TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
एकोनचत्वारिंशोऽध्यायः

विष्णुपर्व - एकोनचत्वारिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


एकोनचत्वारिंशोऽध्यायः
पुर्याः पुरवासिनां च रक्षणाय बलरामकृष्णयोः मथुरातः दक्षिणभारतं प्रति प्रस्थानम्, परशुरामस्य दर्शनम्, तेन गोमन्तपर्वतोपरि गमनाय ताभ्यां मन्त्रणम्

वैशम्पायन उवाच
विकद्रोस्तु वचः श्रुत्वा वसुदवो महायशाः ।
परितुष्टेन मनसा वचनं चेदमब्रवीत् ॥१॥
राजा षाड्गुण्यवक्ता वै राजा मन्त्रार्थतत्त्ववित् ।
सतत्त्वं च हितं चैव कृष्णोक्तं किल धीमता ॥२॥
भाषिता राजधर्माश्च सत्याश्च जगतो हिताः ।
विक्रद्रुणा यदुश्रेष्ठ यद्धितं तद् विधीयताम् ॥३॥
एतच्छ्रुत्वा पितुर्वाक्यं विक्रद्रोश्च महात्मनः ।
वाक्यमुत्तममेकाग्रो बभाषे पुरुषोत्तमः ॥४॥
ब्रुवतां वः श्रुतं वाक्यं हेतुतः क्रमतस्तथा ।
न्यायतः शास्त्रतश्चैव दैवं चैवानुपश्यताम् ॥५॥
श्रूयतामुत्तरं वाक्यं श्रुत्वा च परिगृह्यताम् ।
नयेन व्यवहर्तव्यं पार्थिवेन यथाक्रमम् ॥६॥
संधिं च विग्रहं चैव यानमासनमेव च ।
द्वैधीभावं संश्रयं च षाड्गुण्यं चिन्तयेत् सदा ॥७॥
बलिनः संनिकृष्टे तु न स्थेयं पण्डितेन वै ।
अपक्रमेद्धि कालज्ञः समर्थो युद्धमुद्वहेत् ॥८॥
अहं तावत् सहार्येण मुहूर्तेऽस्मिन् प्रकाशिते ।
जीवितार्थे गमिष्यामि शक्तिमानप्यशक्तवत् ॥९॥
ततः सह्याचलयुतं सहार्येणाहमक्षयम् ।
आत्मद्वितीयः श्रीमन्तं प्रवेक्ष्ये दक्षिणापथम् ॥१०॥
करवीरपुरं चैव रम्यं क्रौञ्चपुरं तथा ।
द्रक्ष्यावस्तत्र सहितौ गोमन्तं च नगोत्तमम् ॥११॥
आवयोर्गमनं श्रुत्वा जितकाशी स पार्थिवः ।
अप्रविश्य पुरीं दर्पादनुसारं करिष्यति ॥१२॥
ततः सह्यवनेष्वेव राजा याति स सानुगः ।
आवयोर्ग्रहणे चैव नृपतिः प्रयतिष्यति ॥१३॥
एषा नः श्रेयसी यात्रा भविष्यति कुलस्य वै ।
पौराणामथ पुर्याश्च देशस्य च सुखावहा ॥१४॥
न च शत्रोः परिभ्रष्टा राजानो विजिगीषवः ।
परराष्ट्रेषु मृष्यन्ति मृधे शत्रोः क्षयं विना ॥१५॥
एवमुक्त्वा तु तौ वीरौ कृष्णसंकर्षणावुभौ ।
प्रपेदतुरसम्भ्रान्तौ दक्षिणौ दक्षिणापथम् ॥१६॥
तौ तु राष्ट्राणि शतशश्चरन्तौ कामरूपिणौ ।
दक्षिणां दिशमास्थाय चेरतुर्मार्गगौ सुखम् ॥१७॥
सह्यपृष्ठेषु रम्येषु मोदमानावुभौ तथा ।
दक्षिणापथगौ वीरावध्वानं सम्प्रपेदतुः ॥१८॥
तौ च स्वल्पेन कालेन सह्याचलविभूषितम् ।
करवीरपुरं प्राप्तौ स्ववंशेन विभूषितम् ॥१९॥
तौ तत्र गत्वा वेणाया नद्यास्तीरान्तमाश्रितम् ।
आसेदतुः प्ररोहाढ्यं न्यग्रोधं तरुपुङ्गवम् ॥२०॥
अधस्तात् तस्य वृक्षस्य मुनिं दीप्ततपोधनम् ।
अंसावसक्तपरशुं जटावल्कलधारिणम् ॥२१॥
गौरमग्निशिखाकारं तेजसा भास्करोपमम् ।
