभिः सह वेगिभिः ।
आजगाम गृहद्वारं वसुदेवस्य वीर्यवान् ॥२९॥
स तत्र त्वरितं द्वारि किं जातमिति चाब्रवीत् ।
दयितां शीघ्रमित्येवं वाग्भिः समभितर्जयत् ॥३०॥
ततो हाहाकृताः सर्वा देवकीभवने स्त्रियः ।
उवाच देवकी दीना बाष्पगद्गदया गिरा ॥३१॥
दारिका तु प्रजातेति कंसं समभियाचती ।
श्रीमन्तो मे हताः सप्त पुत्रगर्भास्त्वया विभो ॥३२॥
दारिकेयं हतैवैषा पश्यस्व यदि मन्यसे ।
दृष्ट्वा कंसस्तु तां कन्यामाकृष्यत मुदा युतः ॥३३॥
हतैवैषा यदा कन्या जातेत्युक्त्वा वृथामतिः ।
सा गर्भशयने क्लिष्टा गर्भाम्बुक्लिन्नमूर्धजा ॥३४॥
कंसस्य पुरतो न्यस्ता पृथिव्यां पृथिवीसमा ।
स चैनां गृह्य पुरुषः खमाविध्यावधूय च ॥३५॥
उद्यच्छन्नेव सहसा शिलायां समपोथयत् ।
सावधूता शिलापृष्ठेऽनिष्पिष्टा दिवमुत्पतत् ॥३६॥
हित्वा गर्भतनुं सा तु सहसा मुक्तमूर्धजा ।
जगाम कसमादिश्य दिव्यस्रगनुलेपना ॥३७॥
हारशोभितसर्वाङ्गी मुकुटोज्ज्वलभूषिता ।
कन्यैव साभवन्नित्यं दिव्या देवैरभिष्टुता ॥३८॥
नीलपीताम्बरधरा गजकुम्भोपमस्तनी ।
रथविस्तीर्णजघना चन्द्रवक्त्रा चतुर्भुजा ॥३९॥
विद्युद्विस्पष्टवर्णाभा बालार्कसदृशेक्षणा ।
पयोधरस्तनवती संध्येव सपयो धरा ॥४०॥
सा वै निशि तमोग्रस्ते बभौ भूतगणाकुले ।
नृत्यती हसती चैव विपरीतेन भास्वती ॥४१॥
विहायसि गता रौद्रा पपौ पानमनुत्तमम् ।
जहास च महाहासं कंसं च रुषिताब्रवीत् ॥४२॥
कंस कंसात्मनाशाय यदहं घातिता त्वया ।
सहसा च समुत्क्षिप्य शिलायामभिपोथिता ॥४३॥
तस्मात्तवान्तकालेऽहं कृष्यमाणस्य शत्रुणा ।
पाटयित्वा करैर्देहमुष्णं पास्यामि शोणितम् ॥४४॥
एवमुक्त्वा वचो घोरं सा यथेष्टेन वर्त्मना ।
खं सा देवालयं देवी सगणा विचचार ह ॥४५॥
सा कन्या ववृधे तत्र वृष्णिसंघसुपूजिता ।
पुत्रवत् पाल्यमाना सा वसुदेवाज्ञया तदा ॥४६॥
विद्धि चैनामथोत्पन्नामंशाद् देवीं प्रजापतेः ।
एकानंशां योगकन्यां रक्षार्थं केशवस्य तु ॥४७॥
तां वै सर्वे सुमनसः पूजयन्ति स्म यादवाः ।
देववद् दिव्यवपुषा कृष्णः संरक्षितो यया ॥४८॥
तस्यां गतायां कंसस्तु तां मेने मृत्युमात्मनः ।
विविक्ते देवकीं चैव व्रीडितः समभाषत ॥४९॥
कंस उवाच
मृत्योः स्वसः कृतो यत्नस्तव गर्भा मया हताः ।
अन्य एवान्यतो देवि मम मृत्युरुपस्थितः ॥५०॥
नैराश्येन कृतो यत्नः स्वजने प्रहृतं मया ।
दैवं पुरुषकारेण न चातिक्रान्तवानहम् ॥५१॥
त्यज गर्भकृतां चिन्तां संतापं पुत्रजं त्यज ।
हेतुभूतस्त्वहं तेषां सति कालविपर्यये ॥५२॥
काल एव नृणां शत्रुः कालश्च परिणामकः ।
कालो नयति सर्वं वै हेतुभूतस्तु मद्विधः ॥५३॥
आगमिष्यन्ति वै देवि यथाभागमुपद्रवाः ।
इदं तु कष्टं यज्जन्तुः कर्ताहमिति मन्यते ॥५४॥
मा कार्षीः पुत्रजां चिन्तां विलापं शोकजं त्यज ।
एवं प्रायो नृणां योनिर्नास्ति कालस्य संस्थितिः ॥५५॥
एष ते पादयोर्मूर्ध्ना पुत्रवत् तव देवकि ।
मद्गतस्त्यज्यतां रोषो जानाम्यपकृतं त्वयि ॥५६॥
इत्युक्तवन्तं कंसं सा देवकी वाक्यमब्रवीत् ।
साश्रुपूर्णमुखा दीना भर्तारमुपवीक्षती ।
उत्तिष्ठोत्तिष्ठ वत्सेति कंसं मातेव जल्पती ॥५७॥
देवक्युवाच
ममाग्रतो हता गर्भा ये त्वया कामरूपिणा ।
कारणं त्वं न वै पुत्र कृतान्तोऽप्यत्र कारणम् ॥५८॥
गर्भकर्तनमेतन्मे सहनीयं त्वया कृतम् ।
पादयोः पतता मूर्ध्ना स्वं च कर्म जुगुप्सता ॥५९॥
गर्भे च नियतो मृत्युर्बाल्येऽपि न निवर्तते ।
युवापि मृत्योर्वशगः स्थविरो मृत एव तु ॥६०॥
कालपक्वमिदं सर्वं हेतुभूतस्तु त्वद्विधः ।
अज्ञाते दर्शनं नास्ति यथा वायुस्तथैव च ॥६१॥
जातोऽप्यजाततां याति विधात्रा यत्र नीयते ।
तद् गच्छ पुत्र मा ते भून्मद्गतं मृत्युकारणम् ॥६२॥
मृत्युना प्रहृते पूर्वं शेषो हेतुः प्रवर्तते ।
विधिना पूर्वदृष्टेन प्रजासर्गेण तत्त्वतः ॥६३॥
मातापित्रोस्तु कार्येण जन्मतस्तूपपद्यते ।
वैशम्पायन उवाच
निशम्य देवकीवाक्यं स कंसः स्वं निवेशनम् ॥६४॥
प्रविवेश ससंरब्धो दह्यमानेन चेतसा ।
कृत्ये प्रतिहते दीनो जगाम विमना भृशम् ॥६५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि श्रीकृष्णजन्मनि चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : July 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP