TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
चतुर्विंशत्यधिकशततमोऽध्यायः

विष्णुपर्व - चतुर्विंशत्यधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


चतुर्विंशत्यधिकशततमोऽध्यायः
बाणासुरस्य सेनायाः पलायनं, भगवतः शङ्करस्य स्वगणैः सह युद्धायागमनम्, भगवतः कृष्णस्य रुद्रेण सह युदधं, बाणासुरस्य युद्धभूम्यां आगमनम्

वैशम्पायन उवाच
ततस्ते त्वरिताः सर्वे त्रयस्त्रय इवाग्नयः ।
वैनतेयमथारुह्य युध्यमाना रणे स्थिताः ॥१॥
ततः सर्वाण्यनीकानि बाणवर्षैरवाकिरन् ।
अर्दयन् वैनतेयस्था नदन्तोऽतिबलाद् रणे ॥२॥
चक्रलाङ्गलपातैश्च बाणवर्षैश्च पीडितम् ।
संचुकोप महानीकं दानवानां दुरासदम् ॥३॥
कक्षेऽग्निरिव संवृद्धः शुष्केन्धनसमीरितः ।
कृष्णबाणाग्निरुद्भूतो विवृद्धिं परमां गतः ॥४॥
दानवानां सहस्राणि तस्मिन् समरमूर्धनि ।
युगान्ताग्निरिवार्चिष्मान् दहमानो व्यराजत ॥५॥
तां दीर्यमाणां महतीं नानाप्रहरणार्दिताम् ।
सेनां बाणः समासाद्य वारयन् वाक्यमब्रवीत् ॥६॥
लाघवं समुपागम्य किमर्थं भयविक्लवाः ।
दैत्यवंशसमुन्पन्नाः पलायध्वं महाहवात् ॥७॥
कवचासिगदाप्रासखड्गचर्मपरश्वधान् ।
उत्सृज्योत्सृज्य गच्छन्ति किं भवन्तोऽन्तरिक्षगाः॥८॥
स्वजातिं चैव भावं च हरसंसर्गमेव च ।
मानयद्भिर्न गन्तव्यमेषो ह्यहमवस्थितः ॥९॥
एवमुच्चरितं वाक्यं शृण्वन्तस्तदचिन्तयन् ।
अपाक्रामन्त ते सर्वे दानवा भयमोहिताः ॥१०॥
प्रमाथगणशेषं तु तदनीकमतिष्ठत ।
भग्नावशेषं युद्धाय पुनश्चक्रे मनस्तदा ॥११॥
कुम्भाण्डो नाम बाणस्य सस्वामात्यश्च वीर्यवान् ।
भग्नं स्वबलमालोक्य इदं वचनमब्रवीत् ॥१२॥
एष बाणः स्थितो युद्धे शंकरोऽयं गुहस्तथा ।
किमर्थं बलमुत्सृज्य भवन्तो यान्ति मोहिताः ॥१३॥
प्राणांस्त्यक्त्वा पलायन्ते सर्वे दानवपुङ्गवाः ।
एवं कुम्भाण्डवाक्यं ते शृण्वन्तो भयविह्वलाः ।
चक्राग्निभयवित्रस्ताः सर्वे यान्ति दिशो दश ॥१४॥
भग्नं बलं ततो दृष्ट्वा कृष्णेनामिततेजसा ।
संरक्तनयनः स्थाणुर्युद्धाय पर्यवर्तत ॥१५॥
बाणसंरक्षणं कर्तुं रथमास्थाय सुप्रभम् ।
देवः कुमारश्च तथा रथेनाग्निसमेन वै ॥१६॥
नन्दीश्वरसमायुक्तं रथमास्थाय वीर्यवान् ।
संदष्टौष्ठपुटो रुद्रः प्राधावत यतो हरिः ॥१७॥
पिबन्निव तदाकाशं सिंहयुक्तो महास्वनः ।
रथो भाति घनोन्मुक्तः पौर्णमास्यां यथा शशी ॥१८॥