क्षत्रान्तकरमक्षोभ्यं वपुष्मन्तमिवार्णवम् ॥२२॥
न्यस्तसंकुचिताधानं काले हुतहुताशनम् ।
क्लिन्नं त्रिषवणाम्भोभिराद्यं देवगुरुं यथा ॥२३॥
सवत्सां धेनुकां श्वेतां होमधुक् कामदोहनाम् ।
क्षीरारणिं कर्षमाणं महेन्द्रगिरिगोचरम् ॥२४॥
ददृशतुस्तौ सहितावपरिश्रान्तमव्ययम् ।
भार्गवं राममासीनं मन्दरस्थं यथा रविम् ॥२५॥
न्यायतस्तौ तु तं दृष्ट्वा पादमूले कृताञ्जली ।
वसुदेवसुतौ वीरौ सधिष्ण्याविव पावकौ ॥२६॥
कृष्णस्तमृषिशार्दूलमुवाच वदतां वरः ।
श्लक्ष्णं मधुरया वाचा लोकवृत्तान्तकोविदः ॥२७॥
भगवन् जामदग्न्यं त्वामवगच्छामि भार्गवम् ।
रामं मुनीनामृषभं क्षत्रियाणां कुलान्तकम् ॥२८॥
त्वया सायकवेगेन क्षिप्तो भार्गव सागरः ।
इषुपातेन नगरं कृतं शूर्पारकं त्वया ॥२९॥
धनुःपञ्चशतायाममिषुपञ्चशतोच्छ्रयम् ।
सह्यस्य च निकुञ्जेषु स्फीतो जनपदो महान् ॥३०॥
अतिक्रम्योदधेर्वेलामपरान्ते निवेशितः ।
त्वया तत् कार्तवीर्यस्य सहस्रभुजकाननम् ॥३१॥
छिन्नं परशुनैकेन स्मरता निधनं पितुः ।
इयमद्यापि रुधिरैः क्षत्रियाणां हतद्विषाम् ॥३२॥
स्निग्धैस्त्वत्परशूत्सृष्टै रक्तपङ्का वसुंधरा ।
रैणुकेयं विजाने त्वां क्षितौ क्षितिपरोषणम् ॥३३॥
परशुप्रग्रहे युक्तं यथैवेह रणे तथा ।
तदिच्छावस्त्वया विप्र कंचिदर्थमुपश्रुतम् ॥३४॥
उत्तरं च श्रुतार्थेन प्रत्युक्तमविशङ्कया ।
आवयोर्मथुरा राम यमुनातीरशोभिनी ॥३५॥
यादवौ स्वो मुनिश्रेष्ठ यदि ते श्रुतिमागतौ ।
वसुदेवो यदुश्रेष्ठः पिता नौ हि धृतव्रतः ॥३६॥
जन्मप्रभृति चैवावां व्रजेष्वेव नियोजितौ ।
तौ स्वः कंसभयात् तत्र शङ्कितौ परिवर्द्धितौ ॥३७॥
वयञ्च प्रथमं प्राप्तौ मथुरायां प्रवेशितौ ।
तावावां व्युत्थितं हत्वा समाजे कंसमोजसा ॥३८॥
पितरं तस्य तत्रैव स्थापयित्वा जनेश्वरम् ।
स्वमेव कर्म चारब्धौ गवां व्यापारकारकौ ॥३०॥
अथावयोः पुरं रोद्धुं जरासंधो व्यवस्थितः ।
संग्रामान्सुबहून्कृत्वा लब्धलक्षावपि स्वयम् ॥४०॥
ततः स्वपुररक्षार्थं प्रजानां च धृतव्रत ।
अकृतार्थावनुद्योगौ कर्तव्यबलसाधनौ ॥४१॥
अरथौ पत्तिनौ युद्धे निस्तनुत्रौ निरायुधौ ।
जरासंधोद्यमभयात् पुराद् द्वावेव निःसृतौ ॥४२॥
एवमावामनुप्राप्तौ मुनिश्रेष्ठ तवान्तिकम् ।
आवयोर्मन्त्रमात्रेण कर्तुमर्हसि सत्क्रियाम् ॥४३॥
श्रुत्वैतद् भार्गवो रामस्तयोर्वाक्यमनिन्दितम् ।
रेणुकेयः प्रतिवचो धर्मसंहितमब्रवीत् ॥४४॥
अपरान्तादहं कृष्ण सम्प्रतीहागतः प्रभो ।
एक एव विना शिष्यैर्युवयोर्मन्त्रकारणात् ॥४५॥
विदितो मे व्रजे वासस्तव पद्मनिभेक्षण ।
दानवानां वधश्चापि कंसस्यापि दुरात्मनः ॥४६॥
विग्रहं च जरासंधे विदित्वा पुरुषोत्तम ।
तव सभ्रातृकस्येह सम्प्राप्तोऽस्मि वरानन ॥४७॥
जाने त्वां कृष्ण गोप्तारं जगतः प्रभुमव्ययम् ।
