TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
द्वात्रिंशोऽध्यायः

विष्णुपर्व - द्वात्रिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


द्वात्रिंशोऽध्यायः
श्रीकृष्णेन कंसवधाय पश्चात्तापपूर्वकं तस्य औचित्यस्य समर्थनम्, उग्रसेनेन श्रीकृष्णं सर्वसमर्पणं कृत्वा कंसस्य अन्त्येष्टिसंस्काराय अनुरोधं, श्रीकृष्णेन तस्य राज्याभिषेककरणम्, समस्त यादवैः सह कंसादीनां अन्त्येष्टिकारणम् ।

वैशम्पायन उवाच
उग्रसेनस्तु कृष्णस्य समीपं दुःखितो ययौ ।
पुत्रशोकाभिसंतप्तो विषपीत इव श्वसन् ॥१॥
स ददर्श गृहे कृष्णं यादवैः परिवारितम् ।
पश्चानुतापाद् ध्यायन्तं कंसस्य निधनाविलम् ॥२॥
कंसनारीविलापांश्च श्रुत्वा स करुणान् बहून् ।
गर्हमाणस्तथाऽऽत्मानं तस्मिन् यादवसंसदि ॥३॥
अहो मयातिबाल्येन रोषाद् दोषानुवर्तिना ।
वैधव्यं स्त्रीसहस्राणां कंसस्यास्य वधे कृतम् ॥४॥
कारुण्यं खलु नारीषु प्राकृतस्यापि जायते ।
एवमार्तं रुदन्तीषु मया भर्तरि पातिते ॥५॥
परिदेवितमात्रेण शोकः खलु विधीयते ।
कृतान्तस्यानभिज्ञानां स्त्रीणां कारुण्यसम्भवः॥६॥
कंसस्य हि वधः श्रेयान् प्रागेवाभिमतो मम ।
सतामुद्वेजनीयस्य पापेष्वभिरतस्य च ॥७॥
लोके पतितवृत्तस्य परुषस्यालल्पमेधसः ।
अक्लिष्टं मरणं श्रेयो न विद्विष्टस्य जीवितम् ॥८॥
कंसः पापपरश्चैव साधूनामप्यसम्मतः ।
धिक्छब्दपतितश्चैव जीविते चास्य का दया ॥९॥
स्वर्गे तपोभृतां वास फलं पुण्यस्य कर्मणः ।
इहापि यशसा युक्तः स्वर्गस्थैरवधार्यते ॥१०॥
यदि स्युर्निर्वृता लोकाः स्युश्च धर्मपराः प्रजाः ।
नरा धर्मप्रवृत्ताश्च न राज्ञामनयः स्पृशेत् ॥११॥
निग्रहे दुष्टवृत्तीनां कृतान्तः कृरुते फलम् ।
इष्टधर्मेषु लोकेषु कर्तव्यं पारलौकिकम् ॥१२॥
अतीव देवा रक्षन्ति नरं धर्मपरायणम् ।
कर्तारः सुलभा लोके दुष्कृतस्य हि कर्मणः ॥१३॥
हतः सोऽयं मया कंसः साध्वेतदवगम्यताम् ।
मूलच्छेदः कृतस्तस्य विपरीतस्य कर्मणः ॥१४॥
तदेष सान्त्व्यतां सर्वः शोकार्तः प्रमदाजनः ।
पौराश्च पुर्यां श्रेण्यश्च सान्त्व्यन्तां सर्व एव हि ॥१५॥
एवं ब्रुवति गोविन्दे विवेशावनताननः ।
उग्रसेनो यदून् गृह्य पुत्रकिल्बिषशङ्कितः ॥१६॥
स कृष्णं पुण्डरीकाक्षमुवाच यदुसंसदि ।
वाष्पसंदिग्धया वाचा दीनया सज्जमानया ॥१७॥
पुत्रो निर्यातितः क्रोधान्नीतो याम्यां दिशं रिपुः ।
स्वधर्माधिगता कीर्तिर्नाम विश्रावितं भुवि ॥१८॥
स्थापितं सत्सु माहात्म्यं शङ्किता रिपवः कृताः ।
स्थापितो यादवो वंशो गर्विताः सुहृदः कृताः ॥१९॥
सामन्तेषु नरेन्द्रेषु प्रतापस्ते प्रकाशितः ।
मित्राणि त्वां भजिष्यन्ति संश्रयिष्यन्ति पार्थिवाः ॥२०॥
प्रकृतयोऽनुयास्यन्ति स्तोष्यन्ति त्वां द्विजातयः ।
संधिविग्रहमुख्यास्त्वां प्रणमिष्यन्ति मन्त्रिणः ॥२१॥
हस्त्यश्वरथसम्पूर्णं पदातिगणसंकुलम् ।
प्रतिगृहाण कृष्णेदं कंसस्य बलमव्ययम् ॥२२॥
धनं धान्यं च यत् किंचिद् रत्नान्याच्छादनानि च ।
प्रतीच्छन्तु नियुक्ता वै त्वदीयाः कृष्ण पूरुषाः॥२३॥
स्त्रियो हिरण्यं यानानि यदन्यद् वसु किंचन ।
एवं हि विहिते योगे पर्याप्ते कृष्ण विग्रहे ॥२४॥
प्रतिष्ठितायां मेदिन्यां यदूनां शत्रुसूदन ।
त्वं गतिश्चागतिश्चैव यदूनां यदुनन्दन ॥२५॥
शृणुष्व वदतां वीर कृपणानामिदं वचः ।
अस्य त्वत्कोपदग्धस्य कंसस्याशुभकर्मणः ॥२६॥
तव प्रसादाद् गोविन्द प्रेतकार्यं क्रियेत ह ।
तस्य कृत्वा नरेन्द्रस्य विपन्नस्यौर्ध्वदेहिकम् ॥२७॥
सस्नुषोऽहं सभार्यश्च चरिष्यामि मृगैः सह ।
प्रेतसत्कारमात्रेण कृते बान्धवकर्मणि ।
आनृण्यं लौकिकं कृष्ण गताः किल भवन्ति हि ॥२८॥
तस्याग्निं पश्चिमं कृत्वा चितिस्थाने विधानतः ।
तोयप्रदानमात्रेण कंसस्यानृण्यमाप्नुयाम् ॥२९॥
एतत्ते कृष्ण विज्ञाप्यं स्नेहोऽत्र मयि युज्यताम् ।
प्राप्नोति सुगतिं तत्र कृपणः पश्चिमां क्रियाम् ॥३०॥
एतच्छ्रुत्वा वचस्तस्य कृष्णः परमविस्मितः ।
प्रत्युवाचोग्रसेनं वै सान्त्वपूर्वमिदं वचः ॥३१॥
कालयुक्तमिदं तात तवैतद् यत् प्रभाषितम् ।
सदृशं राजशार्दूल वृत्तस्य च कुलस्य च ॥३२॥
यत् त्वमेवंविधं ब्रूषे गतेऽर्थे दुरतिक्रमं ।
प्राप्स्यते नृपसत्कारं कंसः प्रेतगतोऽऽपि सन् ॥३३॥
कुले महति ते जन्म वेदान् विदितवानसि ।
कथं न ज्ञायते तात नियतिर्दुरतिक्रमा ॥३४॥
स्थावराणां च भूतानां जङ्गमानां च पार्थिव ।
पूर्वजन्मकृतं कर्म कालेन परिपच्यते ॥३५॥
श्रुतवन्तोऽर्थवन्तश्च दातारः प्रियदर्शनाः ।
ब्रह्मण्या नयसम्पन्ना दीनानुग्रहकारिणः ॥३६॥
लोकपालसमास्तात महेन्द्रसमविक्रमाः ।
क्षितिपालाः कृतान्तेन नीयन्ते नृपसत्तम ॥३७॥
धार्मिकाः सर्वभावज्ञाः प्रजापालनतत्पराः ।
क्षत्रधर्मपरा दान्ताः कालेन निधनं गताः ॥३८॥
स्वयमात्मकृतं कर्म शुभं या यदि वाशुभम् ।
प्राप्ते काले तु तत्कर्म दृश्यते सर्वदेहिनाम् ॥३९॥
एषा ह्यन्तर्हिता माया दुर्विज्ञेया सुरैरपि ।
यथायं मुह्यते लोको ह्यत्र कर्मैव कारणम् ॥४०॥
कालेनाभिहतः कंसः पूर्वकर्मप्रचोदितः ।
न ह्यहं कारणं तत्र कालः कर्म च कारणम् ॥४१॥
सूर्यसोममयं तात कृत्स्नं स्थावरजङ्गमम् ।
कालेन निधनं गत्वा कालेनैव च जायते ॥४२॥
स कालः सर्वभूतानां निग्रहानुग्रहे रतः ।
तस्मात्सर्वाणि भूतानि कालस्य वशगानि वै ॥४३॥
स्वदोषेणैव दग्धस्य सूनोस्तव नराधिप ।
नाहं वै कारणं तत्र कालस्तत्र च कारणम् ॥४४॥
अथवाहं भविष्यामि कारणं नात्र संशयः ।