ततो गणसहस्रैस्तु नानारूपैर्भयावहैः ।
नदद्भिर्विविधान् नादान्रथो देवस्य शोभयन् ॥१९॥
केचित् सिंहमुखास्तत्र तथा व्याघ्रमुखाः परे ।
नागाश्वोष्ट्रमुखास्तत्र प्रवेपुरतिपीडिताः ॥२०॥
व्यालयज्ञोपवीताश्च केचित् तत्र महाबलाः ।
खरोष्ट्रगजवक्त्राश्च अश्वग्रीवाश्च संस्थिताः ॥२१॥
छागमार्जारवक्त्राश्च मेषवक्त्रास्तथा परे ।
चीरिणः शिखिनश्चान्ये जटिलोर्ध्वशिरोरुहाः ॥२२॥
भग्नाः परिपतन्ति स्म शङ्खदुन्दुभिनिःस्वनैः ।
केचित् सौम्यमुखास्तत्र दिव्यैः शस्त्रैरलंकृताः ॥२३॥
नानापुष्पकृतापीडा नानाप्रहरणायुधाः ।
वामना विकटाश्चैव सिंहव्याघ्रपरिच्छदाः ॥२४॥
रुधिराद्रैर्महावक्त्रैर्महादंष्ट्रा बलिप्रियाः ।
देवं सम्परिवार्याथ महाशत्रुप्रमर्दनम् ॥२५॥
लीलायमानास्तिष्ठन्ति संग्रामाभिमुखोन्मुखाः ।
ततो दिव्यं रथं दृष्ट्वा रुद्रस्याक्लिष्टकर्मणः ॥२६॥
कृष्णो गरुडमास्थाय ययौ रुद्राय संयुगे ।
वैनतेयस्थमास्यन्तमायान्तमग्रणी हरिम् ॥२७॥
विव्याध कुपितो बाणैर्नाराचानां शतेन सः ।
स शरैरर्दितस्तेन हरेणाक्लिष्टकर्मणा ॥२८॥
हरिर्जग्राह कुपितो ह्यस्त्रं पार्जन्यमुत्तमम् ।
प्रचचाल ततो भूमिर्विष्णुरुद्रप्रपीडिता ॥२९॥
नागाश्चोर्ध्वमुखास्तत्र विचेलुरभिपीडिताः ।
पर्वताः पतितास्तत्र जलधाराभिराप्लुताः ॥३०॥
केचिन्मुमुचिरे तत्र शिखराणि समन्ततः ।
दिशश्च प्रदिशश्चैव भूमिराकाशमेव च ॥३१॥
प्रदीप्तानीव दृश्यन्ते स्थाणुकृष्णसमागमे ।
समन्ततश्च निर्घाताः पतन्ति धरणीतले ॥३२॥
शिवाश्चैवाशिवान् नादान्नदन्ते भीमदर्शनाः ।
वासवश्चानदन् घोरं रुधिरं चाप्यवर्षत ॥३३॥
उल्का च बाणसैन्यस्य पुच्छेनावृत्य तिष्ठति ।
प्रववौ मारुतश्चापि ज्योतींष्याकुलतां ययुः ॥३४॥
प्रभाहीनास्तथौषध्यो न चरन्त्यन्तरिक्षगाः ।
एतस्मिन्नन्तरे ब्रह्मा सर्वदेवगणैर्वृतः ॥३५॥
त्रिपुरान्तकमुद्यन्तं ज्ञात्वा रुद्रमुपागमत् ।
गन्धर्वाप्सरसश्चैव यक्षा विद्याधरास्तथा ॥३६॥
सिद्धचारणसंघाश्च पश्यन्तोऽथ दिवि स्थिताः ।
ततः पार्जन्यमस्त्रं तत् क्षिप्तं रुद्राय विष्णुना ॥३७॥
ययौ ज्वलन्नथ तदा यतो रुद्रो रथस्थितः ।
ततः शतसहस्राणि शराणां नतपर्वणाम् ॥३८॥
निपेतुः सर्वतो दिग्भ्यो यतो हररथः स्थितः ।
अथाग्नेयं महारौद्रमस्त्रमस्त्रविदां वरः ॥३९॥
मुमोच रुषितो रुद्रस्तदद्भुतमिवाभवत् ।
ततो विशीर्णदेहास्ते चत्वारोऽपि समन्ततः ॥४०॥
नादृश्यन्त शरैश्छन्ना दह्यमानाश्च वह्निना ।
सिंहनादं ततश्चक्रुः सर्व एवासुरोत्तमाः ॥४१॥
हतोऽयमिति विज्ञाय आग्नेयास्त्रेण वै तदा ।
ततस्तद् विसहित्वाऽऽजौ ह्यस्त्रमस्त्रविदां वरः॥४२॥
जग्राह वारुणं सोऽस्त्रं वासुदेवः प्रतापवान् ।
प्रयुक्ते वासुदेवेन वारुणास्त्रेऽतितेजसि॥४३॥
आग्नेयं प्रशमं यातमस्त्रं वारुणतेजसा ।
तस्मिन् प्रतिहते त्वस्त्रे वासुदेवेन संयुगे ॥४४॥
पैशाचं राक्षसं रौद्रं तथैवाङ्गिरसं भवः ।
मुमोचास्त्राणि चत्वारि युगान्ताग्निनिभानि वै ॥४५॥
वायव्यमथ सावित्रं वासवं मोहनं तथा ।
अस्त्राणां धारणार्थाय वासुदेवो व्यमुञ्चत॥४६॥
अस्त्रैश्चतुर्भिश्चत्वारि वारयित्वाशु माधवः ।
मुमोच वैष्णवं सोऽस्त्रं व्यादितास्यान्तकोपमम्॥४७॥
वैष्णवास्त्रं प्रयुक्ते तु सर्व एवासुरोत्तमाः ।
भूतयक्षगणश्चैव बाणानीकं च सर्वशः ॥४८॥
दिशः सर्वा प्राद्रवन्त भयमोहेन विक्लवाः ।
प्रमाथगणभूयिष्ठे दीर्णे सैन्ये महासुरः ॥४९॥
निर्जगाम ततो बाणो युद्धायाभिमुखस्त्वरन् ।
भीमप्रहरणैर्घोरैर्दैत्यैश्च सुमहाबलैः ।
वृतो महारथैर्वीरैर्वज्रीव सुरसत्तमैः ॥५०॥
वैशम्पायन उवाच
जपैश्च मन्त्रैश्च तथौषधीभिर्महात्मनः स्वस्त्ययनं प्रचक्रुः ।
स तत्र वस्त्राणि शुभाश्च गावः फलानि पुष्पाणि तथैव निष्कान् ॥५१॥
बलेः सुतो ब्राह्मणेभ्यः प्रयच्छन् विराजते तेन यथा धनेशः ।
सहस्रसूर्यो बहुकिङ्किणीकः परार्घ्यजाम्बूनदरत्नचित्रः ॥५२॥
सहस्रचन्द्रायुततारकश्च रथो महानग्निरिवावभाति ।
तमास्थितो दानवसंगृहीतं महाध्वजं कार्मुकधृक् स बाणः ॥५३॥
उद्वर्तयिष्यन् यदुपुङ्गवानामतीव रौद्रं स बिभर्ति रूपम् ।
स मन्युमान् वीररथौघसंकुलो विनिर्ययौ तान् प्रति दैत्यसागरः ॥५४॥
वातप्रवृद्धस्तु तरङ्गसंकुलो यथार्णवो लोकविनाशनाय ।
भीमानि संत्रासकरैर्वपुर्भिस्तान्यग्रतो भान्ति बलानि तस्य ॥५५॥
महारथान्युच्छ्रितकार्मुकाणि सपर्वतानीव वनानि राजन् ।
विनिःसृतः सागरतोयवासादत्यद्भुतश्चाहवद्रष्टुकामः ॥५६॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुद्रकृष्णयुद्धे चतुर्विंशत्यधिकशततमोऽध्यायः ॥१२४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-19T16:16:22.6870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

हिंदू धर्मात ३३ कोटी देवता आहेत काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.