देवकार्यार्थसिद्ध्यर्थमबालं बालतां गतम् ॥४८॥
न त्वयाविदितं किंचित् त्रिषु लोकेषु विद्यते ।
तथापि भक्तिमात्रेण शृणु वक्ष्यामि ते वचः ॥४९॥
पूर्वजैस्तव गोविन्द पूर्वं पुरमिदं कृतम् ।
करवीरपुरं नाम राष्ट्रं चैव निवेशितम् ॥५०॥
पुरेऽस्मिन् नृपतिः कृष्ण वासुदेवो महायशाः ।
शृगाल इति विख्यातो नित्यं परमकोपनः ॥५१॥
नृपेण तेन गोविन्द तव वंशभवा नृपाः ।
दायादा निहताः सर्वे वीर द्वेषानुशायिना ॥५२॥
अहंकारपरो नित्यमजितात्मातिमत्सरी ।
राज्यैश्वर्यमदाविष्टः पुत्रेष्वपि च दारुणः ॥५३॥
तन्नेह भवतः स्थानं रोचते मे नरोत्तम ।
करवीरपुरे घोरे नित्यं पार्थिवदूषिते ॥५४॥
श्रूयतां कथयिष्यामि यत्रोभौ शत्रुबाधनौ ।
जरासंधं बलोदग्रं भवन्तौ योधयिष्यतः ॥५५॥
तीर्त्वा वेणामिमां पुण्यां नदीमद्यैव बाहुभिः ।
विषयान्ते निवासाय गिरिं गच्छाम दुर्गमम् ॥५६॥
रम्यं यज्ञगिरिं नाम सह्यस्य प्ररुहं गिरिम् ।
निवासं मांसभक्षाणां चौराणां घोरकर्मणाम् ॥५७॥
नानाद्रुमलतायुक्तं चित्रं पुष्पितपादपम् ।
प्रोष्ये तत्र निशामेकां खटवाङ्गां नाम निम्नगाम् ॥५८॥
भद्रं ते संतरिष्यामो निकषोपलभूषणाम् ।
गङ्गाप्रपातप्रतिमां भ्रष्टां च महतो गिरेः ॥५९॥
तस्याः प्रपातं द्रक्ष्यामस्तापसारण्यभूषणम् ।
उपभुज्य त्विमान्कामान्गत्वा तान्धरणीधरान् ॥६०॥
द्रक्ष्यामस्तत्र तान् विप्राञ्छाम्यतो वै तपोधनान् ।
रम्यं क्रौञ्चपुरं नाम गमिष्यामः पुरोत्तमम् ॥६१॥
वंशजस्तत्र ते राजा कृष्ण धर्मरतः सदा ।
महाकपिरिति ख्यातो वनवास्यजनाधिपः ॥६२॥
तमदृष्ट्वैव राजानं निवासाय गतेऽहनि ।
तीर्थमानडुहं नाम तत्रस्थाः स्याम संगताः ॥६३॥
ततश्च्युता गमिष्यामः सह्यस्य विवरे गिरिम् ।
गोमन्तमिति विख्यातं नैकशृङ्गविभूषितम् ॥६४॥
स्वर्गतैकमहाशृङ्गं दुरारोहं खगैरपि ।
विश्रामभूतं देवानां ज्योतिर्भिरभिसंवृतम् ॥६५॥
सोपानभूतं स्वर्गस्य गगनाद्रिमिवोच्छ्रितम् ।
तं विमानावतरणं गिरिं मेरुरिवापरम् ॥६६॥
तस्योत्तमे महाशृङ्गे भास्वन्तौ देवरूपिणौ ।
उदयास्तमये सूर्यं सोमं च ज्योतिषां पतिम् ॥६७॥
ऊर्मिमन्तं समुद्रं च अपारद्वीपभूषणम् ।
प्रेक्षमाणौ सुखं तत्र नगाग्रे विचरिष्यथः ॥६८॥
शृङ्गस्थौ तस्य शैलस्य गोमन्तस्य वनेचरौ ।
दुर्गयुद्धेन धावन्तौ जरासंधं विजेष्यथ ॥६९॥
तत्र शैलगतौ दृष्ट्वा भवन्तौ युद्धदुर्मदौ ।
आसक्तः शैलयुद्धे च जरासंधो भविष्यति ॥७०॥
भवतोरपि युद्धे तु प्रवृत्ते तत्र दारुणे ।
आयुधैः सह संयोगं पश्यामि नचिरादिव ॥७१॥
संग्रामश्च महान् कृष्ण निर्दिष्टस्तत्र दैवतैः ।
यदूनां पार्थिवानां च मांसशोणितकर्दमः ॥७२॥
तत्र चक्रं हलं चैव गदां कौमोदकीं तथा ।
सौनन्दं मुसलं चैव वैष्णवान्यायुधानि च ॥७३॥
दर्शयिष्यन्ति संग्रामे पास्यन्ति च महीक्षिताम् ।