परायणपरः कालः किं करिष्यत्यकारणः ॥४५॥
कालस्तु बलवान् राजन् दुर्विज्ञेया हि सा गतिः ।
परावरविशेषज्ञा यां यान्ति समदर्शिनः ॥४६॥
गतिः कालस्य सा येन सर्वं कालस्य गोचरम् ।
ब्रवीमि यदहं तात तदनुष्ठीयतां वचः ॥४७॥
न हि राज्येन मे कार्यं नाप्यहं नृप काङ्क्षितः ।
न चापि राज्यलुब्धेन मया कंसो निपातितः ॥४८॥
किं तु लोकहितार्थाय कीर्त्यर्थं च सुतस्तव ।
व्यङ्गभूतः कुलस्यास्य सानुजो विनिपातितः ॥४९॥
अहं स एव गोमध्ये गोपैः सह वनेचरः ।
प्रीतिमान् विचरिष्यामि कामचारी यथा गजः ॥५०॥
एतावच्छतशोऽप्येवं सत्येनैतद् ब्रवीमि ते ।
न मे कार्यं नृपत्वेन विज्ञाप्यं क्रियतामिदम् ॥५१॥
भवान राजास्तु मान्यो मे यदूनामग्रणीः प्रभुः ।
विजयायाभिषिच्यस्व स्वराज्ये नृपसत्तम ॥५२॥
यदि ते मत्प्रियं कार्यं यदि वा नास्ति ते व्यथा ।
मया निसृष्टं राज्यं स्वं चिराय प्रतिगृह्यताम् ॥५३॥
वैशम्पायन उवाच
एतच्छ्रुत्वा तु वचनं नोत्तरं प्रत्यभाषत ।
व्रीडिताधोमुखं तं तु राजानं यदुसंसदि ।
अभिषेकेन गोविन्दो योजयामास धर्मवित् ॥५४॥
स बद्धमुकुटः श्रीमानुग्रसेनो महाद्युतिः ।
चकार सह कृष्णेन कंसस्य निधनक्रियाम् ॥५५॥
तं सर्वे यादवा मुख्या राजानं कृष्णशासनात् ।
अनुजग्मुः पुरीमार्गे देवा इव शतक्रतुम् ॥५६॥
रजन्यां तु निवृत्तायां ततः सूर्ये विराजिते ।
पश्चिमं कंससंस्कारं चक्रुस्ते यदुपुङ्गवाः ॥५७॥
शिबिकायामथारोप्य कंसदेहं यथाक्रमम् ।
नैष्टिकेन विधानेन चक्रुस्ते कंससत्क्रियाम् ॥५८॥
स नीतो यमुनातीरमुत्तमं नृपतेः सुतः ।
सत्कृतश्च यथान्यायं नैधनेन चिताग्निना ॥५९॥
तथैव भ्रातरं चास्य सुनामानं महाभुजम् ।
संस्कारं लम्भयामासुः सह कृष्णेन यादवाः ॥६०॥
ताभ्यां ते सलिलं चक्रुर्वृष्ण्यन्धकपुरोगमाः ।
अक्षयं चास्तु प्रेतेभ्यो भाषमाणाः पुनः पुनः ॥६१॥
हिरण्यस्य सुवर्णस्य दश कोटीस्तथा हरिः ।
गावो रत्नानि वासांसि ग्रामान् नगरसम्मतान् ॥६२॥
ददौ कंसं समुद्दिश्य ब्राह्मणेभ्यो नृपोत्तमः ।
अक्षयं चापि विप्रेभ्यो भाषमाणाः पुनः पुनः ॥६३॥
तयोस्ते सलिलं दत्त्वा यादवा दीनमानसाः ।
पुरस्कृत्योग्रसेनं वै विविशुर्मथुरां पुरीम् ॥६४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि उग्रसेनाभिषेककंससंस्कारकथने द्वात्रिंशोऽध्यायः ॥३२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-18T15:12:28.6230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

झकास

  • वि. १ चांगला ; उत्कृष्ट ; मारू . २ ( कु . ) ऐटबाज ; डौलदार . ३ चकचकीत . [ सं . चकास = प्रकाशणें ] 
  • वि. उत्कृष्ट , चांगला , छान , मारु . 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.