रुधिरं कालयुक्तानां वपुर्भिः कालसंनिभैः ॥७४॥
स चक्रमुसलो नाम संग्रामः कृष्ण विश्रुतः ।
दैवतैरिह निर्दिष्टः कालस्यादेशसंज्ञितः ॥७५॥
तत्र ते कृष्ण संग्रामे सुव्यक्तं वैष्णवं वपुः ।
द्रक्ष्यन्ति रिपवः सर्वे सुराश्च सुरभावन ॥७६॥
तां भजस्व गदां कृष्ण चक्रं च चिरविस्मृतम् ।
भजस्व स्वेन रूपेण सुराणां विजयाय वै ॥७७॥
बलश्चायं हलं घोरं मुसलं चारिभेदनम् ।
वधाय सुरशत्रूणां भजताल्लोकभावनः ॥७८॥
एष ते प्रथमः कृष्ण संग्रामो भुवि पार्थिवैः ।
पृथिव्यर्थे समाख्यातो भारावतरणे सुरैः ॥७९॥
आयुधावाप्तिरत्रैव वपुषो वैष्णवस्य च ।
लक्ष्म्याश्च तेजसश्चैव व्यूहानां च विदारणम् ॥८०॥
अतःप्रभृति संग्रामो धरण्यां शस्त्रमूर्च्छितः ।
भविष्यति महान् कृष्ण भारतं नाम वैशसम् ॥८१॥
तद् गच्छ कृष्ण शैलेन्द्रं गोमन्तं च नगोत्तमम् ।
जरासंधमृधे चापि विजयस्त्वामुपस्थितः ॥८२॥
इदं चैवामृतप्रख्यं होमधेनोः पयोऽमृतम् ।
पीत्वा गच्छत भद्रं वो मयाऽऽदिष्टेन वर्त्मना ॥८३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रामवाक्ये एकोनचत्वारिंशोऽध्यायः ॥३९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-18T15:19:53.2500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धन्वन्तरि

  • n. देवताओं का वैद्य एवं ‘आयुर्वेदशास्त्र’ का प्रवर्तक देवता । समुद्रमंथन के समय, यह अमृत का श्वेत कमंडलु हाथ में रख कर समुद्र से प्रकट हुआ [म.आ.१६.३७] । इसे आदिदेव, अमरवर, अमृतयोनि एवं अब्ज आदि नामांतर भी प्राप्त है । दुर्वासस् ने इंद्र को शाप दे कर, वैभवहीन बना दिया तब गतवैभव पुनः प्राप्त करने के लिये, देव दैत्यों ने क्षीरसमुद्र का मंथन किया । उस समुद्रमंथन से प्राप्त, चौदह रत्नों में से धन्वन्तरि एक था । समुद्र में से प्रकट होते समय, इसके हाथ में अमृतकलश था । जब यह समुद्र से निकला तब तेज से दिशाएँ जगमगा उठी [ह.वं.२९.१३] । यह विष्णु का अवतार एवं ‘आयुर्वेदप्रवर्तक’ देवता था [विष्णु.१.९.९६];[ भा.१.३.१७,८.८.३१-३५] । इसे आयुर्वेदशास्त्र का ज्ञान इंद्र के प्रसाद से एवं चिकित्साज्ञान भास्कर के प्रसाद से प्राप्त हुआ था [भवि.१.७२];[ मत्स्य.२५१.४] । समुद्रमंथन से निकलने के पश्चात्, विष्णु भगवान् को इसने देखा । उसे देख कर यह ठिठक गया । विष्णु ने इसे ‘अब्ज’ (पानी से जिसका जनम हुआ) कह कर पुकारा । पश्चात् इसने विष्णु से प्रार्थना की, ‘यज्ञ में मेरा भाग एवं स्थान नियत कर दिया जाय’ । विष्णु ने कहा, ‘यज्ञ के भाग एवं स्थान तो बँट गये है । किंतु अगले जन्म में तुम्हारी यह इच्छा पूरी होगी । उस जन्म में तुम विशेष ख्याति प्राप्त करोंगे । ‘अणिमादि’ सिद्धियॉं तुम्हें गर्भ से ही प्राप्त होगी, एवं तुम सशरीर देवत्व प्राप्त करोंगे । तुम ‘आयुर्वेद’ को आठ भागों में विभक्त करोंगे । एवं उस कार्य के लिये, लोग तुम्हें मंत्र से आहुति देने लगेंगे’। विष्णु के उस आशिर्वचनानुसार, धन्वन्तरि ने द्वापरयुग में काशिराज धन्व (सौनहोत्र) के पुत्र के रुप में पुनर्जन्म लिया । उस जन्म में, इसने भरद्वाज ऋषिप्रणीत ‘आयुर्वेद’ आठ विभागों में विभक्त किया, एवं प्रजा को रोगमुक्त किया [वायु.९२.९-२२]; धन्वन्तरि २. देखिये । उस महान् कार्य के लिये, नित्यकर्मान्तर्गत पंचमहायज्ञ ‘वैश्वदेव’ में बलिहरण के समय, ‘धन्वंतरये स्वाहा’ कर के इसे यज्ञाहुति मिलने लगी । इस तरह इसकी विष्णु भगवान् के पास की गयी प्रार्थना सफल हुई । वैद्यक एवं शल्यशास्त्र में पारंगत व्यक्तिओं को आज भी ‘धन्वन्तरि’ कहा जाता है. [उ.सु.सं.टी. सू.१.३] 
  • धन्वन्तरि स्वरुप वर्णन n. धन्वन्तरि देवता का स्वरुप वर्णन प्राचीन ग्रंथ में उपलब्ध है [भा.८.८.३१-३५] । आधुनिक भिषग्वर एवं वैद्य उसे ‘धन्वन्तरि स्तोत्र’ नाम से नित्य पठन करते हैः---
    अथोदधेर्मथ्यमानात् काश्यपैरमृतार्थिभिः । उदतिष्ठन्महाराज पुरुषः परमाद्‍भुतः॥
    दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः। श्यामलस्तरुणः स्त्रग्वी सर्वाभरणभूषितः॥
    पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः । स्निग्धकुञ्चितकेशान्तः सुभगः सिंहविक्रमः ॥
    अमृतापृर्णकलशं बिभ्रद्‍ वलयभूषितः । स वै भगवतः साक्षाद्‍ विष्णोरंशांशसंभवः ॥
    धन्वन्तरिरिति ख्यातः आयुर्वेददृग् इज्यभाक्।
    धन्वन्तरि की मूर्ति के बारे में, दक्षिण भारतीय तथा उत्तर भारतीय ऐसे कुल दो पाठ उपलब्ध हैं । उस प्रकार की मूर्तियॉं भी प्राप्त है । दक्षिण की धन्वन्तरि की मूर्ति आंध्र फार्मसी ने मद्रासे में तैयार की है । उत्तर की मूर्ति, गीर्वाणेंद्र सरस्वति कृत ‘प्रपंच सार’ ग्रंथानुसार तैयार की गयी है, एवं वह काशी में वैद्य त्र्यंबक शास्त्री के पास थी । दोनों मूर्तियों की तुलना करने पर पता चलता है कि, वे समान नहीं हैं । उन में दाहिनी ओर की वस्तुएँ बायीं ओर, तथा बायीं ओर की वस्तुएँ दाहिनी ओर दिखायी दी गयी हैं । दक्षिण की मूर्ति में दाहिने उपरवाले हाथ में चक्र है । काशी की मूर्ति के उसी हाथ में शंख है । दक्षिण के नीचवाले दाहिने के हाथ में जोंक है, तो काशी की मूर्ति के हाथ में अमृतकुंभ है । बाई ओर के हाथों के बारे में भी यही फर्क दिखाई देता हैं ।
     
RANDOM WORD

Did you know?

Are we transliterating everything? Do we copy that from some other websites?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.